| |
|

This overlay will guide you through the buttons:

आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि ।आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥
आ अयम् अगन् सविता क्षुरेण उष्णेन वायो उदकेन इहि ।आदित्याः रुद्राः वसवः उन्दन्तु सचेतसः सोमस्य राज्ञः वपत प्रचेतसः ॥१॥
ā ayam agan savitā kṣureṇa uṣṇena vāyo udakena ihi .ādityāḥ rudrāḥ vasavaḥ undantu sacetasaḥ somasya rājñaḥ vapata pracetasaḥ ..1..

अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा ।चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥२॥
अदितिः श्मश्रु वपतु अपः उन्दन्तु वर्चसा ।चिकित्सतु प्रजापतिः दीर्घ-आयु-त्वाय चक्षसे ॥२॥
aditiḥ śmaśru vapatu apaḥ undantu varcasā .cikitsatu prajāpatiḥ dīrgha-āyu-tvāya cakṣase ..2..

येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान् ॥३॥
येन अवपत् सविता क्षुरेण सोमस्य राज्ञः वरुणस्य विद्वान् ।तेन ब्रह्माणः वपत इदम् अस्य गोमान् अश्ववान् अयम् अस्तु प्रजावान् ॥३॥
yena avapat savitā kṣureṇa somasya rājñaḥ varuṇasya vidvān .tena brahmāṇaḥ vapata idam asya gomān aśvavān ayam astu prajāvān ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In