| |
|

This overlay will guide you through the buttons:

यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।तन् मृत्युना निर्ऋतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥
यत् किम् च असौ मनसा यत् च वाचा यज्ञैः जुहोति हविषा यजुषा ।तत् मृत्युना निरृतिः संविदाना पुरा सत्यात् आहुतिम् हन्तु अस्य ॥१॥
yat kim ca asau manasā yat ca vācā yajñaiḥ juhoti haviṣā yajuṣā .tat mṛtyunā nirṛtiḥ saṃvidānā purā satyāt āhutim hantu asya ..1..

यातुधाना निर्ऋतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥
यातुधानाः निरृतिः आदु रक्षः ते अस्य घ्नन्तु अनृतेन सत्यम् ।इन्द्र-इषिताः देवाः आजमस्य मथ्नन्तु मा तत् सम् पादि यत् असौ जुहोति ॥२॥
yātudhānāḥ nirṛtiḥ ādu rakṣaḥ te asya ghnantu anṛtena satyam .indra-iṣitāḥ devāḥ ājamasya mathnantu mā tat sam pādi yat asau juhoti ..2..

अजिराधिराजौ श्येनौ संपातिनाविव ।आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥
अजिर-अधिराजौ श्येनौ संपातिनौ इव ।आज्यम् पृतन्यतः हताम् यः नः कः च अभ्यघायति ॥३॥
ajira-adhirājau śyenau saṃpātinau iva .ājyam pṛtanyataḥ hatām yaḥ naḥ kaḥ ca abhyaghāyati ..3..

अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥
अपाञ्चौ ते उभौ बाहू अपि नह्यामि आस्यम् ।अग्नेः देवस्य मन्युना तेन ते अवधिषम् हविः ॥४॥
apāñcau te ubhau bāhū api nahyāmi āsyam .agneḥ devasya manyunā tena te avadhiṣam haviḥ ..4..

अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥
अपि नह्यामि ते बाहू अपि नह्यामि आस्यम् ।अग्नेः घोरस्य मन्युना तेन अवधिषम् हविः ॥५॥
api nahyāmi te bāhū api nahyāmi āsyam .agneḥ ghorasya manyunā tena avadhiṣam haviḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In