| |
|

This overlay will guide you through the buttons:

देवाः कपोत इषितो यदिच्छन् दूतो निर्ऋत्या इदमाजगाम ।तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥१॥
देवाः कपोतः इषितः यत् इच्छन् दूतः निरृत्याः इदम् आजगाम ।तस्मै अर्चाम कृणवाम निष्कृतिम् शम् नः अस्तु द्विपदे शम् चतुष्पदे ॥१॥
devāḥ kapotaḥ iṣitaḥ yat icchan dūtaḥ nirṛtyāḥ idam ājagāma .tasmai arcāma kṛṇavāma niṣkṛtim śam naḥ astu dvipade śam catuṣpade ..1..

शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः ।अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥२॥
शिवः कपोतः इषितः नः अस्तु अनागाः देवाः शकुनः गृहम् नः ।अग्निः हि विप्रः जुषताम् हविः नः परि हेतिः पक्षिणी नः वृणक्तु ॥२॥
śivaḥ kapotaḥ iṣitaḥ naḥ astu anāgāḥ devāḥ śakunaḥ gṛham naḥ .agniḥ hi vipraḥ juṣatām haviḥ naḥ pari hetiḥ pakṣiṇī naḥ vṛṇaktu ..2..

हेतिः पक्षिणी न दभात्यस्मान् आष्ट्री पदं कृणुते अग्निधाने ।शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोत ॥३॥
हेतिः पक्षिणी न दभाति अस्मान् आष्ट्री पदम् कृणुते अग्निधाने ।शिवः गोभ्यः उत पुरुषेभ्यः नः अस्तु मा नः देवाः इह हिंसीत् कपोत ॥३॥
hetiḥ pakṣiṇī na dabhāti asmān āṣṭrī padam kṛṇute agnidhāne .śivaḥ gobhyaḥ uta puruṣebhyaḥ naḥ astu mā naḥ devāḥ iha hiṃsīt kapota ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In