| |
|

This overlay will guide you through the buttons:

समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु ।वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥१॥
समिद्धः अग्निः वृषणा रथी दिवः तप्तः घर्मः दुह्यते वा आमिषे मधु ।वयम् हि वाम् पुरु-दमासः अश्विना हवामहे सधमादेषु कारवः ॥१॥
samiddhaḥ agniḥ vṛṣaṇā rathī divaḥ taptaḥ gharmaḥ duhyate vā āmiṣe madhu .vayam hi vām puru-damāsaḥ aśvinā havāmahe sadhamādeṣu kāravaḥ ..1..

समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् ।दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥२॥
समिद्धः अग्निः अश्विना तप्तः वाम् घर्मः आ गतम् ।दुह्यन्ते नूनम् वृषणा इह धेनवः दस्रा मदन्ति वेधसः ॥२॥
samiddhaḥ agniḥ aśvinā taptaḥ vām gharmaḥ ā gatam .duhyante nūnam vṛṣaṇā iha dhenavaḥ dasrā madanti vedhasaḥ ..2..

इवाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः ।तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥३॥
इव अह कृतः शुचिः देवेषु यज्ञः यः अश्विनोः चमसः देव-पानः ।तम् उ विश्वे अमृतासः जुषाणाः गन्धर्वस्य प्रति आस्ना रिहन्ति ॥३॥
iva aha kṛtaḥ śuciḥ deveṣu yajñaḥ yaḥ aśvinoḥ camasaḥ deva-pānaḥ .tam u viśve amṛtāsaḥ juṣāṇāḥ gandharvasya prati āsnā rihanti ..3..

यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम् ।माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः ॥४॥
यत् उस्रियासु आहुतम् घृतम् पयः अयम् स वाम् अश्विना भागः आ गतम् ।माध्वी धर्तारा विदथस्य सत्-पती तप्तम् घर्मम् पिबतम् दिवः ॥४॥
yat usriyāsu āhutam ghṛtam payaḥ ayam sa vām aśvinā bhāgaḥ ā gatam .mādhvī dhartārā vidathasya sat-patī taptam gharmam pibatam divaḥ ..4..

तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान् ।मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥५॥
तप्तः वाम् घर्मः नक्षतु स्व-होता प्र वाम् अध्वर्युः चरतु पयस्वान् ।मधोः दुग्धस्य अश्विना तनायाः वीतम् पातम् पयसः उस्रियायाः ॥५॥
taptaḥ vām gharmaḥ nakṣatu sva-hotā pra vām adhvaryuḥ caratu payasvān .madhoḥ dugdhasya aśvinā tanāyāḥ vītam pātam payasaḥ usriyāyāḥ ..5..

उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः ।वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति ॥६॥
उप द्रव पयसा गो-दुह् गोषमा घर्मे सिञ्च पयः उस्रियायाः ।वि नाकम् अख्यत् सविता वरेण्यः अनु प्रयाणम् उषसः वि राजति ॥६॥
upa drava payasā go-duh goṣamā gharme siñca payaḥ usriyāyāḥ .vi nākam akhyat savitā vareṇyaḥ anu prayāṇam uṣasaḥ vi rājati ..6..

उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥७॥
उप ह्वये सु दुघाम् धेनुम् एताम् सु हस्तः गो-दुह् उत दोहत् एनाम् ।श्रेष्ठम् सवम् सविता साविषत् नः अभीद्धः घर्मः तत् उ सु प्र वोचत्॥७॥
upa hvaye su dughām dhenum etām su hastaḥ go-duh uta dohat enām .śreṣṭham savam savitā sāviṣat naḥ abhīddhaḥ gharmaḥ tat u su pra vocat..7..

हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसा न्यागन् ।दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥८॥
हिङ्कृण्वती वसु-पत्नी वसूनाम् वत्सम् इच्छन्ती मनसा न्यागन् ।दुहाम् अश्विभ्याम् पयः अघ्न्या इयम् सा वर्धताम् महते सौभगाय ॥८॥
hiṅkṛṇvatī vasu-patnī vasūnām vatsam icchantī manasā nyāgan .duhām aśvibhyām payaḥ aghnyā iyam sā vardhatām mahate saubhagāya ..8..

जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।विश्वा अग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥९॥
जुष्टः दमूनाः अतिथिः दुरोणे इमम् नः यज्ञम् उप याहि विद्वान् ।विश्वाः अग्ने अभियुजः विहत्य शत्रूयताम् आ भर भोजनानि ॥९॥
juṣṭaḥ damūnāḥ atithiḥ duroṇe imam naḥ yajñam upa yāhi vidvān .viśvāḥ agne abhiyujaḥ vihatya śatrūyatām ā bhara bhojanāni ..9..

अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥१०॥
अग्ने शर्ध महते सौभगाय तव द्युम्नानि उत्तमानि सन्तु ।सम् जास्पत्यम् सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठ महांसि ॥१०॥
agne śardha mahate saubhagāya tava dyumnāni uttamāni santu .sam jāspatyam suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭha mahāṃsi ..10..

सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥११॥
सूयवसात् भगवती हि भूयाः अध वयम् भगवन्तः स्याम ।अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥११॥
sūyavasāt bhagavatī hi bhūyāḥ adha vayam bhagavantaḥ syāma .addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In