| |
|

This overlay will guide you through the buttons:

सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥१॥
सस्रुषीः तद्-अपसः दिवा नक्तम् च सस्रुषीः ।वरेण्य-क्रतुः अहम् अपः देवीः उप ह्वये ॥१॥
sasruṣīḥ tad-apasaḥ divā naktam ca sasruṣīḥ .vareṇya-kratuḥ aham apaḥ devīḥ upa hvaye ..1..

ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये ।सद्यः कृण्वन्त्वेतवे ॥२॥
ओताः आपः कर्मण्याः मुञ्चन्तु इतस् प्रणीतये ।सद्यस् कृण्वन्तु एतवे ॥२॥
otāḥ āpaḥ karmaṇyāḥ muñcantu itas praṇītaye .sadyas kṛṇvantu etave ..2..

देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः ।शं नो भवन्त्वप ओषधीः शिवाः ॥३॥
देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः ।शम् नः भवन्तु अपः ओषधीः शिवाः ॥३॥
devasya savituḥ save karma kṛṇvantu mānuṣāḥ .śam naḥ bhavantu apaḥ oṣadhīḥ śivāḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In