| |
|

This overlay will guide you through the buttons:

आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः ।सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥
आ सुस्रसः सुस्रसः असतीभ्यः असत्तराः ।सेह-उर-रसतराः हवणात् विक्लेदीयसीः ॥१॥
ā susrasaḥ susrasaḥ asatībhyaḥ asattarāḥ .seha-ura-rasatarāḥ havaṇāt vikledīyasīḥ ..1..

या ग्रैव्या अपचितोऽथो या उपपक्ष्याः ।विजाम्नि या अपचितः स्वयंस्रसः ॥२॥
याः ग्रैव्याः अपचितः अथ उ याः उपपक्ष्याः ।विजाम्नि याः अपचितः स्वयंस्रसः ॥२॥
yāḥ graivyāḥ apacitaḥ atha u yāḥ upapakṣyāḥ .vijāmni yāḥ apacitaḥ svayaṃsrasaḥ ..2..

यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति ।निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥
यः कीकसाः प्रशृणाति तलीद्यम् अवतिष्ठति ।निः ह अस्तम् सर्वम् जायान्यम् यः कः च ककुदि श्रितः ॥३॥
yaḥ kīkasāḥ praśṛṇāti talīdyam avatiṣṭhati .niḥ ha astam sarvam jāyānyam yaḥ kaḥ ca kakudi śritaḥ ..3..

पक्षी जायान्यः पतति स आ विशति पूरुषम् ।तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥
पक्षी जायान्यः पतति सः आ विशति पूरुषम् ।तत् अक्षितस्य भेषजम् उभयोः सु क्षतस्य च ॥४॥
pakṣī jāyānyaḥ patati saḥ ā viśati pūruṣam .tat akṣitasya bheṣajam ubhayoḥ su kṣatasya ca ..4..

विद्म वै ते जायान्य जानं यतो जायान्य जायसे ।कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥५॥
विद्म वै ते जायान्य जानम् यतस् जायान्य जायसे ।कथम् ह तत्र त्वम् हनः यस्य कृण्मः हविः-गृहे ॥५॥
vidma vai te jāyānya jānam yatas jāyānya jāyase .katham ha tatra tvam hanaḥ yasya kṛṇmaḥ haviḥ-gṛhe ..5..

धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥६॥
धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् ।माध्यन्दिने सवने आ वृषस्व रयिष्ठानः रयिम् अस्मासु धेहि ॥६॥
dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām .mādhyandine savane ā vṛṣasva rayiṣṭhānaḥ rayim asmāsu dhehi ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In