| |
|

This overlay will guide you through the buttons:

मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् ।स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥
मा ज्येष्ठम् वधीत् अयम् अग्नः एषाम् मूल-बर्हणात् परि पाहि एनम् ।स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यम् देवाः अनु जानन्तु विश्वे ॥१॥
mā jyeṣṭham vadhīt ayam agnaḥ eṣām mūla-barhaṇāt pari pāhi enam .sa grāhyāḥ pāśān vi cṛta prajānan tubhyam devāḥ anu jānantu viśve ..1..

उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् ।स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥
उद् मुञ्च पाशान् त्वम् अग्नः एषाम् त्रयः त्रिभिः उत्सिताः येभिः आसन् ।स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरम् मुञ्च सर्वान् ॥२॥
ud muñca pāśān tvam agnaḥ eṣām trayaḥ tribhiḥ utsitāḥ yebhiḥ āsan .sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaram muñca sarvān ..2..

येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च ।वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥
येभिः पाशैः परिवित्तः विबद्धः अङ्गेअङ्गे आर्पितः उत्सितः च ।वि ते मुच्यन्तम् विमुचः हि सन्ति भ्रूण-घ्नि पूषन् दुरितानि मृक्ष्व ॥३॥
yebhiḥ pāśaiḥ parivittaḥ vibaddhaḥ aṅgeaṅge ārpitaḥ utsitaḥ ca .vi te mucyantam vimucaḥ hi santi bhrūṇa-ghni pūṣan duritāni mṛkṣva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In