| |
|

This overlay will guide you through the buttons:

एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य ।अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥१॥
एतम् भागम् परि ददामि विद्वान् विश्वकर्मन् प्रथम-जाः ऋतस्य ।अस्माभिः दत्तम् जरसः परस्तात् अ छिन्नम् तन्तुम् अनु सम् तरेम ॥१॥
etam bhāgam pari dadāmi vidvān viśvakarman prathama-jāḥ ṛtasya .asmābhiḥ dattam jarasaḥ parastāt a chinnam tantum anu sam tarema ..1..

ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन ।अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥
ततम् तन्तुम् अनु एके तरन्ति येषाम् दत्तम् पित्र्यम् आयनेन ।अ बन्धु एके ददतः प्रयच्छन्तः दातुम् चेद् शिक्षान् स स्वर्गः एव ॥२॥
tatam tantum anu eke taranti yeṣām dattam pitryam āyanena .a bandhu eke dadataḥ prayacchantaḥ dātum ced śikṣān sa svargaḥ eva ..2..

अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते ।यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥
अन्वारभेथाम् अनुसंरभेथाम् एतम् लोकम् श्रद्दधानाः सचन्ते ।यत् वाम् पक्वम् परिविष्टम् अग्नौ तस्य गुप्तये दम्पती सम् श्रयेथाम् ॥३॥
anvārabhethām anusaṃrabhethām etam lokam śraddadhānāḥ sacante .yat vām pakvam pariviṣṭam agnau tasya guptaye dampatī sam śrayethām ..3..

यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः ।उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥४॥
यज्ञम् यन्तम् मनसा बृहन्तम् अन्वारोहामि तपसा स योनिः ।उपहूताः अग्ने जरसः परस्तात् तृतीये नाके सधमादम् मदेम ॥४॥
yajñam yantam manasā bṛhantam anvārohāmi tapasā sa yoniḥ .upahūtāḥ agne jarasaḥ parastāt tṛtīye nāke sadhamādam madema ..4..

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥५॥
शुद्धाः पूताः योषितः यज्ञियाः इमाः ब्रह्मणाम् हस्तेषु प्रपृथक् सादयामि ।यद्-कामः इदम् अभिषिञ्चामि वः अहम् इन्द्रः मरुत्वान् स ददातु तत् मे ॥५॥
śuddhāḥ pūtāḥ yoṣitaḥ yajñiyāḥ imāḥ brahmaṇām hasteṣu prapṛthak sādayāmi .yad-kāmaḥ idam abhiṣiñcāmi vaḥ aham indraḥ marutvān sa dadātu tat me ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In