| |
|

This overlay will guide you through the buttons:

यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥
यत् यामम् चक्रुः निखनन्तः अग्रे कार्षीवणाः अन्न-विदः न विद्यया ।वैवस्वते राजनि तत् जुहोमि अथ यज्ञियम् मधुमत् अस्तु नः अन्नम् ॥१॥
yat yāmam cakruḥ nikhanantaḥ agre kārṣīvaṇāḥ anna-vidaḥ na vidyayā .vaivasvate rājani tat juhomi atha yajñiyam madhumat astu naḥ annam ..1..

वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति ।मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥
वैवस्वतः कृणवत् भागधेयम् मधु-भागः मधुना सम् सृजाति ।मातुः यत् एनः इषितम् नः आगन् यत् वा पिता अपराद्धः जिहीदे ॥२॥
vaivasvataḥ kṛṇavat bhāgadheyam madhu-bhāgaḥ madhunā sam sṛjāti .mātuḥ yat enaḥ iṣitam naḥ āgan yat vā pitā aparāddhaḥ jihīde ..2..

यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् ।यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥
यदि इदम् मातुः यदि पितुः नः परि भ्रातुः पुत्रात् चेतसः एनः आगन् ।यावन्तः अस्मान् पितरः सचन्ते तेषाम् सर्वेषाम् शिवः अस्तु मन्युः ॥३॥
yadi idam mātuḥ yadi pituḥ naḥ pari bhrātuḥ putrāt cetasaḥ enaḥ āgan .yāvantaḥ asmān pitaraḥ sacante teṣām sarveṣām śivaḥ astu manyuḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In