| |
|

This overlay will guide you through the buttons:

अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् ।इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥
अन्तकाय मृत्यवे नमः प्रानाः अपानाः इह ते रमन्ताम् ।इह अयम् अस्तु पुरुषः सह असुना सूर्यस्य भागे अमृतस्य लोके ॥१॥
antakāya mṛtyave namaḥ prānāḥ apānāḥ iha te ramantām .iha ayam astu puruṣaḥ saha asunā sūryasya bhāge amṛtasya loke ..1..

उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥
उद् एनम् भगः अग्रभीत् उद् एनम् सोमः अंशुमान् ।उद् एनम् मरुतः देवाः उद् इन्द्र-अग्नी स्वस्तये ॥२॥
ud enam bhagaḥ agrabhīt ud enam somaḥ aṃśumān .ud enam marutaḥ devāḥ ud indra-agnī svastaye ..2..

इह तेऽसुरिह प्राण इहायुरिह ते मनः ।उत्त्वा निर्ऋत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥
इह ते असुः इह प्राणः इह आयुः इह ते मनः ।उत्त्वा निरृत्याः पाशेभ्यः दैव्याः वचाः भरामसि ॥३॥
iha te asuḥ iha prāṇaḥ iha āyuḥ iha te manaḥ .uttvā nirṛtyāḥ pāśebhyaḥ daivyāḥ vacāḥ bharāmasi ..3..

उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः ।मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥४॥
उत्क्राम अतस् पुरुष मा अव पत्थाः मृत्योः पड्वीषम् अवमुञ्चमानः ।मा छित्थाः अस्मात् लोकात् अग्नेः सूर्यस्य संदृशः ॥४॥
utkrāma atas puruṣa mā ava patthāḥ mṛtyoḥ paḍvīṣam avamuñcamānaḥ .mā chitthāḥ asmāt lokāt agneḥ sūryasya saṃdṛśaḥ ..4..

तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः ।सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥
तुभ्यम् वातः पवताम् मातरिश्वा तुभ्यम् वर्षन्तु अमृतानि आपः ।सूर्यः ते तन्वे शम् तपाति त्वाम् मृत्युः दयताम् मा प्र मेष्ठाः ॥५॥
tubhyam vātaḥ pavatām mātariśvā tubhyam varṣantu amṛtāni āpaḥ .sūryaḥ te tanve śam tapāti tvām mṛtyuḥ dayatām mā pra meṣṭhāḥ ..5..

उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि ।आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥६॥
उद्यानम् ते पुरुष न अवयानम् जीवातुम् ते दक्षतातिम् कृनोमि ।आ हि रोह इमम् अमृतम् सुखम् रथम् अथ जिर्विर्विदथम् आ वदासि ॥६॥
udyānam te puruṣa na avayānam jīvātum te dakṣatātim kṛnomi .ā hi roha imam amṛtam sukham ratham atha jirvirvidatham ā vadāsi ..6..

मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥
मा ते मनः तत्र गात् मा तिरस् भूत् मा जीवेभ्यः प्र मदः मा अनु गाः पितॄन् ।विश्वे देवाः अभि रक्षन्तु त्वा इह ॥७॥
mā te manaḥ tatra gāt mā tiras bhūt mā jīvebhyaḥ pra madaḥ mā anu gāḥ pitṝn .viśve devāḥ abhi rakṣantu tvā iha ..7..

मा गतानामा दीधीथा ये नयन्ति परावतम् ।आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥८॥
मा गत-अनामा दीधीथाः ये नयन्ति परावतम् ।आ रोह तमसः ज्योतिः एहि आ ते हस्तौ रभामहे ॥८॥
mā gata-anāmā dīdhīthāḥ ye nayanti parāvatam .ā roha tamasaḥ jyotiḥ ehi ā te hastau rabhāmahe ..8..

श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥
श्यामः च त्वा मा शबलः च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।अर्वाङ् एहि मा वि दीध्यः मा अत्र तिष्ठः पराच्-मनाः ॥९॥
śyāmaḥ ca tvā mā śabalaḥ ca preṣitau yamasya yau pathirakṣī śvānau .arvāṅ ehi mā vi dīdhyaḥ mā atra tiṣṭhaḥ parāc-manāḥ ..9..

मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्॥१०॥ {१}
मा एतम् पन्थाम् अनु गाः भीमः एष येन पूर्वम् न इयथ तम् ब्रवीमि ।तमः एतत् पुरुष मा प्र पत्थाः भयम् परस्तात् अभयम् ते अर्वाक्॥१०॥
mā etam panthām anu gāḥ bhīmaḥ eṣa yena pūrvam na iyatha tam bravīmi .tamaḥ etat puruṣa mā pra patthāḥ bhayam parastāt abhayam te arvāk..10..

रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥११॥
रक्षन्तु त्वा अग्नयः ये अप्सु अन्तर् रक्षतु त्वा मनुष्याः यम् इन्धते ।वैश्वानरः रक्षतु जातवेदाः दिव्यः त्वा मा प्र धाक् विद्युता सह ॥११॥
rakṣantu tvā agnayaḥ ye apsu antar rakṣatu tvā manuṣyāḥ yam indhate .vaiśvānaraḥ rakṣatu jātavedāḥ divyaḥ tvā mā pra dhāk vidyutā saha ..11..

मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु ।पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥
मा त्वा क्रव्याद् अभि मंस्त आरात् संकसुकात् चर रक्षतु त्वा द्यौः रक्षतु ।पृथिवी सूर्यः च त्वा रक्षताम् चन्द्रमाः च ।अन्तरिक्षम् रक्षतु देव-हेत्याः ॥१२॥
mā tvā kravyād abhi maṃsta ārāt saṃkasukāt cara rakṣatu tvā dyauḥ rakṣatu .pṛthivī sūryaḥ ca tvā rakṣatām candramāḥ ca .antarikṣam rakṣatu deva-hetyāḥ ..12..

बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् ।गोपायंश्च त्वा जागृविश्च रक्षताम् ॥१३॥
बोधः च त्वा प्रतिबोधः च रक्षताम् अस्वप्नः च त्वा अनवद्राणः च रक्षताम् ।गोपायन् च त्वा जागृविः च रक्षताम् ॥१३॥
bodhaḥ ca tvā pratibodhaḥ ca rakṣatām asvapnaḥ ca tvā anavadrāṇaḥ ca rakṣatām .gopāyan ca tvā jāgṛviḥ ca rakṣatām ..13..

ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥१४॥
ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यः नमः तेभ्यः स्वाहा ॥१४॥
te tvā rakṣantu te tvā gopāyantu tebhyaḥ namaḥ tebhyaḥ svāhā ..14..

जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः ।मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥१५॥
जीवेभ्यः त्वा स मुदे वायुः इन्द्रः धाता दधातु सविता त्रायमाणः ।मा त्वा प्राणः बलम् हासीत् असुम् ते अनु ह्वयामसि ॥१५॥
jīvebhyaḥ tvā sa mude vāyuḥ indraḥ dhātā dadhātu savitā trāyamāṇaḥ .mā tvā prāṇaḥ balam hāsīt asum te anu hvayāmasi ..15..

मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः ।उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥१६॥
मा त्वा जम्भः संहनुः मा तमः विदत् मा जिह्वा बर्हिः-प्रमयुः कथा स्याः ।उत्त्वा आदित्याः वसवः भरन्तु उद् इन्द्र-अग्नी स्वस्तये ॥१६॥
mā tvā jambhaḥ saṃhanuḥ mā tamaḥ vidat mā jihvā barhiḥ-pramayuḥ kathā syāḥ .uttvā ādityāḥ vasavaḥ bharantu ud indra-agnī svastaye ..16..

उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्।उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥१७॥
उत्त्वा द्यौः उद् पृथिवी उद् प्रजापतिः अग्रभीत्।उत्त्वा मृत्योः ओषधयः सोम-राज्ञीः अपीपरन् ॥१७॥
uttvā dyauḥ ud pṛthivī ud prajāpatiḥ agrabhīt.uttvā mṛtyoḥ oṣadhayaḥ soma-rājñīḥ apīparan ..17..

अयं देवा इहैवास्त्वयं मामुत्र गादितः ।इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥१८॥
अयम् देवाः इह एव अस्तु अयम् मा अमुत्र गादितः ।इमम् सहस्र-वीर्येण मृत्योः उत्पारयामसि ॥१८॥
ayam devāḥ iha eva astu ayam mā amutra gāditaḥ .imam sahasra-vīryeṇa mṛtyoḥ utpārayāmasi ..18..

उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः ।मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥
उत्त्वा मृत्योः अपीपरम् सम् धमन्तु वयोधसः ।मा त्वा व्यस्त-केश्यः मा त्वा अघरुदः रुदन् ॥१९॥
uttvā mṛtyoḥ apīparam sam dhamantu vayodhasaḥ .mā tvā vyasta-keśyaḥ mā tvā agharudaḥ rudan ..19..

आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥२०॥
आहार्षम् अविदम् त्वा पुनर् आगाः पुनर्णवः ।सर्व-अङ्ग सर्वम् ते चक्षुः सर्वम् आयुः च ते अविदम् ॥२०॥
āhārṣam avidam tvā punar āgāḥ punarṇavaḥ .sarva-aṅga sarvam te cakṣuḥ sarvam āyuḥ ca te avidam ..20..

व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्।अप त्वन् मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि ॥२१॥ {२}
व्यवात्ते ज्योतिः अभूत् अप त्वत्तमः अक्रमीत्।अप त्वत् मृत्युम् निरृतिम् अप यक्ष्मम् नि दध्मसि ॥२१॥
vyavātte jyotiḥ abhūt apa tvattamaḥ akramīt.apa tvat mṛtyum nirṛtim apa yakṣmam ni dadhmasi ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In