| |
|

This overlay will guide you through the buttons:

ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण ।गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्॥१॥
ऊर्जम् बिभ्रत्-वसु-वनिः सुमेधाः अघोरेण चक्षुषा मित्रियेण ।गृहान् ऐमि सुमनाः वन्दमानः रमध्वम् मा बिभीत मत्॥१॥
ūrjam bibhrat-vasu-vaniḥ sumedhāḥ aghoreṇa cakṣuṣā mitriyeṇa .gṛhān aimi sumanāḥ vandamānaḥ ramadhvam mā bibhīta mat..1..

इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः ।पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥२॥
इमे गृहाः मयोभुवः ऊर्जस्वन्तः पयस्वन्तः ।पूर्णाः वामेन तिष्ठन्तः ते नः जानन्तु एयतः ॥२॥
ime gṛhāḥ mayobhuvaḥ ūrjasvantaḥ payasvantaḥ .pūrṇāḥ vāmena tiṣṭhantaḥ te naḥ jānantu eyataḥ ..2..

येषामध्येति प्रवसन् येषु सौमनसो बहुः ।गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥३॥
येषाम् अध्येति प्रवसन् येषु सौमनसः बहुः ।गृहान् उप ह्वयामहे ते नः जानन्तु एयतः ॥३॥
yeṣām adhyeti pravasan yeṣu saumanasaḥ bahuḥ .gṛhān upa hvayāmahe te naḥ jānantu eyataḥ ..3..

उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥४॥
उपहूताः भूरि-धनाः सखायः स्वादु-संमुदः ।अक्षुध्याः अतृष्याः स्त गृहाः मा अस्मत् बिभीतन ॥४॥
upahūtāḥ bhūri-dhanāḥ sakhāyaḥ svādu-saṃmudaḥ .akṣudhyāḥ atṛṣyāḥ sta gṛhāḥ mā asmat bibhītana ..4..

उपहूता इह गाव उपहूता अजावयः ।अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥
उपहूताः इह गावः उपहूताः अज-अवयः ।अथ उ अन्नस्य कीलालः उपहूतः गृहेषु ॥५॥
upahūtāḥ iha gāvaḥ upahūtāḥ aja-avayaḥ .atha u annasya kīlālaḥ upahūtaḥ gṛheṣu ..5..

सूनृतावन्तः सुभगा इरावन्तो हसामुदाः ।अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥६॥
सूनृतावन्तः सुभगाः इरावन्तः हसामुदाः ।अतृष्याः अक्षुध्याः स्त गृहाः मा अस्मत् बिभीतन ॥६॥
sūnṛtāvantaḥ subhagāḥ irāvantaḥ hasāmudāḥ .atṛṣyāḥ akṣudhyāḥ sta gṛhāḥ mā asmat bibhītana ..6..

इहैव स्त मानु गात विश्वा रूपाणि पुष्यत ।ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥
इह एव स्त मा अनु गात विश्वा रूपाणि पुष्यत ।ऐष्यामि भद्रेण सह भूयांसः भवत मया ॥७॥
iha eva sta mā anu gāta viśvā rūpāṇi puṣyata .aiṣyāmi bhadreṇa saha bhūyāṃsaḥ bhavata mayā ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In