| |
|

This overlay will guide you through the buttons:

वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह ।अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥
वैकङ्कतेन इध्मेन देवेभ्यः आज्यम् वह ।अग्ने ताम् इह मादय सर्वे आ यन्तु मे हवम् ॥१॥
vaikaṅkatena idhmena devebhyaḥ ājyam vaha .agne tām iha mādaya sarve ā yantu me havam ..1..

इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु ।इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे ।तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥
इन्द्र आ याहि मे हवम् इदम् करिष्यामि तत् शृणु ।इमे ऐन्द्राः अतिसराः आकूतिम् सम् नमन्तु मे ।तेभिः शकेम वीर्यम् जातवेदः तनू-वशिन् ॥२॥
indra ā yāhi me havam idam kariṣyāmi tat śṛṇu .ime aindrāḥ atisarāḥ ākūtim sam namantu me .tebhiḥ śakema vīryam jātavedaḥ tanū-vaśin ..2..

यदसावमुतो देवा अदेवः संश्चिकीर्षति ।मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥
यत् असौ अमुतस् देवाः अदेवः सन् चिकीर्षति ।मा तस्य अग्निः हव्यम् वाक्षीत् हवम् देवाः अस्य मा उप गुः मम एव हवम् एतन ॥३॥
yat asau amutas devāḥ adevaḥ san cikīrṣati .mā tasya agniḥ havyam vākṣīt havam devāḥ asya mā upa guḥ mama eva havam etana ..3..

अति धावतातिसरा इन्द्रस्य वचसा हत ।अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥
अति धावत अतिसरौ इन्द्रस्य वचसा हत ।अविम् वृकः इव मथ्नीत स वः जीवन् मा मोचि प्राणम् अस्य अपि नह्यत ॥४॥
ati dhāvata atisarau indrasya vacasā hata .avim vṛkaḥ iva mathnīta sa vaḥ jīvan mā moci prāṇam asya api nahyata ..4..

यममी पुरोदधिरे ब्रह्माणमपभूतये ।इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥
यम् अमी पुरोदधिरे ब्रह्माणम् अपभूतये ।इन्द्र स ते अधस्पदम् तम् प्रत्यस्यामि मृत्यवे ॥५॥
yam amī purodadhire brahmāṇam apabhūtaye .indra sa te adhaspadam tam pratyasyāmi mṛtyave ..5..

यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥
यदि प्रेयुः देव-पुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानम् परिपाणम् कृण्वानाः यत् उपोचिरे सर्वम् तत् अरसम् कृधि ॥६॥
yadi preyuḥ deva-purā brahma varmāṇi cakrire .tanūpānam paripāṇam kṛṇvānāḥ yat upocire sarvam tat arasam kṛdhi ..6..

यान् असावतिसरांश्चकार कृणवच्च यान् ।त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥
यान् असौ अतिसरान् चकार कृणवत् च यान् ।त्वम् तान् इन्द्र वृत्रहन् प्रतीचः पुनर् आ कृधि यथा अमुम् तृणहाम् जनम् ॥७॥
yān asau atisarān cakāra kṛṇavat ca yān .tvam tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathā amum tṛṇahām janam ..7..

यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् ।कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥
यथा इन्द्रः उद्वाचनम् लब्ध्वा चक्रे अधस्पदम् ।कृण्वे अहम् अधरान् तथा अमून् शश्वतीभ्यः समाभ्यः ॥८॥
yathā indraḥ udvācanam labdhvā cakre adhaspadam .kṛṇve aham adharān tathā amūn śaśvatībhyaḥ samābhyaḥ ..8..

अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य ।अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव ।अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥
अत्र एनान् इन्द्र वृत्रहन् उग्रः मर्मणि विध्य ।अत्र एव एनान् अभि तिष्ठ इन्द्र मेदी अहम् तव ।अनु त्वा इन्द्र आ रभामहे स्याम सुमतौ तव ॥९॥
atra enān indra vṛtrahan ugraḥ marmaṇi vidhya .atra eva enān abhi tiṣṭha indra medī aham tava .anu tvā indra ā rabhāmahe syāma sumatau tava ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In