| |
|

This overlay will guide you through the buttons:

यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥
यौ ते माता उन्ममार्ज जातायाः पति-वेदनौ ।दुर्णामा तत्र मा गृधदलिंशः उत वत्सपः ॥१॥
yau te mātā unmamārja jātāyāḥ pati-vedanau .durṇāmā tatra mā gṛdhadaliṃśaḥ uta vatsapaḥ ..1..

पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥
पलाल-अनुपलालौ शर्कुम् कोकम् मलिम्लुचम् पलीजकम् ।आश्रेषम् वव्रिवाससम् ऋक्षग्रीवम् प्रमीलिनम् ॥२॥
palāla-anupalālau śarkum kokam malimlucam palījakam .āśreṣam vavrivāsasam ṛkṣagrīvam pramīlinam ..2..

मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
मा सम् वृतः मा उप सृपः ऊरू मा अव सृपः अन्तरा ।कृणोमि अस्यै भेषजम् बजम् दुर्णाम-चातनम् ॥३॥
mā sam vṛtaḥ mā upa sṛpaḥ ūrū mā ava sṛpaḥ antarā .kṛṇomi asyai bheṣajam bajam durṇāma-cātanam ..3..

दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः ।अरायान् अप हन्मः सुनामा स्त्रैणमिच्छताम् ॥४॥
दुर्णामा च सुनामा च उभा सम्वृतम् इच्छतः ।अरायान् अप हन्मः सुनामा स्त्रैणम् इच्छताम् ॥४॥
durṇāmā ca sunāmā ca ubhā samvṛtam icchataḥ .arāyān apa hanmaḥ sunāmā straiṇam icchatām ..4..

यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः ।अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥
यः कृष्णः केशी असुरः स्तम्ब-जः उत तुण्डिकः ।अरायान् अस्याः मुष्काभ्याम् भंससः अप हन्मसि ॥५॥
yaḥ kṛṣṇaḥ keśī asuraḥ stamba-jaḥ uta tuṇḍikaḥ .arāyān asyāḥ muṣkābhyām bhaṃsasaḥ apa hanmasi ..5..

अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥
अनुजिघ्रम् प्रमृशन्तम् क्रव्यादम् उत रेरिहम् ।अरायाम् छ्वकिष्किणः बजः पिङ्गः अनीनशत्॥६॥
anujighram pramṛśantam kravyādam uta reriham .arāyām chvakiṣkiṇaḥ bajaḥ piṅgaḥ anīnaśat..6..

यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥
यः त्वा स्वप्ने निपद्यते भ्राता भूत्वा पिता इव च ।बजः तान् सहताम् इतस् क्लीब-रूपान् तिरीटिनः ॥७॥
yaḥ tvā svapne nipadyate bhrātā bhūtvā pitā iva ca .bajaḥ tān sahatām itas klība-rūpān tirīṭinaḥ ..7..

यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् ।छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥
यः त्वा स्वपन्तीम् त्सरति यः त्वा दिप्सति जाग्रतीम् ।छायाम् इव प्र तान् सूर्यः परिक्रामन् अनीनशत्॥८॥
yaḥ tvā svapantīm tsarati yaḥ tvā dipsati jāgratīm .chāyām iva pra tān sūryaḥ parikrāman anīnaśat..8..

यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् ।तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥
यः कृणोति मृत-वत्साम् अवतोकाम् इमाम् स्त्रियम् ।तम् ओषधे त्वम् नाशय अस्याः कमल-मञ्जिवम् ॥९॥
yaḥ kṛṇoti mṛta-vatsām avatokām imām striyam .tam oṣadhe tvam nāśaya asyāḥ kamala-mañjivam ..9..

ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४}
ये शालाः परिनृत्यन्ति सायम् गर्दभ-नादिनः ।कुसूलाः ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।तान् ओषधे त्वम् गन्धेन विषूचीनान् वि नाशय ॥१०॥
ye śālāḥ parinṛtyanti sāyam gardabha-nādinaḥ .kusūlāḥ ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ .tān oṣadhe tvam gandhena viṣūcīnān vi nāśaya ..10..

ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति ।क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥
ये कुकुन्धाः कुकिरभाः कृत्तीः दूर्शानि बिभ्रति ।क्लीबाः इव प्रनृत्यन्तः वने ये कुर्वते घोषम् तान् इतस् नाशयामसि ॥११॥
ye kukundhāḥ kukirabhāḥ kṛttīḥ dūrśāni bibhrati .klībāḥ iva pranṛtyantaḥ vane ye kurvate ghoṣam tān itas nāśayāmasi ..11..

ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः ।अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥
ये सूर्यम् न तितिक्षन्ते आतपन्तम् अमुम् दिवः ।अरायान् बस्त-वासिनः दुर्गन्धीन् लोहित-आस्यान् मककान् नाशयामसि ॥१२॥
ye sūryam na titikṣante ātapantam amum divaḥ .arāyān basta-vāsinaḥ durgandhīn lohita-āsyān makakān nāśayāmasi ..12..

य आत्मानमतिमात्रमंस आधाय बिभ्रति ।स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥
ये आत्मानम् अतिमात्रम् अंसे आधाय बिभ्रति ।स्त्रीणाम् श्रोणि-प्रतोदिनः इन्द्र रक्षांसि नाशय ॥१३॥
ye ātmānam atimātram aṃse ādhāya bibhrati .strīṇām śroṇi-pratodinaḥ indra rakṣāṃsi nāśaya ..13..

ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥
ये पूर्वे बध्वः यन्ति हस्ते शृङ्गानि बिभ्रतः ।आपाकेस्थाः प्रहासिनः स्तम्बे ये कुर्वते ज्योतिः तान् इतस् नाशयामसि ॥१४॥
ye pūrve badhvaḥ yanti haste śṛṅgāni bibhrataḥ .āpākesthāḥ prahāsinaḥ stambe ye kurvate jyotiḥ tān itas nāśayāmasi ..14..

येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ।तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥
येषाम् पश्चात् प्रपदानि पुरस् पार्ष्णीः पुरस् मुखा ।खल-जाः शक-धूम-जाः उरुण्डाः ये च मट्मटाः कुम्भ-मुष्काः अयाशवः ।तान् अस्याः ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥
yeṣām paścāt prapadāni puras pārṣṇīḥ puras mukhā .khala-jāḥ śaka-dhūma-jāḥ uruṇḍāḥ ye ca maṭmaṭāḥ kumbha-muṣkāḥ ayāśavaḥ .tān asyāḥ brahmaṇaspate pratībodhena nāśaya ..15..

पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः ।अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥
पर्यस्त-अक्षाः अप्रचङ्कशाः अस्त्रैणाः सन्तु पण्डगाः ।अव भेषज पादय यः इमाम् संविवृत्सति अपतिः स्व-पतिम् स्त्रियम् ॥१६॥
paryasta-akṣāḥ apracaṅkaśāḥ astraiṇāḥ santu paṇḍagāḥ .ava bheṣaja pādaya yaḥ imām saṃvivṛtsati apatiḥ sva-patim striyam ..16..

उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥
उद्धर्षिणम् मुनि-केशम् जम्भयन्तम् मरीमृशम् ।उपेषन्तम् उदुम्बलम् तुण्डेलम् उत शालुडम् ।पदा प्र विध्य पार्ष्ण्या स्थालीम् गौः इव स्पन्दना ॥१७॥
uddharṣiṇam muni-keśam jambhayantam marīmṛśam .upeṣantam udumbalam tuṇḍelam uta śāluḍam .padā pra vidhya pārṣṇyā sthālīm gauḥ iva spandanā ..17..

यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥
यः ते गर्भम् प्रतिमृशात् जातम् वा मारयाति ते ।पिङ्गः तम् उग्र-धन्वा कृणोतु हृदयाविधम् ॥१८॥
yaḥ te garbham pratimṛśāt jātam vā mārayāti te .piṅgaḥ tam ugra-dhanvā kṛṇotu hṛdayāvidham ..18..

ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥
ये अम्नस् जतान् मारयन्ति सूतिकाः अनुशेरते ।स्त्री-भागान् पिङ्गः गन्धर्वान् वातः अभ्रम् इव अजतु ॥१९॥
ye amnas jatān mārayanti sūtikāḥ anuśerate .strī-bhāgān piṅgaḥ gandharvān vātaḥ abhram iva ajatu ..19..

परिसृष्टं धरयतु यद्धितं माव पादि तत्।गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५}
परिसृष्टम् धरयतु यत् हितम् मा अव पादि तत्।गर्भम् ते उग्रौ रक्षताम् भेषजौ नीवि-भार्यौ ॥२०॥
parisṛṣṭam dharayatu yat hitam mā ava pādi tat.garbham te ugrau rakṣatām bheṣajau nīvi-bhāryau ..20..

पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्।प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
पवीनसात् तङ्गल्वात् छायकात् उत नग्नकात्।प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
pavīnasāt taṅgalvāt chāyakāt uta nagnakāt.prajāyai patye tvā piṅgaḥ pari pātu kimīdinaḥ ..21..

द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥
द्वि-आस्यात् चतुर्-अक्षात् पञ्च-पदात् अनङ्गुरेः ।वृन्तात् अभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥
dvi-āsyāt catur-akṣāt pañca-padāt anaṅgureḥ .vṛntāt abhi prasarpataḥ pari pāhi varīvṛtāt..22..

य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥
ये आमम् मांसम् अदन्ति पौरुषेयम् च ये क्रविः ।गर्भान् खादन्ति केशवाः तान् इतस् नाशयामसि ॥२३॥
ye āmam māṃsam adanti pauruṣeyam ca ye kraviḥ .garbhān khādanti keśavāḥ tān itas nāśayāmasi ..23..

ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥
ये सूर्यात् परिसर्पन्ति स्नुषा इव श्वशुरात् अधि ।बजः च तेषाम् पिङ्गः च हृदये अधि नि विध्यताम् ॥२४॥
ye sūryāt parisarpanti snuṣā iva śvaśurāt adhi .bajaḥ ca teṣām piṅgaḥ ca hṛdaye adhi ni vidhyatām ..24..

पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥
पिङ्ग रक्ष जायमानम् मा पुमांसम् स्त्रियम् क्रन् ।आण्ड-अदः गर्भान् मा दभन् बाधस्व इतस् किमीदिनः ॥२५॥
piṅga rakṣa jāyamānam mā pumāṃsam striyam kran .āṇḍa-adaḥ garbhān mā dabhan bādhasva itas kimīdinaḥ ..25..

अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६}
अप्रजास्त्वम् मार्तवत्सम् आद्रोदम् अघम् आवयम् ।वृक्षात् इव स्रजम् कृत्वा अप्रिये प्रति मुञ्च तत्॥२६॥
aprajāstvam mārtavatsam ādrodam agham āvayam .vṛkṣāt iva srajam kṛtvā apriye prati muñca tat..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In