| |
|

This overlay will guide you through the buttons:

विद्रधस्य बलासस्य लोहितस्य वनस्पते ।विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥
विद्रधस्य बलासस्य लोहितस्य वनस्पते ।विसल्पकस्य औषधे मा उच्छिषः पिशितम् चन ॥१॥
vidradhasya balāsasya lohitasya vanaspate .visalpakasya auṣadhe mā ucchiṣaḥ piśitam cana ..1..

यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ ।वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥
यौ ते बलास तिष्ठतः कक्षे मुष्कौ अपश्रितौ ।वेद अहम् तस्य भेषजम् चीपुद्रुः अभिचक्षणम् ॥२॥
yau te balāsa tiṣṭhataḥ kakṣe muṣkau apaśritau .veda aham tasya bheṣajam cīpudruḥ abhicakṣaṇam ..2..

यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः ।वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥
यः अङ्ग्यः यः कर्ण्यः यः अक्ष्योः विसल्पकः ।वि वृहामः विसल्पकम् विद्रधम् हृदय-आमयम् ।परा तम् अ ज्ञातम् यक्ष्मम् अधराञ्चम् सुवामसि ॥३॥
yaḥ aṅgyaḥ yaḥ karṇyaḥ yaḥ akṣyoḥ visalpakaḥ .vi vṛhāmaḥ visalpakam vidradham hṛdaya-āmayam .parā tam a jñātam yakṣmam adharāñcam suvāmasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In