| |
|

This overlay will guide you through the buttons:

इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥
इन्द्रासोमा तपतम् रक्षः उब्जतम् न्यर्पयतम् वृषणा तमः-वृधः ।परा शृणीतम् अचितः न्योषतम् हतम् नुदेथाम् नि शिशीतम् अत्त्रिणः ॥१॥
indrāsomā tapatam rakṣaḥ ubjatam nyarpayatam vṛṣaṇā tamaḥ-vṛdhaḥ .parā śṛṇītam acitaḥ nyoṣatam hatam nudethām ni śiśītam attriṇaḥ ..1..

इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ।ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
इन्द्रासोमा समघ-शंसम् अभ्यघम् तपुः ययः तु चरुः अग्नि-माम् इव ।ब्रह्म-द्विषे क्रव्य-अदे घोर-चक्षसे द्वेषः धत्तम् अनवायम् किमीदिने ॥२॥
indrāsomā samagha-śaṃsam abhyagham tapuḥ yayaḥ tu caruḥ agni-mām iva .brahma-dviṣe kravya-ade ghora-cakṣase dveṣaḥ dhattam anavāyam kimīdine ..2..

इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
इन्द्रासोमा दुष्कृतः वव्रे अन्तर् अन् आरम्भणे तमसि प्र विध्यतम् ।यतस् न एषाम् पुनर् एकः चन उदयत् तत् वामः तु सहसे मन्युमत् शवः ॥३॥
indrāsomā duṣkṛtaḥ vavre antar an ārambhaṇe tamasi pra vidhyatam .yatas na eṣām punar ekaḥ cana udayat tat vāmaḥ tu sahase manyumat śavaḥ ..3..

इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
इन्द्रासोमा वर्तयतम् दिवः वधम् सम् पृथिव्याः अघ-शंसाय तर्हणम् ।उत्तक्षतम् स्वर्यम् पर्वतेभ्यः येन रक्षः वावृधानम् निजूर्वथः ॥४॥
indrāsomā vartayatam divaḥ vadham sam pṛthivyāḥ agha-śaṃsāya tarhaṇam .uttakṣatam svaryam parvatebhyaḥ yena rakṣaḥ vāvṛdhānam nijūrvathaḥ ..4..

इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
इन्द्रासोमा वर्तयतम् दिवस्परि अग्नि-तप्तेभिः युवम् अश्म-हन्मभिः ।तपुः-वधेभिः अजरेभिः अत्त्रिणः नि पर्शाने विध्यतम् यन्तु निस्वरम् ॥५॥
indrāsomā vartayatam divaspari agni-taptebhiḥ yuvam aśma-hanmabhiḥ .tapuḥ-vadhebhiḥ ajarebhiḥ attriṇaḥ ni parśāne vidhyatam yantu nisvaram ..5..

इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
इन्द्रासोमा परि वाम् भूतु विश्वतस् इयम् मतिः कक्ष्या अश्वा इव वाजिना ।याम् वाम् होत्राम् परिहिनोमि मेधया इमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
indrāsomā pari vām bhūtu viśvatas iyam matiḥ kakṣyā aśvā iva vājinā .yām vām hotrām parihinomi medhayā imā brahmāṇi nṛpatī iva jinvatam ..6..

प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥
प्रति स्मरेथाम् तुजयद्भिः एवैः हतम् द्रुहः रक्षसः भङ्गुरावतः ।इन्द्रासोमाः दुष्कृते मा सुगम् भूत् यः मा कदा चित् अभिदासति द्रुहुः ॥७॥
prati smarethām tujayadbhiḥ evaiḥ hatam druhaḥ rakṣasaḥ bhaṅgurāvataḥ .indrāsomāḥ duṣkṛte mā sugam bhūt yaḥ mā kadā cit abhidāsati druhuḥ ..7..

यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥
यः मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिः वचोभिः ।आपः इव काशिना सम्गृभीताः असन् अस्तु असतः इन्द्र वक्ता ॥८॥
yaḥ mā pākena manasā carantam abhicaṣṭe anṛtebhiḥ vacobhiḥ .āpaḥ iva kāśinā samgṛbhītāḥ asan astu asataḥ indra vaktā ..8..

ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।अहये वा तान् प्रददातु सोम आ वा दधातु निर्ऋतेरुपष्ठे ॥९॥
ये पाक-शंसम् विहरन्ते एवैः ये वा भद्रम् दूषयन्ति स्वधाभिः ।अहये वा तान् प्रददातु सोमः आ वा दधातु निरृतेः उपष्ठे ॥९॥
ye pāka-śaṃsam viharante evaiḥ ye vā bhadram dūṣayanti svadhābhiḥ .ahaye vā tān pradadātu somaḥ ā vā dadhātu nirṛteḥ upaṣṭhe ..9..

यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् ।रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९}
यः नः रसम् दिप्सति पित्वः अग्ने अश्वानाम् गवाम् यः तनूनाम् ।रिपुः स्तेनः स्तेय-कृत् दभ्र-मेतु नि स हीयताम् तन्वा तना च ॥१०॥
yaḥ naḥ rasam dipsati pitvaḥ agne aśvānām gavām yaḥ tanūnām .ripuḥ stenaḥ steya-kṛt dabhra-metu ni sa hīyatām tanvā tanā ca ..10..

परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥
परस् सः अस्तु तन्वा तना च तिस्रः पृथिवीरधः अस्तु विश्वाः ।प्रति शुष्यतु यशः अस्य देवाः यः मा दिवा दिप्सति यः च नक्तम् ॥११॥
paras saḥ astu tanvā tanā ca tisraḥ pṛthivīradhaḥ astu viśvāḥ .prati śuṣyatu yaśaḥ asya devāḥ yaḥ mā divā dipsati yaḥ ca naktam ..11..

सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत्॥१२॥
सु विज्ञानम् चिकितुषे जनाय सत् च असत् च वचसी पस्पृधाते ।तस्योः यत् सत्यम् यतरद् ऋजीयः तत् इद् सोमः अवति हन्ति असत्॥१२॥
su vijñānam cikituṣe janāya sat ca asat ca vacasī paspṛdhāte .tasyoḥ yat satyam yatarad ṛjīyaḥ tat id somaḥ avati hanti asat..12..

न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
न वै उ सोमः वृजिनम् हिनोति न क्षत्रियम् मिथुया धारयन्तम् ।हन्ति रक्षः हन्ति असद्वत्-अन्तम् उभौ इन्द्रस्य प्रसितौ शयाते ॥१३॥
na vai u somaḥ vṛjinam hinoti na kṣatriyam mithuyā dhārayantam .hanti rakṣaḥ hanti asadvat-antam ubhau indrasya prasitau śayāte ..13..

यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने ।किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ॥१४॥
यदि वा अहम् अनृत-देवः अस्मि मोघम् वा देवाम् अपि ऊहे अग्ने ।किम् अस्मभ्यम् जातवेदः हृणीषे द्रोघ-वाचः ते निरृथम् सचन्ताम् ॥१४॥
yadi vā aham anṛta-devaḥ asmi mogham vā devām api ūhe agne .kim asmabhyam jātavedaḥ hṛṇīṣe drogha-vācaḥ te nirṛtham sacantām ..14..

अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य ।अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
अद्य मुरीय यदि यातुधानः अस्मि यदि वा आयुः ततप पुरुषस्य ।अध स वीरैः दशभिः वि यूयाः यः मा मोघम् यातुधान इति आह ॥१५॥
adya murīya yadi yātudhānaḥ asmi yadi vā āyuḥ tatapa puruṣasya .adha sa vīraiḥ daśabhiḥ vi yūyāḥ yaḥ mā mogham yātudhāna iti āha ..15..

यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह ।इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
यः मा अ यातुम् यातुधान इति आह यः वा रक्षाः शिचिः अस्मि इति आह ।इन्द्रः तम् हन्तु महता वधेन विश्वस्य जन्तोः अधम् अस्पदीष्ट ॥१६॥
yaḥ mā a yātum yātudhāna iti āha yaḥ vā rakṣāḥ śiciḥ asmi iti āha .indraḥ tam hantu mahatā vadhena viśvasya jantoḥ adham aspadīṣṭa ..16..

प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना ।वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
प्र या जिगाति खर्गला इव नक्तम् अप द्रुहुः तन्वम् गूहमाना ।वव्रम् अनन्तम् अव सा ग्रावाणः घ्नन्तु रक्षसः उपब्दैः ॥१७॥
pra yā jigāti khargalā iva naktam apa druhuḥ tanvam gūhamānā .vavram anantam ava sā grāvāṇaḥ ghnantu rakṣasaḥ upabdaiḥ ..17..

वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन् ।वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
वि तिष्ठध्वम् मरुतः विक्ष्विच्छत गृभायत रक्षसः सम् पिनष्टन् ।वयः ये भूत्वा पतयन्ति नक्तभिः ये वा रिपः दधिरे देवे अध्वरे ॥१८॥
vi tiṣṭhadhvam marutaḥ vikṣvicchata gṛbhāyata rakṣasaḥ sam pinaṣṭan .vayaḥ ye bhūtvā patayanti naktabhiḥ ye vā ripaḥ dadhire deve adhvare ..18..

प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि ।प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥
प्र वर्तय दिवः अश्मानम् इन्द्र सोम-शितम् मघवन् सम् शिशाधि ।प्राक्तस् अपाक्तस् अधरात् उदक्तस् अभि जहि रक्षसः पर्वतेन ॥१९॥
pra vartaya divaḥ aśmānam indra soma-śitam maghavan sam śiśādhi .prāktas apāktas adharāt udaktas abhi jahi rakṣasaḥ parvatena ..19..

एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०}
एते उ त्ये पतयन्ति श्वयातवः इन्द्रम् दिप्सन्ति दिप्सवः अदाभ्यम् ।शिशीते शक्रः पिशुनेभ्यः वधम् सृजत्-अशनिम् यातुमद्भ्यः ॥२०॥
ete u tye patayanti śvayātavaḥ indram dipsanti dipsavaḥ adābhyam .śiśīte śakraḥ piśunebhyaḥ vadham sṛjat-aśanim yātumadbhyaḥ ..20..

इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥
इन्द्रः यातूनाम् अभवत् पराशरः हविर्मथीनाम् अभ्याविवासताम् ।अभीदु शक्रः परशुः यथा वनम् पात्रा इव भिन्दन् सतस् एतु रक्षसः ॥२१॥
indraḥ yātūnām abhavat parāśaraḥ havirmathīnām abhyāvivāsatām .abhīdu śakraḥ paraśuḥ yathā vanam pātrā iva bhindan satas etu rakṣasaḥ ..21..

उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
उलूक-यातुम् शुशुलूक-यातुम् जहि श्व-यातुम् उत कोक-यातुम् ।सुपर्ण-यातुम् उत गृध्र-यातुम् दृषदा इव प्र मृण रक्षः इन्द्र ॥२२॥
ulūka-yātum śuśulūka-yātum jahi śva-yātum uta koka-yātum .suparṇa-yātum uta gṛdhra-yātum dṛṣadā iva pra mṛṇa rakṣaḥ indra ..22..

मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः ।पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
मा नः रक्षः अभि नड्या-तुमावत् अपोच्छन्तु मिथुना ये किमीदिनः ।पृथिवी नः पार्थिवात् पातु अंहसः अन्तरिक्षम् दिव्यात् पातु अस्मान् ॥२३॥
mā naḥ rakṣaḥ abhi naḍyā-tumāvat apocchantu mithunā ye kimīdinaḥ .pṛthivī naḥ pārthivāt pātu aṃhasaḥ antarikṣam divyāt pātu asmān ..23..

इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥
इन्द्र जहि पुमांसम् यातुधानम् उत स्त्रियम् मायया शाशदानाम् ।विग्रीवासः मूरदेवाः ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम् ॥२४॥
indra jahi pumāṃsam yātudhānam uta striyam māyayā śāśadānām .vigrīvāsaḥ mūradevāḥ ṛdantu mā te dṛśan sūryam uccarantam ..24..

प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११}
प्रति चक्ष्व वि चक्ष्व इन्द्रः च सोम जागृतम् ।रक्षोभ्यः वधम् अस्यतम् अशनिम् यातुमद्भ्यः ॥२५॥
prati cakṣva vi cakṣva indraḥ ca soma jāgṛtam .rakṣobhyaḥ vadham asyatam aśanim yātumadbhyaḥ ..25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In