| |
|

This overlay will guide you through the buttons:

निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥
निर्हस्तः शत्रुः अभिदासन् अस्तु ये सेनाभिः युधम् आयन्ति अस्मान् ।समर्पय इन्द्र महता वधेन द्रात्वा एषाम् अघहारः विविद्धः ॥१॥
nirhastaḥ śatruḥ abhidāsan astu ye senābhiḥ yudham āyanti asmān .samarpaya indra mahatā vadhena drātvā eṣām aghahāraḥ vividdhaḥ ..1..

आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ ।निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥
आतन्वानाः आयच्छन्तः अस्यन्तः ये च धावथ ।निर्हस्ताः शत्रवः स्थन इन्द्रः वः अद्य पराशरीत्॥२॥
ātanvānāḥ āyacchantaḥ asyantaḥ ye ca dhāvatha .nirhastāḥ śatravaḥ sthana indraḥ vaḥ adya parāśarīt..2..

निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि ।अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥
निर्हस्ताः सन्तु शत्रवः अङ्ग एषाम् म्लापयामसि ।अथ एषाम् इन्द्र वेदांसि शतशस् वि भजामहै ॥३॥
nirhastāḥ santu śatravaḥ aṅga eṣām mlāpayāmasi .atha eṣām indra vedāṃsi śataśas vi bhajāmahai ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In