| |
|

This overlay will guide you through the buttons:

विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥
विराज् वै इदम् अग्रे आसीत् तस्याः जातायाः सर्वम् अबिभेत् इयम् एव इदम् भविष्यति इति ॥१॥
virāj vai idam agre āsīt tasyāḥ jātāyāḥ sarvam abibhet iyam eva idam bhaviṣyati iti ..1..

सोदक्रामत्सा गार्हपत्ये न्यक्रामत् ॥२॥
सा उदक्रामत् सा गार्हपत्ये न्यक्रामत् ॥२॥
sā udakrāmat sā gārhapatye nyakrāmat ..2..

गृहमेधी गृहपतिर्भवति य एवं वेद ॥३॥
गृहमेधी गृहपतिः भवति यः एवम् वेद ॥३॥
gṛhamedhī gṛhapatiḥ bhavati yaḥ evam veda ..3..

सोदक्रामत्साहवनीये न्यक्रामत् ॥४॥
सा उदक्रामत् सा आहवनीये न्यक्रामत् ॥४॥
sā udakrāmat sā āhavanīye nyakrāmat ..4..

यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥५॥
यन्ति अस्य देवाः देव-हूतिम् प्रियः देवानाम् भवति यः एवम् वेद ॥५॥
yanti asya devāḥ deva-hūtim priyaḥ devānām bhavati yaḥ evam veda ..5..

सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत् ॥६॥
सा उदक्रामत् सा दक्षिणाग्नौ न्यक्रामत् ॥६॥
sā udakrāmat sā dakṣiṇāgnau nyakrāmat ..6..

यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥७॥
यज्ञ-ऋतः दक्षिणीयः वासतेयः भवति यः एवम् वेद ॥७॥
yajña-ṛtaḥ dakṣiṇīyaḥ vāsateyaḥ bhavati yaḥ evam veda ..7..

सोदक्रामत्सा सभायां न्यक्रामत् ॥८॥
सा उदक्रामत् सा सभायाम् न्यक्रामत् ॥८॥
sā udakrāmat sā sabhāyām nyakrāmat ..8..

यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥९॥
यन्ति अस्य सभाम् सभ्यः भवति यः एवम् वेद ॥९॥
yanti asya sabhām sabhyaḥ bhavati yaḥ evam veda ..9..

सोदक्रामत्सा समितौ न्यक्रामत् ॥१०॥
सा उदक्रामत् सा समितौ न्यक्रामत् ॥१०॥
sā udakrāmat sā samitau nyakrāmat ..10..

यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥११॥
यन्ति अस्य समितिम् सामित्यः भवति यः एवम् वेद ॥११॥
yanti asya samitim sāmityaḥ bhavati yaḥ evam veda ..11..

सोदक्रामत्सामन्त्रणे न्यक्रामत् ॥१२॥
सा उदक्रामत् सा आमन्त्रणे न्यक्रामत् ॥१२॥
sā udakrāmat sā āmantraṇe nyakrāmat ..12..

यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥१३॥
यन्ति अस्य आमन्त्रणम् आमन्त्रणीयः भवति यः एवम् वेद ॥१३॥
yanti asya āmantraṇam āmantraṇīyaḥ bhavati yaḥ evam veda ..13..

सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥१॥
सा उदक्रामत् सा अन्तरिक्षे चतुर्धा विक्रान्ता अतिष्ठत्॥१॥
sā udakrāmat sā antarikṣe caturdhā vikrāntā atiṣṭhat..1..

तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥२॥
ताम् देव-मनुष्याः अब्रुवन् इयम् एव तत् वेद यत् उभये उपजीवेम इमाम् उप ह्वयामहै इति ॥२॥
tām deva-manuṣyāḥ abruvan iyam eva tat veda yat ubhaye upajīvema imām upa hvayāmahai iti ..2..

तामुपाह्वयन्त ॥३॥
ताम् उपाह्वयन्त ॥३॥
tām upāhvayanta ..3..

ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥४॥
ऊर्जे एहि स्वधे एहि सूनृते एहि इरावति एहि इति ॥४॥
ūrje ehi svadhe ehi sūnṛte ehi irāvati ehi iti ..4..

तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥५॥
तस्याः इन्द्रः वत्सः आसीत् गायत्री-अभिधानी-अभ्रम् ऊधः ॥५॥
tasyāḥ indraḥ vatsaḥ āsīt gāyatrī-abhidhānī-abhram ūdhaḥ ..5..

बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥६॥
बृहत् च रथंतरम् च द्वौ स्तनौ आस्ताम् यज्ञायज्ञियम् च वामदेव्यम् च द्वौ ॥६॥
bṛhat ca rathaṃtaram ca dvau stanau āstām yajñāyajñiyam ca vāmadevyam ca dvau ..6..

ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥७॥
ओषधीः एव रथंतरेण देवाः अदुह्रन् व्यचः बृहता ॥७॥
oṣadhīḥ eva rathaṃtareṇa devāḥ aduhran vyacaḥ bṛhatā ..7..

अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥८॥
अपः वामदेव्येन यज्ञम् यज्ञायज्ञियेन ॥८॥
apaḥ vāmadevyena yajñam yajñāyajñiyena ..8..

ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥९॥
ओषधीः एव अस्मै रथंतरम् दुहे व्यचः बृहत्॥९॥
oṣadhīḥ eva asmai rathaṃtaram duhe vyacaḥ bṛhat..9..

अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१०॥
अपः वामदेव्यम् यज्ञम् यज्ञायज्ञियम् य वेद ॥१०॥
apaḥ vāmadevyam yajñam yajñāyajñiyam ya veda ..10..

सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्॥१ ॥
सा उदक्रामत् सा वनस्पतीन् आगच्छत् ताम् वनस्पतयः अघ्नत सा संवत्सरे समभवत्॥१ ॥
sā udakrāmat sā vanaspatīn āgacchat tām vanaspatayaḥ aghnata sā saṃvatsare samabhavat..1 ..

तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥२ ॥
तस्मात् वनस्पतीनाम् संवत्सरे वृक्णम् अपि रोहति वृश्चते अस्य अप्रियः भ्रातृव्यः यः एवम् वेद ॥२ ॥
tasmāt vanaspatīnām saṃvatsare vṛkṇam api rohati vṛścate asya apriyaḥ bhrātṛvyaḥ yaḥ evam veda ..2 ..

सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्॥३ ॥
सा उदक्रामत् सा पितॄन् आगच्छत् ताम् पितरः अघ्नत सा मासि समभवत्॥३ ॥
sā udakrāmat sā pitṝn āgacchat tām pitaraḥ aghnata sā māsi samabhavat..3 ..

तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥४ ॥
तस्मात् पितृभ्यः मासि उपमास्यम् ददति प्र पितृयाणम् पन्थाम् जानाति यः एवम् वेद ॥४ ॥
tasmāt pitṛbhyaḥ māsi upamāsyam dadati pra pitṛyāṇam panthām jānāti yaḥ evam veda ..4 ..

सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्॥५ ॥
सा उदक्रामत् सा देवान् आगच्छत् ताम् देवाः अघ्नत सा अर्ध-मासे समभवत्॥५ ॥
sā udakrāmat sā devān āgacchat tām devāḥ aghnata sā ardha-māse samabhavat..5 ..

तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥६ ॥
तस्मात् देवेभ्यः अर्ध-मासे वषट्कुर्वन्ति प्र देव-यानम् पन्थाम् जानाति यः एवम् वेद ॥६ ॥
tasmāt devebhyaḥ ardha-māse vaṣaṭkurvanti pra deva-yānam panthām jānāti yaḥ evam veda ..6 ..

सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्॥७ ॥
सा उदक्रामत् सा मनुष्यान् आगच्छत् ताम् मनुष्याः अघ्नत सा सद्यस् समभवत्॥७ ॥
sā udakrāmat sā manuṣyān āgacchat tām manuṣyāḥ aghnata sā sadyas samabhavat..7 ..

तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥८ ॥
तस्मात् मनुष्येभ्यः उभयद्युस् उप हरन्ति उप अस्य गृहे हरन्ति यः एवम् वेद ॥८ ॥
tasmāt manuṣyebhyaḥ ubhayadyus upa haranti upa asya gṛhe haranti yaḥ evam veda ..8 ..

सोदक्रामत्सासुरान् आगच्छत्तामसुरा उपाह्वयन्त माय एहीति ॥१ ॥
सा उदक्रामत् सा असुरान् आगच्छत् ताम् असुराः उपाह्वयन्त माये एहि इति ॥१ ॥
sā udakrāmat sā asurān āgacchat tām asurāḥ upāhvayanta māye ehi iti ..1 ..

तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ॥२ ॥
तस्याः विरोचनः प्राह्रादिः वत्सः आसीत् अयस्पात्रम् पात्रम् ॥२ ॥
tasyāḥ virocanaḥ prāhrādiḥ vatsaḥ āsīt ayaspātram pātram ..2 ..

तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥३ ॥
ताम् मायाम् एव अधोक्॥३ ॥
tām māyām eva adhok..3 ..

तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥४ ॥
ताम् मायाम् असुराः उप जीवन्ति उपजीवनीयः भवति यः एवम् वेद ॥४ ॥
tām māyām asurāḥ upa jīvanti upajīvanīyaḥ bhavati yaḥ evam veda ..4 ..

सोदक्रामत्सा पितॄन् आगच्छत्तां पितर उपाह्वयन्त स्वध एहीति ॥५ ॥
सा उदक्रामत् सा पितॄन् आगच्छत् ताम् पितरः उपाह्वयन्त स्वधे एहि इति ॥५ ॥
sā udakrāmat sā pitṝn āgacchat tām pitaraḥ upāhvayanta svadhe ehi iti ..5 ..

तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् ॥६ ॥
तस्याः यमः राजा वत्सः आसीत् रजत-पात्रम् पात्रम् ॥६ ॥
tasyāḥ yamaḥ rājā vatsaḥ āsīt rajata-pātram pātram ..6 ..

तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्॥७ ॥
ताम् अन्तकः मार्त्यवः अधोक्ताम् स्वधाम् एव अधोक्॥७ ॥
tām antakaḥ mārtyavaḥ adhoktām svadhām eva adhok..7 ..

तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥८ ॥
ताम् स्वधाम् पितरः उप जीवन्ति उपजीवनीयः भवति यः एवम् वेद ॥८ ॥
tām svadhām pitaraḥ upa jīvanti upajīvanīyaḥ bhavati yaḥ evam veda ..8 ..

सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ॥९ ॥
सा उदक्रामत् सा मनुष्यान् आगच्छत् ताम् मनुष्याः उपाह्वयन्त इरावति एहि इति ॥९ ॥
sā udakrāmat sā manuṣyān āgacchat tām manuṣyāḥ upāhvayanta irāvati ehi iti ..9 ..

तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ॥१० ॥
तस्याः मनुः वैवस्वतः वत्सः आसीत् पृथिवी पात्रम् ॥१० ॥
tasyāḥ manuḥ vaivasvataḥ vatsaḥ āsīt pṛthivī pātram ..10 ..

तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्॥११ ॥
ताम् पृथी वैन्यः अधोक्ताम् कृषिम् च सस्यम् च अधोक्॥११ ॥
tām pṛthī vainyaḥ adhoktām kṛṣim ca sasyam ca adhok..11 ..

ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥१२ ॥
ते स्वधाम् कृषिम् च सस्यम् च मनुष्याः उप जीवन्ति कृष्ट-राधिः उपजीवनीयः भवति यः एवम् वेद ॥१२ ॥
te svadhām kṛṣim ca sasyam ca manuṣyāḥ upa jīvanti kṛṣṭa-rādhiḥ upajīvanīyaḥ bhavati yaḥ evam veda ..12 ..

सोदक्रामत्सा सप्तऋषीन् आगच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ॥१३ ॥
सा उदक्रामत् सा सप्त-ऋषीन् आगच्छत् ताम् सप्त-ऋषयः उपाह्वयन्त ब्रह्मण्वति एहि इति ॥१३ ॥
sā udakrāmat sā sapta-ṛṣīn āgacchat tām sapta-ṛṣayaḥ upāhvayanta brahmaṇvati ehi iti ..13 ..

तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ॥१४ ॥
तस्याः सोमः राजा वत्सः आसीत् छन्दः पात्रम् ॥१४ ॥
tasyāḥ somaḥ rājā vatsaḥ āsīt chandaḥ pātram ..14 ..

तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्॥१५ ॥
ताम् बृहस्पतिः आङ्गिरसः अधोक्ताम् ब्रह्म च तपः च अधोक्॥१५ ॥
tām bṛhaspatiḥ āṅgirasaḥ adhoktām brahma ca tapaḥ ca adhok..15 ..

तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥१६ ॥
तत् ब्रह्म च तपः च सप्त-ऋषयः उप जीवन्ति ब्रह्मवर्चसी उपजीवनीयः भवति यः एवम् वेद ॥१६ ॥
tat brahma ca tapaḥ ca sapta-ṛṣayaḥ upa jīvanti brahmavarcasī upajīvanīyaḥ bhavati yaḥ evam veda ..16 ..

सोदक्रामत्सा देवान् आगच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ॥१ ॥
सा उदक्रामत् सा देवान् आगच्छत् ताम् देवाः उपाह्वयन्त ऊर्जे एहि इति ॥१ ॥
sā udakrāmat sā devān āgacchat tām devāḥ upāhvayanta ūrje ehi iti ..1 ..

तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ॥२ ॥
तस्याः इन्द्रः वत्सः आसीत् चमसः पात्रम् ॥२ ॥
tasyāḥ indraḥ vatsaḥ āsīt camasaḥ pātram ..2 ..

तां देवः सविताधोक्तामूर्जामेवाधोक्॥३ ॥
ताम् देवः सविता अधोक्ताम् ऊर्जाम् एव अधोक्॥३ ॥
tām devaḥ savitā adhoktām ūrjām eva adhok..3 ..

तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥४ ॥
ताम् ऊर्जाम् देवाः उप जीवन्ति उपजीवनीयः भवति यः एवम् वेद ॥४ ॥
tām ūrjām devāḥ upa jīvanti upajīvanīyaḥ bhavati yaḥ evam veda ..4 ..

सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ॥५ ॥
सा उदक्रामत् सा गन्धर्व-अप्सरसः आगच्छत् ताम् गन्धर्व-अप्सरसः उपाह्वयन्त पुण्य-गन्धे एहि इति ॥५ ॥
sā udakrāmat sā gandharva-apsarasaḥ āgacchat tām gandharva-apsarasaḥ upāhvayanta puṇya-gandhe ehi iti ..5 ..

तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ॥६ ॥
तस्याः चित्ररथः सौर्यवर्चसः वत्सः आसीत् पुष्करपर्णम् पात्रम् ॥६ ॥
tasyāḥ citrarathaḥ sauryavarcasaḥ vatsaḥ āsīt puṣkaraparṇam pātram ..6 ..

तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्॥७ ॥
ताम् वसुरुचिः सौर्यवर्चसः अधोक्ताम् पुण्यम् एव गन्धम् अधोक्॥७ ॥
tām vasuruciḥ sauryavarcasaḥ adhoktām puṇyam eva gandham adhok..7 ..

तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥८ ॥
तम् पुण्यम् गन्धम् गन्धर्व-अप्सरसः उप जीवन्ति पुण्य-गन्धिः उपजीवनीयः भवति यः एवम् वेद ॥८ ॥
tam puṇyam gandham gandharva-apsarasaḥ upa jīvanti puṇya-gandhiḥ upajīvanīyaḥ bhavati yaḥ evam veda ..8 ..

सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति ॥९ ॥
सा उदक्रामत् सा इतरजनान् आगच्छत् ताम् इतरजनाः उपाह्वयन्त तिरोधः एहि इति ॥९ ॥
sā udakrāmat sā itarajanān āgacchat tām itarajanāḥ upāhvayanta tirodhaḥ ehi iti ..9 ..

तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ॥१० ॥
तस्याः कुबेरः वैश्रवणः वत्सः आसीत् आमपात्रम् पात्रम् ॥१० ॥
tasyāḥ kuberaḥ vaiśravaṇaḥ vatsaḥ āsīt āmapātram pātram ..10 ..

तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्॥११ ॥
ताम् रजतनाभिः कबेरकः अधोक्ताम् तिरोधाम् एव अधोक्॥११ ॥
tām rajatanābhiḥ kaberakaḥ adhoktām tirodhām eva adhok..11 ..

तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥१२ ॥
ताम् तिरोधाम् अतिरजना पितरः उप जीवन्ति तिरस् धत्ते सर्वम् पाप्मानम् उपजीवनीयः भवति यः एवम् वेद ॥१२ ॥
tām tirodhām atirajanā pitaraḥ upa jīvanti tiras dhatte sarvam pāpmānam upajīvanīyaḥ bhavati yaḥ evam veda ..12 ..

सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति ॥१३ ॥
सा उदक्रामत् सा सर्पान् आगच्छत् ताम् सर्पाः उपाह्वयन्त विषवति एहि इति ॥१३ ॥
sā udakrāmat sā sarpān āgacchat tām sarpāḥ upāhvayanta viṣavati ehi iti ..13 ..

तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् ॥१४ ॥
तस्याः तक्षकः वैशलेयः वत्सः आसीत् अलाबु-पात्रम् पात्रम् ॥१४ ॥
tasyāḥ takṣakaḥ vaiśaleyaḥ vatsaḥ āsīt alābu-pātram pātram ..14 ..

तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्॥१५ ॥
ताम् धृतराष्ट्रः ऐरावतः अधोक्ताम् विषम् एव अधोक्॥१५ ॥
tām dhṛtarāṣṭraḥ airāvataḥ adhoktām viṣam eva adhok..15 ..

तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥१६ ॥
तत् विषम् सर्पाः उप जीवन्ति उपजीवनीयः भवति यः एवम् वेद ॥१६ ॥
tat viṣam sarpāḥ upa jīvanti upajīvanīyaḥ bhavati yaḥ evam veda ..16 ..

तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात् ॥१॥
तत् यस्मै एवम् विदुषे अलाबुना अभिषिञ्चेत् प्रत्याहन्यात् ॥१॥
tat yasmai evam viduṣe alābunā abhiṣiñcet pratyāhanyāt ..1..

न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात् ॥२॥
न च प्रत्याहन्यात् मनसा त्वा प्रत्याहन्मि इति प्रत्याहन्यात् ॥२॥
na ca pratyāhanyāt manasā tvā pratyāhanmi iti pratyāhanyāt ..2..

यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३॥
यत् प्रत्याहन्ति विषम् एव तत् प्रत्याहन्ति ॥३॥
yat pratyāhanti viṣam eva tat pratyāhanti ..3..

विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥४॥
विषम् एव अस्य अप्रियम् भ्रातृव्यम् अनुविषिच्यते यः एवम् वेद ॥४॥
viṣam eva asya apriyam bhrātṛvyam anuviṣicyate yaḥ evam veda ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In