| |
|

This overlay will guide you through the buttons:

त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥१॥
त्वम् नः मेधे प्रथमा गोभिः अश्वेभिः आ गहि ।त्वम् सूर्यस्य रश्मिभिः त्वम् नः असि यज्ञिया ॥१॥
tvam naḥ medhe prathamā gobhiḥ aśvebhiḥ ā gahi .tvam sūryasya raśmibhiḥ tvam naḥ asi yajñiyā ..1..

मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् ।प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥२॥
मेधाम् अहम् प्रथमाम् ब्रह्मण्वतीम् ब्रह्म-जूताम् ऋषिष्टुताम् ।प्रपीताम् ब्रह्मचारिभिः देवानाम् अवसे हुवे ॥२॥
medhām aham prathamām brahmaṇvatīm brahma-jūtām ṛṣiṣṭutām .prapītām brahmacāribhiḥ devānām avase huve ..2..

यां मेधामृभवो विदुर्यां मेधामसुरा विदुः ।ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥३॥
याम् मेधाम् ऋभवः विदुः याम् मेधाम् असुराः विदुः ।ऋषयः भद्राम् मेधाम् याम् विदुः ताम् मय्या वेशयामसि ॥३॥
yām medhām ṛbhavaḥ viduḥ yām medhām asurāḥ viduḥ .ṛṣayaḥ bhadrām medhām yām viduḥ tām mayyā veśayāmasi ..3..

यामृषयो भूतकृतो मेधां मेधाविनो विदुः ।तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥४॥
याम् ऋषयः भूत-कृतः मेधाम् मेधाविनः विदुः ।तया माम् अद्य मेधया अग्ने मेधाविनम् कृणु ॥४॥
yām ṛṣayaḥ bhūta-kṛtaḥ medhām medhāvinaḥ viduḥ .tayā mām adya medhayā agne medhāvinam kṛṇu ..4..

मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥५॥
मेधाम् सायम् मेधाम् प्रातर् मेधाम् मध्यन्दिनम् परि ।मेधाम् सूर्यस्य रश्मिभिः वचसा वेशयामहे ॥५॥
medhām sāyam medhām prātar medhām madhyandinam pari .medhām sūryasya raśmibhiḥ vacasā veśayāmahe ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In