| |
|

This overlay will guide you through the buttons:

आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते ।असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥
आ रभस्व इमाम् अमृतस्य श्नुष्टिम् अ छिद्यमाना जरदष्टिः अस्तु ते ।असुम् ते आयुः पुनर् आ भरामि रजः तमः मा उप गाः मा प्र मेष्ठाः ॥१॥
ā rabhasva imām amṛtasya śnuṣṭim a chidyamānā jaradaṣṭiḥ astu te .asum te āyuḥ punar ā bharāmi rajaḥ tamaḥ mā upa gāḥ mā pra meṣṭhāḥ ..1..

जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय ।अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥
जीवताम् ज्योतिः अभ्येहि अर्वाङा त्वा हरामि शत-शारदाय ।अवमुञ्चन् मृत्यु-पाशान् अशस्तिम् द्राघीयः आयुः प्रतरम् ते दधामि ॥२॥
jīvatām jyotiḥ abhyehi arvāṅā tvā harāmi śata-śāradāya .avamuñcan mṛtyu-pāśān aśastim drāghīyaḥ āyuḥ prataram te dadhāmi ..2..

वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव ।यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥
वातात् ते प्रानम् अविदम् सूर्यात् चक्षुः अहम् तव ।यत् ते मनः त्वयि तत् धारयामि सम् वित्स्व अङ्गैः वद जिह्वया अ लपन् ॥३॥
vātāt te prānam avidam sūryāt cakṣuḥ aham tava .yat te manaḥ tvayi tat dhārayāmi sam vitsva aṅgaiḥ vada jihvayā a lapan ..3..

प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥
प्राणेन त्वा द्विपदाम् चतुष्पदाम् अग्निम् इव जातम् अभि सम् धमामि ।नमः ते मृत्यो चक्षुषे नमः प्राणाय ते अकरम् ॥४॥
prāṇena tvā dvipadām catuṣpadām agnim iva jātam abhi sam dhamāmi .namaḥ te mṛtyo cakṣuṣe namaḥ prāṇāya te akaram ..4..

अयं जीवतु मा मृतेमं समीरयामसि ।कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
अयम् जीवतु मा मृत इमम् समीरयामसि ।कृणोमि अस्मै भेषजम् मृत्यो मा पुरुषम् वधीः ॥५॥
ayam jīvatu mā mṛta imam samīrayāmasi .kṛṇomi asmai bheṣajam mṛtyo mā puruṣam vadhīḥ ..5..

जीवलां नघारिषां जीवन्तीमोषधीमहम् ।त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
जीवलाम् नघारिषाम् जीवन्तीम् ओषधीम् अहम् ।त्रायमाणाम् सहमानाम् सहस्वतीम् इह हुवे अस्मै अरिष्टतातये ॥६॥
jīvalām naghāriṣām jīvantīm oṣadhīm aham .trāyamāṇām sahamānām sahasvatīm iha huve asmai ariṣṭatātaye ..6..

अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु ।भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥७॥
अधि ब्रूहि मा रभथाः सृज इमम् तव एव सन् सर्व-हायाः इह अस्तु ।भवाशर्वौ मृडतम् शर्म यच्छतम् अपसिध्य दुरितम् धत्तम् आयुः ॥७॥
adhi brūhi mā rabhathāḥ sṛja imam tava eva san sarva-hāyāḥ iha astu .bhavāśarvau mṛḍatam śarma yacchatam apasidhya duritam dhattam āyuḥ ..7..

अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु ।अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥
अस्मै मृत्यो अधि ब्रूहि इमम् दयस्व उदितः अयम् एतु ।अरिष्टः सर्व-अङ्गः सु श्रुत् जरसा शत-हायनः आत्मना भुजम् अश्नुताम् ॥८॥
asmai mṛtyo adhi brūhi imam dayasva uditaḥ ayam etu .ariṣṭaḥ sarva-aṅgaḥ su śrut jarasā śata-hāyanaḥ ātmanā bhujam aśnutām ..8..

देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥
देवानाम् हेतिः परि त्वा वृणक्तु पारयामि त्वा रजसः उत् त्वा मृत्योः अपीपरम् ।आरात् अग्निम् क्रव्यादम् निरूहम् जीवातवे ते परिधिम् दधामि ॥९॥
devānām hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasaḥ ut tvā mṛtyoḥ apīparam .ārāt agnim kravyādam nirūham jīvātave te paridhim dadhāmi ..9..

यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३}
यत् ते नियानम् रजसम् मृत्यो अनवधर्ष्यम् ।पथः इमम् तस्मात् रक्षन्तः ब्रह्म अस्मै वर्म कृण्मसि ॥१०॥
yat te niyānam rajasam mṛtyo anavadharṣyam .pathaḥ imam tasmāt rakṣantaḥ brahma asmai varma kṛṇmasi ..10..

कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति ।वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥
कृणोमि ते प्राण-अपानौ जराम् मृत्युम् दीर्घम् आयुः स्वस्ति ।वैवस्वतेन प्रहितान् यम-दूतान् चरतः अप सेधामि सर्वान् ॥११॥
kṛṇomi te prāṇa-apānau jarām mṛtyum dīrgham āyuḥ svasti .vaivasvatena prahitān yama-dūtān carataḥ apa sedhāmi sarvān ..11..

आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान् ।रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥
आरात् अरातिम् निरृतिम् परस् ग्राहिम् क्रव्य-अदः पिशाचान् ।रक्षः यत् सर्वम् दुर्भूतम् तत् तमः इव अप हन्मसि ॥१२॥
ārāt arātim nirṛtim paras grāhim kravya-adaḥ piśācān .rakṣaḥ yat sarvam durbhūtam tat tamaḥ iva apa hanmasi ..12..

अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः ।यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥
अग्नेः त प्रानम् अमृतात् आयुष्मतः वन्वे जातवेदसः ।यथा न रिष्याः अमृतः सजूरसः तत् ते कृणोमि तत् उ ते समृध्यताम् ॥१३॥
agneḥ ta prānam amṛtāt āyuṣmataḥ vanve jātavedasaḥ .yathā na riṣyāḥ amṛtaḥ sajūrasaḥ tat te kṛṇomi tat u te samṛdhyatām ..13..

शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥
शिवे ते स्ताम् द्यावापृथिवी अ संतापे अभिश्रियौ ।शम् ते सूर्यः आ तपतु शम् वातः वातु ते हृदे ।शिवाः अभि क्षरन्तु त्वा अपः दिव्याः पयस्वतीः ॥१४॥
śive te stām dyāvāpṛthivī a saṃtāpe abhiśriyau .śam te sūryaḥ ā tapatu śam vātaḥ vātu te hṛde .śivāḥ abhi kṣarantu tvā apaḥ divyāḥ payasvatīḥ ..14..

शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि ।तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥
शिवाः ते सन्तु ओषधयः उद् त्वा अहार्षम् अधरस्याः उत्तराम् पृथिवीम् अभि ।तत्र तु आदित्यौ रक्षताम् सूर्याचन्द्रमसौ उभा ॥१५॥
śivāḥ te santu oṣadhayaḥ ud tvā ahārṣam adharasyāḥ uttarām pṛthivīm abhi .tatra tu ādityau rakṣatām sūryācandramasau ubhā ..15..

यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् ।शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥
यत् ते वासः परिधानम् याम् नीविम् कृणुषे त्वम् ।शिवम् ते तन्वे तत् कृण्मः संस्पर्शे अ द्रूक्ष्णम् अस्तु ते ॥१६॥
yat te vāsaḥ paridhānam yām nīvim kṛṇuṣe tvam .śivam te tanve tat kṛṇmaḥ saṃsparśe a drūkṣṇam astu te ..16..

यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥
यत् क्षुरेण मर्चयता सु तेजसा वप्ता वपसि केश-श्मश्रु ।शुभम् मुखम् मा नः आयुः प्र मोषीः ॥१७॥
yat kṣureṇa marcayatā su tejasā vaptā vapasi keśa-śmaśru .śubham mukham mā naḥ āyuḥ pra moṣīḥ ..17..

शिवौ ते स्तां व्रीहियवावबलासावदोमधौ ।एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥
शिवौ ते स्ताम् व्रीहि-यवौ अबलासौ अदोमधौ ।एतौ यक्ष्मम् वि बाधेते एतौ मुञ्चतः अंहसः ॥१८॥
śivau te stām vrīhi-yavau abalāsau adomadhau .etau yakṣmam vi bādhete etau muñcataḥ aṃhasaḥ ..18..

यदश्नासि यत्पिबसि धान्यं कृष्याः पयः ।यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥
यत् अश्नासि यत् पिबसि धान्यम् कृष्याः पयः ।यत् आद्यम् यत् अनाद्यम् सर्वम् ते अन्नम् अविषम् कृणोमि ॥१९॥
yat aśnāsi yat pibasi dhānyam kṛṣyāḥ payaḥ .yat ādyam yat anādyam sarvam te annam aviṣam kṛṇomi ..19..

अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४}
अह्ने च त्वा रात्रये च उभाभ्याम् परि दद्मसि ।अरायेभ्यः जिघत्सुभ्यः इमम् मे परि रक्षत ॥२०॥
ahne ca tvā rātraye ca ubhābhyām pari dadmasi .arāyebhyaḥ jighatsubhyaḥ imam me pari rakṣata ..20..

शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥
शतम् ते अयुतम् हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।इन्द्र-अग्नी विश्वे देवाः ते अनु मन्यन्ताम् अ हृणीयमानाः ॥२१॥
śatam te ayutam hāyanān dve yuge trīṇi catvāri kṛṇmaḥ .indra-agnī viśve devāḥ te anu manyantām a hṛṇīyamānāḥ ..21..

शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।वर्षाणि तुभ्यम् स्योनानि येषु वर्धन्ते ओषधीः ॥२२॥
śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi .varṣāṇi tubhyam syonāni yeṣu vardhante oṣadhīḥ ..22..

मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥
मृत्युः ईशे द्विपदाम् मृत्युः ईशे चतुष्पदाम् ।तस्मात् त्वाम् मृत्योः गोपतेः उद्भरामि स मा बिभेः ॥२३॥
mṛtyuḥ īśe dvipadām mṛtyuḥ īśe catuṣpadām .tasmāt tvām mṛtyoḥ gopateḥ udbharāmi sa mā bibheḥ ..23..

सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥
सः अरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।न वै तत्र म्रियन्ते न उ यन्ति अधमम् तमः ॥२४॥
saḥ ariṣṭa na mariṣyasi na mariṣyasi mā bibheḥ .na vai tatra mriyante na u yanti adhamam tamaḥ ..24..

सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः ।यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥
सर्वः वै तत्र जीवति गौः अश्वः पुरुषः पशुः ।यत्र इदम् ब्रह्म क्रियते परिधिः जीवनाय कम् ॥२५॥
sarvaḥ vai tatra jīvati gauḥ aśvaḥ puruṣaḥ paśuḥ .yatra idam brahma kriyate paridhiḥ jīvanāya kam ..25..

परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः ।अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥
परि त्वा पातु समानेभ्यः अभिचारात् सबन्धुभ्यः ।अमम्रिः भव अमृतः अतिजीवः मा ते हासिषुः असवः शरीरम् ॥२६॥
pari tvā pātu samānebhyaḥ abhicārāt sabandhubhyaḥ .amamriḥ bhava amṛtaḥ atijīvaḥ mā te hāsiṣuḥ asavaḥ śarīram ..26..

ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥
ये मृत्यवः एक-शतम् याः नाष्ट्राः अतितार्याः ।मुञ्चन्तु तस्मात् त्वाम् देवाः अग्नेः वैश्वानरात् अधि ॥२७॥
ye mṛtyavaḥ eka-śatam yāḥ nāṣṭrāḥ atitāryāḥ .muñcantu tasmāt tvām devāḥ agneḥ vaiśvānarāt adhi ..27..

अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा ।अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५}
अग्नेः शरीरम् असि पारयिष्णु रक्षः-हा असि सपत्न-हा ।अथ उ अमीव-चातनः पूतुद्रुः नाम भेषजम् ॥२८॥
agneḥ śarīram asi pārayiṣṇu rakṣaḥ-hā asi sapatna-hā .atha u amīva-cātanaḥ pūtudruḥ nāma bheṣajam ..28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In