| |
|

This overlay will guide you through the buttons:

यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः ।उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥१॥
यत् हस्ताभ्याम् चकृम किल्बिषाणि अक्षाणाम् गत्नुम् उपलिप्समानाः ।उग्रंपश्ये उग्रजितौ तत् अद्य अप्सरसौ अनु दत्ताम् ऋणम् नः ॥१॥
yat hastābhyām cakṛma kilbiṣāṇi akṣāṇām gatnum upalipsamānāḥ .ugraṃpaśye ugrajitau tat adya apsarasau anu dattām ṛṇam naḥ ..1..

उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्।ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्॥२॥
उग्रंपश्ये राष्ट्रभृत्-किल्बिषाणि यत् अक्ष-वृत्तम् अनु दत्तम् नः एतत्।ऋणात् नः नः ऋणम् एर्त्समानः यमस्य लोके अधिरज्जुरायत्॥२॥
ugraṃpaśye rāṣṭrabhṛt-kilbiṣāṇi yat akṣa-vṛttam anu dattam naḥ etat.ṛṇāt naḥ naḥ ṛṇam ertsamānaḥ yamasya loke adhirajjurāyat..2..

यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः ।ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥३॥
यस्मै ऋणम् यस्य जायाम् उपैमि यम् याचमानः अभ्यैमि देवाः ।ते वाचम् वादिषुः मा उत्तराम् मत् देव-पत्नी अप्सरसौ अधीतम् ॥३॥
yasmai ṛṇam yasya jāyām upaimi yam yācamānaḥ abhyaimi devāḥ .te vācam vādiṣuḥ mā uttarām mat deva-patnī apsarasau adhītam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In