| |
|

This overlay will guide you through the buttons:

इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी ।घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥१॥
इदम् उग्राय बभ्रवे नमः यः अक्षेषु तनू-वशी ।घृतेन कलिम् शिक्षामि स नः मृडाति ईदृशे ॥१॥
idam ugrāya babhrave namaḥ yaḥ akṣeṣu tanū-vaśī .ghṛtena kalim śikṣāmi sa naḥ mṛḍāti īdṛśe ..1..

घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च ।यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥२॥
घृतम् अप्सराभ्यः वह त्वम् अग्ने पांसून् अक्षेभ्यः सिकताः अपः च ।यथाभागम् हव्य-दातिम् जुषाणाः मदन्ति देवाः उभयानि हव्या ॥२॥
ghṛtam apsarābhyaḥ vaha tvam agne pāṃsūn akṣebhyaḥ sikatāḥ apaḥ ca .yathābhāgam havya-dātim juṣāṇāḥ madanti devāḥ ubhayāni havyā ..2..

अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु ॥३॥
अप्सरसः सधमादम् मदन्ति हविर्धानम् अन्तरा सूर्यम् च ।ताः मे हस्तौ सम् सृजन्तु घृतेन सपत्नम् मे कितवम् रन्धयन्तु ॥३॥
apsarasaḥ sadhamādam madanti havirdhānam antarā sūryam ca .tāḥ me hastau sam sṛjantu ghṛtena sapatnam me kitavam randhayantu ..3..

आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर ।वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥
आदिनवम् प्रतिदीव्ने घृतेन अस्माम् अभि क्षर ।वृक्षम् इव अशन्या जहि यः अस्मान् प्रतिदीव्यति ॥४॥
ādinavam pratidīvne ghṛtena asmām abhi kṣara .vṛkṣam iva aśanyā jahi yaḥ asmān pratidīvyati ..4..

यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च ।स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥५॥
यः नः धनम् इदम् चकार यः अक्षाणाम् ग्लहनम् शेषणम् च ।स नः देवः हविः इदम् जुषाणः गन्धर्वेभिः सधमादम् मदेम ॥५॥
yaḥ naḥ dhanam idam cakāra yaḥ akṣāṇām glahanam śeṣaṇam ca .sa naḥ devaḥ haviḥ idam juṣāṇaḥ gandharvebhiḥ sadhamādam madema ..5..

संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः ।तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥६॥
संवसवः इति वः नामधेयम् उग्रंपश्याः राष्ट्रभृतः हि अक्षाः ।तेभ्यः वः इन्दवः हविषा विधेम वयम् स्याम पतयः रयीणाम् ॥६॥
saṃvasavaḥ iti vaḥ nāmadheyam ugraṃpaśyāḥ rāṣṭrabhṛtaḥ hi akṣāḥ .tebhyaḥ vaḥ indavaḥ haviṣā vidhema vayam syāma patayaḥ rayīṇām ..6..

देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम ।अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे ॥७॥
देवान् यत् नाथितः हुवे ब्रह्मचर्यम् यत् ऊषिम ।अक्षान् यत् बभ्रून् आलभे ते नः मृडन्तु ईदृशे ॥७॥
devān yat nāthitaḥ huve brahmacaryam yat ūṣima .akṣān yat babhrūn ālabhe te naḥ mṛḍantu īdṛśe ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In