| |
|

This overlay will guide you through the buttons:

सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने ।येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥१॥
सभा च मा समितिः च अवताम् प्रजापतेः दुहितरौ संविदाने ।येन संगच्छाः उप मा स शिक्षात् चारु वदानि पितरः संगतेषु ॥१॥
sabhā ca mā samitiḥ ca avatām prajāpateḥ duhitarau saṃvidāne .yena saṃgacchāḥ upa mā sa śikṣāt cāru vadāni pitaraḥ saṃgateṣu ..1..

विद्म ते सभे नाम नरिष्टा नाम वा असि ।ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥२॥
विद्म ते सभे नाम नरिष्टा नाम वै असि ।ये ते के च सभासदः ते मे सन्तु सवाचसः ॥२॥
vidma te sabhe nāma nariṣṭā nāma vai asi .ye te ke ca sabhāsadaḥ te me santu savācasaḥ ..2..

एषामहं समासीनानां वर्चो विज्ञानमा ददे ।अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥३॥
एषाम् अहम् समासीनानाम् वर्चः विज्ञानम् आ ददे ।अस्याः सर्वस्याः संसदः माम् इन्द्र भगिनम् कृणु ॥३॥
eṣām aham samāsīnānām varcaḥ vijñānam ā dade .asyāḥ sarvasyāḥ saṃsadaḥ mām indra bhaginam kṛṇu ..3..

यद्वो मनः परागतं यद्बद्धमिह वेह वा ।तद्व आ वर्तयामसि मयि वो रमतां मनः ॥४॥
यत् वः मनः परागतम् यत् बद्धम् इह वा इह वा ।तत् वः आ वर्तयामसि मयि वः रमताम् मनः ॥४॥
yat vaḥ manaḥ parāgatam yat baddham iha vā iha vā .tat vaḥ ā vartayāmasi mayi vaḥ ramatām manaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In