| |
|

This overlay will guide you through the buttons:

अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥१॥
अमुत्रभूयात् अधि यत् यमस्य बृहस्पते अभिशस्तेः अमुञ्चः ।प्रत्यौहताम् अश्विना मृत्युम् अस्मत् देवानाम् अग्ने भिषजा शचीभिः ॥१॥
amutrabhūyāt adhi yat yamasya bṛhaspate abhiśasteḥ amuñcaḥ .pratyauhatām aśvinā mṛtyum asmat devānām agne bhiṣajā śacībhiḥ ..1..

सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् ।शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥२॥
सम् क्रामतम् मा जहीतम् शरीरम् प्राण-अपानौ ते सयुजौ इह स्ताम् ।शतम् जीव शरदः वर्धमानः अग्निः ते गोपाः अधिपाः वसिष्ठः ॥२॥
sam krāmatam mā jahītam śarīram prāṇa-apānau te sayujau iha stām .śatam jīva śaradaḥ vardhamānaḥ agniḥ te gopāḥ adhipāḥ vasiṣṭhaḥ ..2..

आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् ।अग्निष्टदाहार्निर्ऋतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥३॥
आयुः यत् ते अतिहितम् पराचैस् अपानः प्राणः पुनर् आ ताविताम् ।अग्निः तद्-आहात् निरृतेः उपस्थात् तत् आत्मनि पुनर् आ वेशयामि ते ॥३॥
āyuḥ yat te atihitam parācais apānaḥ prāṇaḥ punar ā tāvitām .agniḥ tad-āhāt nirṛteḥ upasthāt tat ātmani punar ā veśayāmi te ..3..

मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्।सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥४॥
मा इमम् प्राणः हासीत् मा उ अपानः अवहाय परा गात्।सप्तर्षिभ्यः एनम् परि ददामि ते एनम् स्वस्ति जरसे वहन्तु ॥४॥
mā imam prāṇaḥ hāsīt mā u apānaḥ avahāya parā gāt.saptarṣibhyaḥ enam pari dadāmi te enam svasti jarase vahantu ..4..

प्र विषतं प्राणापानावनड्वाहाविव व्रजम् ।अयं जरिम्नः शेवधिररिष्ट इह वर्धताम् ॥५॥
प्र विषतम् प्राण-अपानौ अनड्वाहौ इव व्रजम् ।अयम् जरिम्नः शेवधिः अरिष्टः इह वर्धताम् ॥५॥
pra viṣatam prāṇa-apānau anaḍvāhau iva vrajam .ayam jarimnaḥ śevadhiḥ ariṣṭaḥ iha vardhatām ..5..

आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते ।आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥६॥
आ ते प्राणम् सुवामसि परा यक्ष्मम् सुवामि ते ।आयुः नः विश्वतस् दधत् अयम् अग्निः वरेण्यः ॥६॥
ā te prāṇam suvāmasi parā yakṣmam suvāmi te .āyuḥ naḥ viśvatas dadhat ayam agniḥ vareṇyaḥ ..6..

उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् ।देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥७॥
उद् वयम् रोहन्तः नाकम् उत्तमम् ।देवम् देवत्रा सूर्यम् अगन्म ज्योतिः उत्तमम् ॥७॥
ud vayam rohantaḥ nākam uttamam .devam devatrā sūryam aganma jyotiḥ uttamam ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In