| |
|

This overlay will guide you through the buttons:

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
ब्रह्म जज्ञानम् प्रथमम् पुरस्तात् वि सीमतः सु रुचः वेनः आवः ।स बुध्न्याः उपमाः अस्य विष्ठाः सतः च योनिम् असतः च वि वर् ॥१॥
brahma jajñānam prathamam purastāt vi sīmataḥ su rucaḥ venaḥ āvaḥ .sa budhnyāḥ upamāḥ asya viṣṭhāḥ sataḥ ca yonim asataḥ ca vi var ..1..

अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥
अन् आप्ताः ये वः प्रथमा यानि कर्माणि चक्रिरे ।वीरान् नः अत्र मा दभन् तत् वः एतत् पुरस् दधे ॥२॥
an āptāḥ ye vaḥ prathamā yāni karmāṇi cakrire .vīrān naḥ atra mā dabhan tat vaḥ etat puras dadhe ..2..

सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥
सहस्र-धारे एव ते समस्वरन् दिवः नाके मधु-जिह्वाः असश्चतः ।तस्य स्पशः न नि मिषन्ति भूर्णयः पदे पदे पाशिनः सन्ति सेतवे ॥३॥
sahasra-dhāre eva te samasvaran divaḥ nāke madhu-jihvāḥ asaścataḥ .tasya spaśaḥ na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave ..3..

पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥
परि उ सु प्र धन्व वाज-सातये परि वृत्राणि सक्षणिः ।द्विषः तत् अधि अर्णवेन ईयसे सनिस्रसः नाम असि त्रयोदशः मासः इन्द्रस्य गृहः ॥४॥
pari u su pra dhanva vāja-sātaye pari vṛtrāṇi sakṣaṇiḥ .dviṣaḥ tat adhi arṇavena īyase sanisrasaḥ nāma asi trayodaśaḥ māsaḥ indrasya gṛhaḥ ..4..

न्वेतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥
नु एतेन अरात्सीः असौ स्वाहा ।तिग्म-आयुधौ तिग्म-हेती सु शेवौ सोमारुद्रौ इह सु मृडतम् नः ॥५॥
nu etena arātsīḥ asau svāhā .tigma-āyudhau tigma-hetī su śevau somārudrau iha su mṛḍatam naḥ ..5..

अवैतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥
अव एतेन अरात्सीः असौ स्वाहा ।तिग्म-आयुधौ तिग्म-हेती सु शेवौ सोमारुद्रौ इह सु मृडतम् नः ॥६॥
ava etena arātsīḥ asau svāhā .tigma-āyudhau tigma-hetī su śevau somārudrau iha su mṛḍatam naḥ ..6..

अपैतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥
अप एतेन अरात्सीः असौ स्वाहा ।तिग्म-आयुधौ तिग्म-हेती सु शेवौ सोमारुद्रौ इह सु मृडतम् नः ॥७॥
apa etena arātsīḥ asau svāhā .tigma-āyudhau tigma-hetī su śevau somārudrau iha su mṛḍatam naḥ ..7..

मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥
मुमुक्तम् अस्मान् दुरितात् अवद्यात् जुषेथाम् यज्ञम् अमृतम् अस्मासु धत्तम् ॥८॥
mumuktam asmān duritāt avadyāt juṣethām yajñam amṛtam asmāsu dhattam ..8..

चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते ।मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥
चक्षुषः हेते मनसः हेते ब्रह्मणः हेते तपसः च हेते ।मेन्याः मेनिः असि अ मेनयः ते सन्तु ये अस्माम् अभ्यघायन्ति ॥९॥
cakṣuṣaḥ hete manasaḥ hete brahmaṇaḥ hete tapasaḥ ca hete .menyāḥ meniḥ asi a menayaḥ te santu ye asmām abhyaghāyanti ..9..

योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्।त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥
यः अस्मान् चक्षुषा मनसा चित्ति-आकूत्या च यः अघायुः अभिदासात्।त्वम् तान् अग्ने मेन्या अ मेनीन् कृणु स्वाहा ॥१०॥
yaḥ asmān cakṣuṣā manasā citti-ākūtyā ca yaḥ aghāyuḥ abhidāsāt.tvam tān agne menyā a menīn kṛṇu svāhā ..10..

इन्द्रस्य गृहोऽसि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥
इन्द्रस्य गृहः असि ।तम् त्वा प्र पद्ये तम् त्वा प्र विशामि सर्वगुः सर्व-पूरुषः सर्व-आत्मा सर्व-तनूः सह यत् मे अस्ति तेन ॥११॥
indrasya gṛhaḥ asi .tam tvā pra padye tam tvā pra viśāmi sarvaguḥ sarva-pūruṣaḥ sarva-ātmā sarva-tanūḥ saha yat me asti tena ..11..

इन्द्रस्य शर्मासि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥
इन्द्रस्य शर्म असि ।तम् त्वा प्र पद्ये तम् त्वा प्र विशामि सर्वगुः सर्व-पूरुषः सर्व-आत्मा सर्व-तनूः सह यत् मे अस्ति तेन ॥१२॥
indrasya śarma asi .tam tvā pra padye tam tvā pra viśāmi sarvaguḥ sarva-pūruṣaḥ sarva-ātmā sarva-tanūḥ saha yat me asti tena ..12..

इन्द्रस्य वर्मासि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥
इन्द्रस्य वर्मा असि ।तम् त्वा प्र पद्ये तम् त्वा प्र विशामि सर्वगुः सर्व-पूरुषः सर्व-आत्मा सर्व-तनूः सह यत् मे अस्ति तेन ॥१३॥
indrasya varmā asi .tam tvā pra padye tam tvā pra viśāmi sarvaguḥ sarva-pūruṣaḥ sarva-ātmā sarva-tanūḥ saha yat me asti tena ..13..

इन्द्रस्य वरूथमसि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥
इन्द्रस्य वरूथम् असि ।तम् त्वा प्र पद्ये तम् त्वा प्र विशामि सर्वगुः सर्व-पूरुषः सर्व-आत्मा सर्व-तनूः सह यत् मे अस्ति तेन ॥१४॥
indrasya varūtham asi .tam tvā pra padye tam tvā pra viśāmi sarvaguḥ sarva-pūruṣaḥ sarva-ātmā sarva-tanūḥ saha yat me asti tena ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In