| |
|

This overlay will guide you through the buttons:

या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥
याः ओषधयः सोम-राज्ञीः बह्वीः शत-विचक्षणाः ।बृहस्पति-प्रसूताः ताः नः मुञ्चन्तु अंहसः ॥१॥
yāḥ oṣadhayaḥ soma-rājñīḥ bahvīḥ śata-vicakṣaṇāḥ .bṛhaspati-prasūtāḥ tāḥ naḥ muñcantu aṃhasaḥ ..1..

मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
मुञ्चन्तु मा शपथ्यात् अथ उ वरुण्यात् उत ।अथो यमस्य पड्वीशात् विश्वस्मात् देव-किल्बिषात्॥२॥
muñcantu mā śapathyāt atha u varuṇyāt uta .atho yamasya paḍvīśāt viśvasmāt deva-kilbiṣāt..2..

यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः ।सोमस्तानि स्वधया नः पुनातु ॥३॥
यत् चक्षुषा मनसा यत् च वाचा उपारिम जाग्रतः यत् स्वपन्तः ।सोमः तानि स्वधया नः पुनातु ॥३॥
yat cakṣuṣā manasā yat ca vācā upārima jāgrataḥ yat svapantaḥ .somaḥ tāni svadhayā naḥ punātu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In