| |
|

This overlay will guide you through the buttons:

तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥
तिरस् चिराजेः असितात् पृदाकोः परि संभृतम् ।तत् कङ्कपर्वणः विषम् इयम् वीरुध् अनीनशत्॥१॥
tiras cirājeḥ asitāt pṛdākoḥ pari saṃbhṛtam .tat kaṅkaparvaṇaḥ viṣam iyam vīrudh anīnaśat..1..

इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥
इयम् वीरुध् मधु-जाता मधुश्चुत् मधुला मधूः ।सा विह्रुतस्य भेषजी अथो मशक-जम्भनी ॥२॥
iyam vīrudh madhu-jātā madhuścut madhulā madhūḥ .sā vihrutasya bheṣajī atho maśaka-jambhanī ..2..

यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥
यतस् दष्टम् यतस् धीतम् ततस् ते निर्ह्वयामसि ।अर्भस्य तृप्र-दंशिनः मशकस्य अरसम् विषम् ॥३॥
yatas daṣṭam yatas dhītam tatas te nirhvayāmasi .arbhasya tṛpra-daṃśinaḥ maśakasya arasam viṣam ..3..

अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥
अयम् यः वक्रः विपरुः व्यङ्गः मुखानि वक्रा वृजिना कृणोषि ।तानि त्वम् ब्रह्मणस्पते इषीकाम् इव सम् नमः ॥४॥
ayam yaḥ vakraḥ viparuḥ vyaṅgaḥ mukhāni vakrā vṛjinā kṛṇoṣi .tāni tvam brahmaṇaspate iṣīkām iva sam namaḥ ..4..

अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥
अरसस्य शर्कोटस्य नीचीनस्य उपसर्पतः ।विषम् हि अस्य आदिष्यथ उ एनम् अजीजभम् ॥५॥
arasasya śarkoṭasya nīcīnasya upasarpataḥ .viṣam hi asya ādiṣyatha u enam ajījabham ..5..

न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।अथ किं पापयाऽमुया पुछे बिभर्ष्यर्भकम् ॥६॥
न ते बाह्वोः बलम् अस्ति न शीर्षे न उत मध्यतः ।अथ किम् पापया अमुया पुछे बिभर्षि अर्भकम् ॥६॥
na te bāhvoḥ balam asti na śīrṣe na uta madhyataḥ .atha kim pāpayā amuyā puche bibharṣi arbhakam ..6..

अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥
अदन्ति त्वा पिपीलिकाः वि वृश्चन्ति मयूर्यः ।सर्वे भल ब्रवाथ शार्कोटम-रसम् विषम् ॥७॥
adanti tvā pipīlikāḥ vi vṛścanti mayūryaḥ .sarve bhala bravātha śārkoṭama-rasam viṣam ..7..

य उभाभ्यां प्रहरसि पुछेन चास्येन च ।आस्ये न ते विषं किमु ते पुच्छधावसत्॥८॥
यः उभाभ्याम् प्रहरसि पुछेन च आस्येन च ।आस्ये न ते विषम् किमु ते पुच्छधा असत्॥८॥
yaḥ ubhābhyām praharasi puchena ca āsyena ca .āsye na te viṣam kimu te pucchadhā asat..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In