| |
|

This overlay will guide you through the buttons:

वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः ।द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥
वैश्वानरः रश्मिभिः नः पुनातु वातः प्राणेन इषिरः नभोभिः ।द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥
vaiśvānaraḥ raśmibhiḥ naḥ punātu vātaḥ prāṇena iṣiraḥ nabhobhiḥ .dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām ..1..

वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥
वैश्वानरीम् सूनृताम् आ रभध्वम् यस्याः आशाः तन्वः वीत-पृष्ठाः ।तया गृणन्तः सधमादेषु वयम् स्याम पतयः रयीनाम् ॥२॥
vaiśvānarīm sūnṛtām ā rabhadhvam yasyāḥ āśāḥ tanvaḥ vīta-pṛṣṭhāḥ .tayā gṛṇantaḥ sadhamādeṣu vayam syāma patayaḥ rayīnām ..2..

वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥
वैश्वानरीम् वर्चसे आ रभध्वम् शुद्धाः भवन्तः शुचयः पावकाः ।इह इडया सधमादम् मदन्तः ज्योक् पश्येम सूर्यम् उच्चरन्तम् ॥३॥
vaiśvānarīm varcase ā rabhadhvam śuddhāḥ bhavantaḥ śucayaḥ pāvakāḥ .iha iḍayā sadhamādam madantaḥ jyok paśyema sūryam uccarantam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In