| |
|

This overlay will guide you through the buttons:

पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय ।तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥
पूर्णा पश्चात् उत पूर्णा पुरस्तात् उद् मध्यतः पौर्णमासी जिगाय ।तस्याम् देवैः संवसन्तः महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥
pūrṇā paścāt uta pūrṇā purastāt ud madhyataḥ paurṇamāsī jigāya .tasyām devaiḥ saṃvasantaḥ mahitvā nākasya pṛṣṭhe samiṣā madema ..1..

वृषभं वाजिनं वयं पौर्णमासं यजामहे ।स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥२॥
वृषभम् वाजिनम् वयम् पौर्णमासम् यजामहे ।स नः ददातु अक्षिताम् रयिम् अनुपदस्वतीम् ॥२॥
vṛṣabham vājinam vayam paurṇamāsam yajāmahe .sa naḥ dadātu akṣitām rayim anupadasvatīm ..2..

प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥
प्रजापते न त्वत् एतानि अन्यः विश्वा रूपाणि परिभूः जजान ।यद्-कामाः ते जुहुमः तत् नः अस्तु वयम् स्याम पतयः रयीणाम् ॥३॥
prajāpate na tvat etāni anyaḥ viśvā rūpāṇi paribhūḥ jajāna .yad-kāmāḥ te juhumaḥ tat naḥ astu vayam syāma patayaḥ rayīṇām ..3..

पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु ।ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः ॥४॥
पौर्णमासी प्रथमा यज्ञिया आसीत् अह्नाम् रात्रीणाम् अतिशर्वरेषु ।ये त्वाम् यज्ञैः यज्ञिये अर्धयन्ति अमी ते नाके सु कृतः प्रविष्टाः ॥४॥
paurṇamāsī prathamā yajñiyā āsīt ahnām rātrīṇām atiśarvareṣu .ye tvām yajñaiḥ yajñiye ardhayanti amī te nāke su kṛtaḥ praviṣṭāḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In