| |
|

This overlay will guide you through the buttons:

पातं न इन्द्रापूषणादितिः पान्तु मरुतः ।अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१॥
पातम् नः इन्द्रापूषणा अदितिः पान्तु मरुतः ।अपाम् नपात् सिन्धवः सप्त पातन पातु नः विष्णुः उत द्यौः ॥१॥
pātam naḥ indrāpūṣaṇā aditiḥ pāntu marutaḥ .apām napāt sindhavaḥ sapta pātana pātu naḥ viṣṇuḥ uta dyauḥ ..1..

पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥२॥
पाताम् नः द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमः नः अंहसः ।पातु नः देवी सुभगा सरस्वती पातु अग्निः शिवाः ये अस्य पायवः ॥२॥
pātām naḥ dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somaḥ naḥ aṃhasaḥ .pātu naḥ devī subhagā sarasvatī pātu agniḥ śivāḥ ye asya pāyavaḥ ..2..

पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम् ।अपां नपादभिह्रुती गयस्य चिद्देव त्वष्टर्वर्धय सर्वतातये ॥३॥
पाताम् नः देव-अश्विना शुभस्पती उषासानक्ता उत नः उरुष्यताम् ।अपाम् नपात् अभिह्रुती गयस्य चित् देव त्वष्टर् वर्धय सर्वतातये ॥३॥
pātām naḥ deva-aśvinā śubhaspatī uṣāsānaktā uta naḥ uruṣyatām .apām napāt abhihrutī gayasya cit deva tvaṣṭar vardhaya sarvatātaye ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In