| |
|

This overlay will guide you through the buttons:

यथा वृक्षं लिबुजा समन्तं परिषस्वजे ।एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
यथा वृक्षम् लिबुजा समन्तम् परिषस्वजे ।एव परि स्वजस्व माम् यथा माम् कामिनी असः यथा मत् न अपगा असः ॥१॥
yathā vṛkṣam libujā samantam pariṣasvaje .eva pari svajasva mām yathā mām kāminī asaḥ yathā mat na apagā asaḥ ..1..

यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥२॥
यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।एव नि हन्मि ते मनः यथा माम् कामिनी असः यथा मत् न आपगा असः ॥२॥
yathā suparṇaḥ prapatan pakṣau nihanti bhūmyām .eva ni hanmi te manaḥ yathā mām kāminī asaḥ yathā mat na āpagā asaḥ ..2..

यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥३॥
यथा इमे द्यावापृथिवी सद्यस् पर्येति सूर्यः ।एव पर्येमि ते मनः यथा माम् कामिनी असः यथा मत् न आपगा असः ॥३॥
yathā ime dyāvāpṛthivī sadyas paryeti sūryaḥ .eva paryemi te manaḥ yathā mām kāminī asaḥ yathā mat na āpagā asaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In