| |
|

This overlay will guide you through the buttons:

विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
विष्णोः नु कम् प्र वोचम् वीर्याणि यः पार्थिवानि विममे रजांसि ।यः अस्कभायत् उत्तरम् सधस्थम् विचक्रमाणः त्रेधा उरु-गायः ॥१॥
viṣṇoḥ nu kam pra vocam vīryāṇi yaḥ pārthivāni vimame rajāṃsi .yaḥ askabhāyat uttaram sadhastham vicakramāṇaḥ tredhā uru-gāyaḥ ..1..

प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।परावत आ जगम्यात्परस्याः ॥२॥
प्र तत् विष्णुः स्तवते वीर्याणि मृगः न भीमः कुचरः गिरिष्ठाः ।परावतः आ जगम्यात् परस्याः ॥२॥
pra tat viṣṇuḥ stavate vīryāṇi mṛgaḥ na bhīmaḥ kucaraḥ giriṣṭhāḥ .parāvataḥ ā jagamyāt parasyāḥ ..2..

यस्योरुषु त्रिषु विक्रमनेष्वधिक्षियन्ति भुवनानि विश्वा ।उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि ।घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥
यस्य उरुषु त्रिषु विक्रमनेषु अधिक्षियन्ति भुवनानि विश्वा ।उरु विष्णो वि क्रमस्व उरु क्षयाय नस्कृधि ।घृतम् घृत-योने पिब प्र प्र यज्ञपतिम् तिर ॥३॥
yasya uruṣu triṣu vikramaneṣu adhikṣiyanti bhuvanāni viśvā .uru viṣṇo vi kramasva uru kṣayāya naskṛdhi .ghṛtam ghṛta-yone piba pra pra yajñapatim tira ..3..

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा ।समूढमस्य पंसुरे ॥४॥
इदम् विष्णुः वि चक्रमे त्रेधा नि दधे पदा ।समूढमस्य पंसुरे ॥४॥
idam viṣṇuḥ vi cakrame tredhā ni dadhe padā .samūḍhamasya paṃsure ..4..

त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।इतो धर्माणि धारयन् ॥५॥
त्रीणि पदा वि चक्रमे विष्णुः गोपाः अदाभ्यः ।इतस् धर्माणि धारयन् ॥५॥
trīṇi padā vi cakrame viṣṇuḥ gopāḥ adābhyaḥ .itas dharmāṇi dhārayan ..5..

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।इन्द्रस्य युज्यः सखा ॥६॥
विष्णोः कर्माणि पश्यत यतस् व्रतानि पस्पशे ।इन्द्रस्य युज्यः सखा ॥६॥
viṣṇoḥ karmāṇi paśyata yatas vratāni paspaśe .indrasya yujyaḥ sakhā ..6..

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।दिवीव चक्षुराततम् ॥७॥
तत् विष्णोः परमम् पदम् सदा पश्यन्ति सूरयः ।दिवि इव चक्षुः आततम् ॥७॥
tat viṣṇoḥ paramam padam sadā paśyanti sūrayaḥ .divi iva cakṣuḥ ātatam ..7..

दिवो विष्ण उत पृथिव्या महो विष्ण उरोरन्तरिक्षात्।हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात्॥८॥
दिवः विष्णो उत पृथिव्याः महः विष्णो उरोः अन्तरिक्षात्।हस्तौ पृणस्व बहुभिः वा असव्यैः आप्रयच्छ दक्षिणात् आ उत सव्यात्॥८॥
divaḥ viṣṇo uta pṛthivyāḥ mahaḥ viṣṇo uroḥ antarikṣāt.hastau pṛṇasva bahubhiḥ vā asavyaiḥ āprayaccha dakṣiṇāt ā uta savyāt..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In