| |
|

This overlay will guide you through the buttons:

परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥
परि वर्त्मानि सर्वतस् इन्द्रः पूषा च सस्रतुः ।मुह्यन्तु अद्य अमूः सेनाः अमित्राणाम् परस्तराम् ॥१॥
pari vartmāni sarvatas indraḥ pūṣā ca sasratuḥ .muhyantu adya amūḥ senāḥ amitrāṇām parastarām ..1..

मूढा अमित्राश्चरताशीर्षाण इवाहयः ।तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥
मूढाः अमित्राः चरत अ शीर्षाणः इव अहयः ।तेषाम् वः अग्नि-मूढानाम् इन्द्रः हन्तु वरंवरम् ॥२॥
mūḍhāḥ amitrāḥ carata a śīrṣāṇaḥ iva ahayaḥ .teṣām vaḥ agni-mūḍhānām indraḥ hantu varaṃvaram ..2..

ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥
आ एषु नह्य वृषा अजिनम् हरिणस्य भियम् कृधि ।पराङ् अमित्रः एषतु अर्वाची गौः उपेषतु ॥३॥
ā eṣu nahya vṛṣā ajinam hariṇasya bhiyam kṛdhi .parāṅ amitraḥ eṣatu arvācī gauḥ upeṣatu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In