| |
|

This overlay will guide you through the buttons:

यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥१॥
यथा वृक्षम् अशनिः विश्वाहा हन्ति अप्रति ।एव अहम् अद्य कितवान् अक्षैः बध्यासम् अप्रति ॥१॥
yathā vṛkṣam aśaniḥ viśvāhā hanti aprati .eva aham adya kitavān akṣaiḥ badhyāsam aprati ..1..

तुराणामतुराणां विशामवर्जुषीणाम् ।समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥
तुराणाम् अ तुराणाम् विशाम् अ वर्जुषीणाम् ।समैतु विश्वतस् भगः अन्तर् हस्तम् कृतम् मम ॥२॥
turāṇām a turāṇām viśām a varjuṣīṇām .samaitu viśvatas bhagaḥ antar hastam kṛtam mama ..2..

ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः ।रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥३॥
ईडे अग्निम् स्वावसुम् नमोभिः इह प्रसक्तः वि चयत्कृतम् नः ।रथैः इव प्र भरे वाजयद्भिः प्रदक्षिणम् मरुताम् स्तोमम् ऋध्याम् ॥३॥
īḍe agnim svāvasum namobhiḥ iha prasaktaḥ vi cayatkṛtam naḥ .rathaiḥ iva pra bhare vājayadbhiḥ pradakṣiṇam marutām stomam ṛdhyām ..3..

वयं जयेम त्वया युजा वृतमस्माकमंशमुदव भरेभरे ।अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥
वयम् जयेम त्वया युजा वृतम् अस्माकम् अंशम् उदव भरेभरे ।अस्मभ्यम् इन्द्र वरीयः सुगम् कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज ॥४॥
vayam jayema tvayā yujā vṛtam asmākam aṃśam udava bharebhare .asmabhyam indra varīyaḥ sugam kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja ..4..

अजैषं त्वा संलिखितमजैषमुत संरुधम् ।अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥५॥
अजैषम् त्वा संलिखितम् अजैषम् उत संरुधम् ।अविम् वृकः यथा मथ-देवाः मथ्नामि ते कृतम् ॥५॥
ajaiṣam tvā saṃlikhitam ajaiṣam uta saṃrudham .avim vṛkaḥ yathā matha-devāḥ mathnāmi te kṛtam ..5..

उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥६॥
उत प्रहामतिदीवा जयति कृतम् इव श्वघ्नी वि चिनोति काले ।यः देव-कामः न धनम् रुणद्धि समिध्-तम् रायः सृजति स्वधाभिः ॥६॥
uta prahāmatidīvā jayati kṛtam iva śvaghnī vi cinoti kāle .yaḥ deva-kāmaḥ na dhanam ruṇaddhi samidh-tam rāyaḥ sṛjati svadhābhiḥ ..6..

गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥७॥
गोभिः तरेम अमतिम् दुरेवाम् यवेन वा क्षुधम् पुरुहूत विश्वे ।वयम् राजसु प्रथमा धनानि अरिष्टासः वृजनीभिः जयेम ॥७॥
gobhiḥ tarema amatim durevām yavena vā kṣudham puruhūta viśve .vayam rājasu prathamā dhanāni ariṣṭāsaḥ vṛjanībhiḥ jayema ..7..

कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥८॥
कृतम् मे दक्षिणे हस्ते जयः मे सव्ये आहितः ।गोजित् भूयासम् अश्वजित् धनंजयः हिरण्यजित्॥८॥
kṛtam me dakṣiṇe haste jayaḥ me savye āhitaḥ .gojit bhūyāsam aśvajit dhanaṃjayaḥ hiraṇyajit..8..

अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव ।सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥
अक्षाः फलवतीम् द्युवम् दत्त गाम् क्षीरिणीम् इव ।सम् मा कृतस्य धारया धनुः स्नाव्ना इव नह्यत ॥९॥
akṣāḥ phalavatīm dyuvam datta gām kṣīriṇīm iva .sam mā kṛtasya dhārayā dhanuḥ snāvnā iva nahyata ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In