| |
|

This overlay will guide you through the buttons:

इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा ।तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥
इमाः याः तिस्रः पृथिवीः तासाम् ह भूमिः उत्तमा ।तासाम् अधि त्वचः अहम् भेषजम् समु जग्रभम् ॥१॥
imāḥ yāḥ tisraḥ pṛthivīḥ tāsām ha bhūmiḥ uttamā .tāsām adhi tvacaḥ aham bheṣajam samu jagrabham ..1..

श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् ।सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥
श्रेष्ठम् असि भेषजानाम् वसिष्ठम् वीरुधानाम् ।सोमः भगः इव यामेषु देवेषु वरुणः यथा ॥२॥
śreṣṭham asi bheṣajānām vasiṣṭham vīrudhānām .somaḥ bhagaḥ iva yāmeṣu deveṣu varuṇaḥ yathā ..2..

रेवतीरनाधृषः सिषासवः सिषासथ ।उत स्थ केशदृम्हणीरथो ह केशवर्धनीः ॥३॥
रेवतीः अनाधृषः सिषासवः सिषासथ ।उत स्थ केश-दृम्हणीः अथ उ ह केश-वर्धनीः ॥३॥
revatīḥ anādhṛṣaḥ siṣāsavaḥ siṣāsatha .uta stha keśa-dṛmhaṇīḥ atha u ha keśa-vardhanīḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)