| |
|

This overlay will guide you through the buttons:

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥
अस्थात् द्यौः अस्थात् पृथिवी अस्थात् विश्वम् इदम् जगत्।अस्थुः वृक्षाः ऊर्ध्व-स्वप्नाः तिष्ठात् रोगः अयम् तव ॥१॥
asthāt dyauḥ asthāt pṛthivī asthāt viśvam idam jagat.asthuḥ vṛkṣāḥ ūrdhva-svapnāḥ tiṣṭhāt rogaḥ ayam tava ..1..

शतं या भेषजानि ते सहस्रं संगतानि च ।श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥
शतम् या भेषजानि ते सहस्रम् संगतानि च ।श्रेष्ठम् आस्रावभेषजम् वसिष्ठम् रोग-नाशनम् ॥२॥
śatam yā bheṣajāni te sahasram saṃgatāni ca .śreṣṭham āsrāvabheṣajam vasiṣṭham roga-nāśanam ..2..

रुद्रस्य मूत्रमस्यमृतस्य नाभिः ।विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥
रुद्रस्य मूत्रम् असि अमृतस्य नाभिः ।विषाणका नाम वै असि पितॄणाम् मूलात् उत्थिता वातीकृत-नाशनी ॥३॥
rudrasya mūtram asi amṛtasya nābhiḥ .viṣāṇakā nāma vai asi pitṝṇām mūlāt utthitā vātīkṛta-nāśanī ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In