| |
|

This overlay will guide you through the buttons:

रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
रक्षः-हणम् वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म ।शिशानः अग्निः क्रतुभिः समिद्धः स नः दिवा स रिषः पातु नक्तम् ॥१॥
rakṣaḥ-haṇam vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma .śiśānaḥ agniḥ kratubhiḥ samiddhaḥ sa naḥ divā sa riṣaḥ pātu naktam ..1..

अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥
अयः-दंष्ट्रः अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।आ जिह्वया मूरदेवान् रभस्व क्रव्यादः वृष्ट्वा अपि धत्स्व आसन् ॥२॥
ayaḥ-daṃṣṭraḥ arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ .ā jihvayā mūradevān rabhasva kravyādaḥ vṛṣṭvā api dhatsva āsan ..2..

उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च ।उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥३॥
उभा उभयाविन् उप धेहि दंष्ट्रौ हिंस्रः शिशानः अवरम् परम् च ।उत अन्तरिक्षे परि याहि अग्ने जम्भैः सम् धेहि अभि यातुधानान् ॥३॥
ubhā ubhayāvin upa dhehi daṃṣṭrau hiṃsraḥ śiśānaḥ avaram param ca .uta antarikṣe pari yāhi agne jambhaiḥ sam dhehi abhi yātudhānān ..3..

अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥४॥
अग्ने त्वचम् यातुधानस्य भिन्धि हिंस्र-अशनिः हरसा हन्तु एनम् ।प्र पर्वाणि जातवेदः शृणीहि क्रव्याद् क्रविष्णुः वि चिनोतु एनम् ॥४॥
agne tvacam yātudhānasya bhindhi hiṃsra-aśaniḥ harasā hantu enam .pra parvāṇi jātavedaḥ śṛṇīhi kravyād kraviṣṇuḥ vi cinotu enam ..4..

यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥५॥
यत्र इदानीम् पश्यसि जातवेदः तिष्ठन्तम् अग्ने उत वा चरन्तम् ।उत अन्तरिक्षे पतन्तम् यातुधानम् तमः ताः विध्य शर्वा शिशानः ॥५॥
yatra idānīm paśyasi jātavedaḥ tiṣṭhantam agne uta vā carantam .uta antarikṣe patantam yātudhānam tamaḥ tāḥ vidhya śarvā śiśānaḥ ..5..

यज्ञैरिषूः संनममानो अग्ने इवाचा शल्यामशनिभिर्दिहानः ।ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥६॥
यज्ञैः इषूः संनममानः अग्ने इव अचा शल्याम् अशनिभिः दिहानः ।ताभिः विध्य हृदये यातुधानान् प्रतीचः बाहून् प्रति भङ्ग्धि एषाम् ॥६॥
yajñaiḥ iṣūḥ saṃnamamānaḥ agne iva acā śalyām aśanibhiḥ dihānaḥ .tābhiḥ vidhya hṛdaye yātudhānān pratīcaḥ bāhūn prati bhaṅgdhi eṣām ..6..

उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् ।अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥
उत आरब्धान् स्पृनुहि जातवेदः उत अरेभाणाम् ऋष्टिभिः यातुधानान् ।अग्ने पूर्वः नि जहि शोशुचानः आमादः क्ष्विङ्काः तमदन्तु एनीः ॥७॥
uta ārabdhān spṛnuhi jātavedaḥ uta arebhāṇām ṛṣṭibhiḥ yātudhānān .agne pūrvaḥ ni jahi śośucānaḥ āmādaḥ kṣviṅkāḥ tamadantu enīḥ ..7..

इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति ।तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥
इह प्र ब्रूहि यतमः सः अग्ने यातुधानः यः इदम् कृणोति ।तम् आ रभस्व समिधा यविष्ठ नृ-चक्षसः चक्षुषे रन्धय एनम् ॥८॥
iha pra brūhi yatamaḥ saḥ agne yātudhānaḥ yaḥ idam kṛṇoti .tam ā rabhasva samidhā yaviṣṭha nṛ-cakṣasaḥ cakṣuṣe randhaya enam ..8..

तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥
तीक्ष्णेन अग्ने चक्षुषा रक्ष यज्ञम् प्राञ्चम् वसुभ्यः प्र नय प्रचेतः ।हिंस्रम् रक्षांसि अभि शोशुचानम् मा त्वा दभन् यातुधानाः नृ-चक्षः ॥९॥
tīkṣṇena agne cakṣuṣā rakṣa yajñam prāñcam vasubhyaḥ pra naya pracetaḥ .hiṃsram rakṣāṃsi abhi śośucānam mā tvā dabhan yātudhānāḥ nṛ-cakṣaḥ ..9..

नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ {६}
नृ-चक्षाः रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीहि अग्रा ।तस्य अग्ने पृष्टीः हरसा शृणीहि त्रेधा मूलम् यातुधानस्य वृश्च ॥१०॥
nṛ-cakṣāḥ rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhi agrā .tasya agne pṛṣṭīḥ harasā śṛṇīhi tredhā mūlam yātudhānasya vṛśca ..10..

त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥११॥
त्रिस् यातुधानः प्रसितिम् ते एतु ऋतम् यः अग्ने अनृतेन हन्ति ।तम् अर्चिषा स्फूर्जयन् जातवेदः समक्षम् एनम् गृणते नि युङ्ग्धि ॥११॥
tris yātudhānaḥ prasitim te etu ṛtam yaḥ agne anṛtena hanti .tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅgdhi ..11..

यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥
यत् अग्ने अद्य मिथुना शपातः यत् वाचः तृष्टम् जनयन्त रेभाः ।मन्योः मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥
yat agne adya mithunā śapātaḥ yat vācaḥ tṛṣṭam janayanta rebhāḥ .manyoḥ manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ..12..

परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥
परा शृणीहि तपसा यातुधानान् परा अग्ने रक्षः हरसा शृणीहि ।परा अर्चिषा मूरदेवान् शृणीहि परा असुतृपः शोशुचतः शृणीहि ॥१३॥
parā śṛṇīhi tapasā yātudhānān parā agne rakṣaḥ harasā śṛṇīhi .parā arciṣā mūradevān śṛṇīhi parā asutṛpaḥ śośucataḥ śṛṇīhi ..13..

पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः ।वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥
परा अद्य देवाः वृजिनम् शृणन्तु प्रत्यक् एनम् शपथाः यन्तु सृष्टाः ।वाचास्तेनम् शरवः ऋच्छन्तु मर्मन् विश्वस्य ऐतु प्रसितिम् यातुधानः ॥१४॥
parā adya devāḥ vṛjinam śṛṇantu pratyak enam śapathāḥ yantu sṛṣṭāḥ .vācāstenam śaravaḥ ṛcchantu marman viśvasya aitu prasitim yātudhānaḥ ..14..

यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥
यः पौरुषेयेण क्रविषा समङ्क्ते यः अश्व्येन पशुना यातुधानः ।यः अघ्न्यायाः भरति क्षीरम् अग्ने तेषाम् शीर्षाणि हरसा अपि वृश्च ॥१५॥
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yaḥ aśvyena paśunā yātudhānaḥ .yaḥ aghnyāyāḥ bharati kṣīram agne teṣām śīrṣāṇi harasā api vṛśca ..15..

विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः ।परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥
विषम् गवाम् यातुधानाः भरन्ताम् आ वृश्चन्ताम् अदितये दुरेवाः ।परा एणान् देवः सविता ददातु परा भागम् ओषधीनाम् जयन्ताम् ॥१६॥
viṣam gavām yātudhānāḥ bharantām ā vṛścantām aditaye durevāḥ .parā eṇān devaḥ savitā dadātu parā bhāgam oṣadhīnām jayantām ..16..

संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥१७॥
संवत्सरीणम् पयः उस्रियायाः तस्य मा अशीत् यातुधानः नृ-चक्षः ।पीयूषम् अग्ने यतमः तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मणि ॥१७॥
saṃvatsarīṇam payaḥ usriyāyāḥ tasya mā aśīt yātudhānaḥ nṛ-cakṣaḥ .pīyūṣam agne yatamaḥ titṛpsāt tam pratyañcam arciṣā vidhya marmaṇi ..17..

सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥
सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।सहमूरान् अनु दह क्रव्यादः मा ते हेत्याः मुक्षत दैव्यायाः ॥१८॥
sanādagne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ .sahamūrān anu daha kravyādaḥ mā te hetyāḥ mukṣata daivyāyāḥ ..18..

त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्।प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥
त्वम् नः अग्ने अधरात् उदक्तस् त्वम् पश्चात् उत रक्ष पुरस्तात्।प्रति त्ये ते अजरासः तपिष्ठाः अघ-शंसम् शोशुचतः दहन्तु ॥१९॥
tvam naḥ agne adharāt udaktas tvam paścāt uta rakṣa purastāt.prati tye te ajarāsaḥ tapiṣṭhāḥ agha-śaṃsam śośucataḥ dahantu ..19..

पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने ।सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥२०॥ {७}
पश्चात् पुरस्तात् अधरात् उत उत्तरात् कविः काव्येन परि पाहि अग्ने ।सखा सखायम् अजरः जरिम्ने अग्ने मर्ताम् अमर्त्यः त्वम् नः ॥२०॥
paścāt purastāt adharāt uta uttarāt kaviḥ kāvyena pari pāhi agne .sakhā sakhāyam ajaraḥ jarimne agne martām amartyaḥ tvam naḥ ..20..

तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् ।अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥२१॥
तत् अग्ने चक्षुः प्रति धेहि रेभे शफारुजः येन पश्यसि यातुधानान् ।अथर्व-वत् ज्योतिषा दैव्येन सत्यम् धूर्वन्तम् अचितम् न्योष ॥२१॥
tat agne cakṣuḥ prati dhehi rebhe śaphārujaḥ yena paśyasi yātudhānān .atharva-vat jyotiṣā daivyena satyam dhūrvantam acitam nyoṣa ..21..

परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥
परि त्वा अग्ने पुरम् वयम् विप्रम् सहस्य धीमहि ।धृषत्-वर्णम् दिवे दिवे हन्तारम् भङ्गुरावतः ॥२२॥
pari tvā agne puram vayam vipram sahasya dhīmahi .dhṛṣat-varṇam dive dive hantāram bhaṅgurāvataḥ ..22..

विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि ।अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥२३॥
विषेण भङ्गुरावतः प्रति स्म रक्षसः जहि ।अग्ने तिग्मेन शोचिषा तपुः-अग्राभिः अर्चिभिः ॥२३॥
viṣeṇa bhaṅgurāvataḥ prati sma rakṣasaḥ jahi .agne tigmena śociṣā tapuḥ-agrābhiḥ arcibhiḥ ..23..

वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥
वि ज्योतिषा बृहता भाति अग्निः आविस् विश्वानि कृणुते महित्वा ।प्र अदेवीः मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यः विनिक्षे ॥२४॥
vi jyotiṣā bṛhatā bhāti agniḥ āvis viśvāni kṛṇute mahitvā .pra adevīḥ māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyaḥ vinikṣe ..24..

ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते ।ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् ।प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥२५॥
ये ते शृङ्गे अजरे जातवेदः तिग्म-हेती ब्रह्म-संशिते ।ताभ्याम् दुर्हार्दम् अभिदासन्तम् किमीदिनम् ।प्रत्यञ्चम् अर्चिषा जातवेदः वि निक्ष्व ॥२५॥
ye te śṛṅge ajare jātavedaḥ tigma-hetī brahma-saṃśite .tābhyām durhārdam abhidāsantam kimīdinam .pratyañcam arciṣā jātavedaḥ vi nikṣva ..25..

अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।शुचिः पावक ईड्यः ॥२६॥ {८}
अग्निः रक्षांसि सेधति शुक्र-शोचिः अमर्त्यः ।शुचिः पावकः ईड्यः ॥२६॥
agniḥ rakṣāṃsi sedhati śukra-śociḥ amartyaḥ .śuciḥ pāvakaḥ īḍyaḥ ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In