| |
|

This overlay will guide you through the buttons:

अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥
अग्निः प्रातःसवने पातु अस्मान् वैश्वानरः विश्व-कृत् विश्व-शंभूः ।स नः पावकः द्रविणे दधातु आयुष्मन्तः सहभक्षाः स्याम ॥१॥
agniḥ prātaḥsavane pātu asmān vaiśvānaraḥ viśva-kṛt viśva-śaṃbhūḥ .sa naḥ pāvakaḥ draviṇe dadhātu āyuṣmantaḥ sahabhakṣāḥ syāma ..1..

विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥
विश्वे देवाः मरुतः इन्द्रः अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।आयुष्मन्तः प्रियम् एषाम् वदन्तः वयम् देवानाम् सुमतौ स्याम ॥२॥
viśve devāḥ marutaḥ indraḥ asmān asmin dvitīye savane na jahyuḥ .āyuṣmantaḥ priyam eṣām vadantaḥ vayam devānām sumatau syāma ..2..

इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त ।ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥
इदम् तृतीयम् सवनम् कवीनाम् अमृतेन ये चमसम् ऐरयन्त ।ते सौधन्वनाः स्वर-अन् अशानाः सु इष्टिम् नः अभि वस्यः नयन्तु ॥३॥
idam tṛtīyam savanam kavīnām amṛtena ye camasam airayanta .te saudhanvanāḥ svara-an aśānāḥ su iṣṭim naḥ abhi vasyaḥ nayantu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In