| |
|

This overlay will guide you through the buttons:

अयं प्रतिसरो मणिर्वीरो वीराय बध्यते ।वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥
अयम् प्रतिसरः मणिः वीरः वीराय बध्यते ।वीर्यवान् सपत्न-हा शूर-वीरः परिपाणः सु मङ्गलः ॥१॥
ayam pratisaraḥ maṇiḥ vīraḥ vīrāya badhyate .vīryavān sapatna-hā śūra-vīraḥ paripāṇaḥ su maṅgalaḥ ..1..

अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥
अयम् मणिः सपत्न-हा सु वीरः सहस्वान् वाजी सहमानः उग्रः ।प्रत्यक्कृत्य आ दूषयन् एति वीरः ॥२॥
ayam maṇiḥ sapatna-hā su vīraḥ sahasvān vājī sahamānaḥ ugraḥ .pratyakkṛtya ā dūṣayan eti vīraḥ ..2..

अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी ।अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥
अनेन इन्द्रः मणिना वृत्र-महन् अनेन असुरान् पराभावयत् मनीषी ।अनेन अजयत् द्यावापृथिवी उभे इमे अनेन अजयत् प्रदिशः चतस्रः ॥३॥
anena indraḥ maṇinā vṛtra-mahan anena asurān parābhāvayat manīṣī .anena ajayat dyāvāpṛthivī ubhe ime anena ajayat pradiśaḥ catasraḥ ..3..

अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥
अयम् स्राक्त्यः मणिः प्रतीवर्तः प्रतिसरः ।ओजस्वान् विमृधः वशी सः अस्मान् पातु सर्वतस् ॥४॥
ayam srāktyaḥ maṇiḥ pratīvartaḥ pratisaraḥ .ojasvān vimṛdhaḥ vaśī saḥ asmān pātu sarvatas ..4..

तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥
तत् अग्निः आह तत् उ सोमः आह बृहस्पतिः सविता तत् इन्द्रः ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैः अजन्तु ॥५॥
tat agniḥ āha tat u somaḥ āha bṛhaspatiḥ savitā tat indraḥ .te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisaraiḥ ajantu ..5..

अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥
अन्तर्दधे द्यावापृथिवी उत अहर् उत सूर्यम् ।ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैः अजन्तु ॥६॥
antardadhe dyāvāpṛthivī uta ahar uta sūryam .te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisaraiḥ ajantu ..6..

ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥
ये स्राक्त्यम् मणिम् जनाः वर्माणि कृण्वते ।सूर्यः इव दिवम् आरुह्य वि कृत्याः बाधते वशी ॥७॥
ye srāktyam maṇim janāḥ varmāṇi kṛṇvate .sūryaḥ iva divam āruhya vi kṛtyāḥ bādhate vaśī ..7..

स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥
स्राक्त्येन मणिना ऋषिणा इव मनीषिणा ।अजैषम् सर्वाः पृतनाः वि मृधः हन्मि रक्षसः ॥८॥
srāktyena maṇinā ṛṣiṇā iva manīṣiṇā .ajaiṣam sarvāḥ pṛtanāḥ vi mṛdhaḥ hanmi rakṣasaḥ ..8..

याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः ।कृत्याः स्वयंकृता या उ चान्येभिराभृताः ।उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
याः कृत्याः आङ्गिरसीः इर्याः कृत्याः आसुरीः इर्याः ।कृत्याः स्वयंकृताः याः उ च अन्येभिः आभृताः ।उभयीः ताः पराः यन्तु परावतः नवतिम् नाव्याः अति ॥९॥
yāḥ kṛtyāḥ āṅgirasīḥ iryāḥ kṛtyāḥ āsurīḥ iryāḥ .kṛtyāḥ svayaṃkṛtāḥ yāḥ u ca anyebhiḥ ābhṛtāḥ .ubhayīḥ tāḥ parāḥ yantu parāvataḥ navatim nāvyāḥ ati ..9..

अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२}
अस्मै मणिम् वर्म बध्नन्तु देवाः इन्द्रः विष्णुः सविता रुद्रः अग्निः ।प्रजापतिः परमेष्ठी विराज् वैश्वानरः ऋषयः च सर्वे ॥१०॥
asmai maṇim varma badhnantu devāḥ indraḥ viṣṇuḥ savitā rudraḥ agniḥ .prajāpatiḥ parameṣṭhī virāj vaiśvānaraḥ ṛṣayaḥ ca sarve ..10..

उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥
उत्तमः अस्य ओषधीनाम् अनड्वान् जगताम् इव व्याघ्रः श्वपदाम् इव ।यम् ऐछाम अविदाम तम् प्रतिस्पाशनम् अन्तितम् ॥११॥
uttamaḥ asya oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva .yam aichāma avidāma tam pratispāśanam antitam ..11..

स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा ।अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥
सः इद् व्याघ्रः भवति अथ उ सिंहः अथ उ वृषा ।अथो सपत्न-कर्शनः यः बिभर्ति इमम् मणिम् ॥१२॥
saḥ id vyāghraḥ bhavati atha u siṃhaḥ atha u vṛṣā .atho sapatna-karśanaḥ yaḥ bibharti imam maṇim ..12..

नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥
न एनम् घ्नन्ति अप्सरसः न गन्धर्वाः न मर्त्याः ।सर्वाः दिशः वि राजति यः बिभर्ति इमम् मणिम् ॥१३॥
na enam ghnanti apsarasaḥ na gandharvāḥ na martyāḥ .sarvāḥ diśaḥ vi rājati yaḥ bibharti imam maṇim ..13..

कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्।अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्।मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥
कश्यपः त्वाम् असृजत कश्यपः त्वा समैरयत्।अबिभस्त्वा इन्द्रः मानुषे बिभ्रत् संश्रेषिणे अजयत्।मणिम् सहस्र-वीर्यम् वर्म देवाः अकृण्वत ॥१४॥
kaśyapaḥ tvām asṛjata kaśyapaḥ tvā samairayat.abibhastvā indraḥ mānuṣe bibhrat saṃśreṣiṇe ajayat.maṇim sahasra-vīryam varma devāḥ akṛṇvata ..14..

यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति ।प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥
यः त्वा कृत्याभिः यः त्वा दीक्षाभिः यज्ञैः यः त्वा जिघांसति ।प्रत्यक्-त्वम् इन्द्र तम् जहि वज्रेण शत-पर्वणा ॥१५॥
yaḥ tvā kṛtyābhiḥ yaḥ tvā dīkṣābhiḥ yajñaiḥ yaḥ tvā jighāṃsati .pratyak-tvam indra tam jahi vajreṇa śata-parvaṇā ..15..

अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः ।प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥
अयम् इद् वै प्रतीवर्तः ओजस्वान् संजयः मणिः ।प्रजाम् धनम् च रक्षतु परिपाणः सु मङ्गलः ॥१६॥
ayam id vai pratīvartaḥ ojasvān saṃjayaḥ maṇiḥ .prajām dhanam ca rakṣatu paripāṇaḥ su maṅgalaḥ ..16..

असपत्नं नो अधरादसपत्नं न उत्तरात्।इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥
असपत्नम् नः अधरात् असपत्नम् नः उत्तरात्।इन्द्र असपत्नम् नः पश्चात् ज्योतिः शूर पुरस्कृधि ॥१७॥
asapatnam naḥ adharāt asapatnam naḥ uttarāt.indra asapatnam naḥ paścāt jyotiḥ śūra puraskṛdhi ..17..

वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥
वर्म मे द्यावापृथिवी वर्म अहर् वर्म सूर्यः ।वर्म मे इन्द्रः च अग्निः च वर्म धाता दधातु मे ॥१८॥
varma me dyāvāpṛthivī varma ahar varma sūryaḥ .varma me indraḥ ca agniḥ ca varma dhātā dadhātu me ..18..

ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥
ऐन्द्राग्नम् वर्म बहुलम् यत् उग्रम् विश्वे देवाः न अतिविध्यन्ति सर्वे ।तत् मे तन्वम् त्रायताम् सर्वतस् बृहत् आयुष्माम् जरदष्टिः यथा असानि ॥१९॥
aindrāgnam varma bahulam yat ugram viśve devāḥ na atividhyanti sarve .tat me tanvam trāyatām sarvatas bṛhat āyuṣmām jaradaṣṭiḥ yathā asāni ..19..

आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये ।इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥
आ मा आरुक्षत् देव-मणिः मह्यै अरिष्टतातये ।इमम् मेथिम् अभिसंविशध्वम् तनू-पानम् त्रि-वरूथम् ओजसे ॥२०॥
ā mā ārukṣat deva-maṇiḥ mahyai ariṣṭatātaye .imam methim abhisaṃviśadhvam tanū-pānam tri-varūtham ojase ..20..

अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥
अस्मिन् इन्द्रः नि दधातु नृम्णम् इमम् देवासः अभिसंविशध्वम् ।दीर्घ-आयु-त्वाय शत-शारदाय आयुष्मान् जरदष्टिः यथा असत्॥२१॥
asmin indraḥ ni dadhātu nṛmṇam imam devāsaḥ abhisaṃviśadhvam .dīrgha-āyu-tvāya śata-śāradāya āyuṣmān jaradaṣṭiḥ yathā asat..21..

स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः ।सोमपा अभयङ्करो वृषा ॥२२॥
स्वस्ति-दाः विशाम् पतिः वृत्र-हा विमृधः वशी ।इन्द्रः बध्नातु ते मणिम् जिगीवाम् अपराजितः ।सोम-पाः अभयङ्करः वृषा ॥२२॥
svasti-dāḥ viśām patiḥ vṛtra-hā vimṛdhaḥ vaśī .indraḥ badhnātu te maṇim jigīvām aparājitaḥ .soma-pāḥ abhayaṅkaraḥ vṛṣā ..22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In