| |
|

This overlay will guide you through the buttons:

या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥
याः बभ्रवः याः च शुक्राः रोहिणीः उत पृश्नयः ।असिक्नीः कृष्णाः ओषधीः सर्वाः अछावदामसि ॥१॥
yāḥ babhravaḥ yāḥ ca śukrāḥ rohiṇīḥ uta pṛśnayaḥ .asiknīḥ kṛṣṇāḥ oṣadhīḥ sarvāḥ achāvadāmasi ..1..

त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि ।यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
त्रायन्ताम् इमम् पुरुसम् यक्ष्मात् देव-इषितात् अधि ।यासाम् द्यौः पिता पृथिवी माता समुद्रः मूलम् वीरुधाम् बभूव ॥२॥
trāyantām imam purusam yakṣmāt deva-iṣitāt adhi .yāsām dyauḥ pitā pṛthivī mātā samudraḥ mūlam vīrudhām babhūva ..2..

आपो अग्रं दिव्या ओषधयः ।तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥
आपः अग्रम् दिव्याः ओषधयः ।ताः ते यक्ष्म-मेनस्यम् अङ्गात् अङ्गात् अनीनशन् ॥३॥
āpaḥ agram divyāḥ oṣadhayaḥ .tāḥ te yakṣma-menasyam aṅgāt aṅgāt anīnaśan ..3..

प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
प्रस्तृणती स्तम्बिनीः एक-शुङ्गाः प्रतन्वतीः ओषधीः आ वदामि ।अंशुमतीः कण्डिनीः याः विशाखाः ह्वयामि ते वीरुधः वैश्वदेवीः उग्राः पुरुष-जीवनीः ॥४॥
prastṛṇatī stambinīḥ eka-śuṅgāḥ pratanvatīḥ oṣadhīḥ ā vadāmi .aṃśumatīḥ kaṇḍinīḥ yāḥ viśākhāḥ hvayāmi te vīrudhaḥ vaiśvadevīḥ ugrāḥ puruṣa-jīvanīḥ ..4..

यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥
यत् वः सहः सहमानाः वीर्यम् यत् च वः बलम् ।तेन इमम् अस्मात् यक्ष्मात् पुरुषम् मुञ्चत औषधीः अथो कृणोमि भेषजम् ॥५॥
yat vaḥ sahaḥ sahamānāḥ vīryam yat ca vaḥ balam .tena imam asmāt yakṣmāt puruṣam muñcata auṣadhīḥ atho kṛṇomi bheṣajam ..5..

जीवलां नघारिषां जीवन्तीमोषधीमहम् ।अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
जीवलाम् नघारिषाम् जीवन्तीम् ओषधीम् अहम् ।अरुन्धतीम् उन्नयन्तीम् पुष्पाम् मधुमतीम् इह हुवे अस्मै अरिष्टतातये ॥६॥
jīvalām naghāriṣām jīvantīm oṣadhīm aham .arundhatīm unnayantīm puṣpām madhumatīm iha huve asmai ariṣṭatātaye ..6..

इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
इह आ यन्तु प्रचेतसः मेदिनीः वचसः मम ।यथा इमम् पारयामसि पुरुषम् दुरितात् अधि ॥७॥
iha ā yantu pracetasaḥ medinīḥ vacasaḥ mama .yathā imam pārayāmasi puruṣam duritāt adhi ..7..

अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥
अग्नेः घासः अपाम् गर्भः याः रोहन्ति पुनर्णवाः ।ध्रुवाः सहस्र-नाम्नीः भेषजीः सन्तु आभृताः ॥८॥
agneḥ ghāsaḥ apām garbhaḥ yāḥ rohanti punarṇavāḥ .dhruvāḥ sahasra-nāmnīḥ bheṣajīḥ santu ābhṛtāḥ ..8..

अवकोल्बा उदकात्मान ओषधयः ।व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
अवक-उल्बाः उदक-आत्मानः ओषधयः ।व्यृषन्तु दुरितम् तीक्ष्ण-शृङ्ग्यः ॥९॥
avaka-ulbāḥ udaka-ātmānaḥ oṣadhayaḥ .vyṛṣantu duritam tīkṣṇa-śṛṅgyaḥ ..9..

उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः ।अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७}
उन्मुञ्चन्तीः विवरुणाः उग्राः याः विष-दूषणीः ।अथ उ बलास-नाशनीः कृत्या-दूषणीः च याः ताः इह आ यन्तु ओषधीः ॥१०॥
unmuñcantīḥ vivaruṇāḥ ugrāḥ yāḥ viṣa-dūṣaṇīḥ .atha u balāsa-nāśanīḥ kṛtyā-dūṣaṇīḥ ca yāḥ tāḥ iha ā yantu oṣadhīḥ ..10..

अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥
अपक्रीताः सहीयसीः वीरुधः याः अभिष्टुताः ।त्रायन्ताम् अस्मिन् ग्रामे गाम् अश्वम् पुरुषम् पशुम् ॥११॥
apakrītāḥ sahīyasīḥ vīrudhaḥ yāḥ abhiṣṭutāḥ .trāyantām asmin grāme gām aśvam puruṣam paśum ..11..

मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥
मधुमत् मूलम् मधुमत् अग्रमासाम् मधुमत् मध्यम् वीरुधाम् बभूव ।मधुमत् पर्णम् मधुमत् पुष्पम् आसाम् मधोः सम्भक्ताः अमृतस्य भक्षः घृतम् अन्नम् दुह्रताम् गो-पुरोगवम् ॥१२॥
madhumat mūlam madhumat agramāsām madhumat madhyam vīrudhām babhūva .madhumat parṇam madhumat puṣpam āsām madhoḥ sambhaktāḥ amṛtasya bhakṣaḥ ghṛtam annam duhratām go-purogavam ..12..

यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥
यावतीः कियतीः च इमाः पृथिव्याम् अधि ओषधीः ।ताः मा सहस्रपर्ण्यः मृत्योः मुञ्चन्तु अंहसः ॥१३॥
yāvatīḥ kiyatīḥ ca imāḥ pṛthivyām adhi oṣadhīḥ .tāḥ mā sahasraparṇyaḥ mṛtyoḥ muñcantu aṃhasaḥ ..13..

वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥
वैयाघ्रः मणिः वीरुधाम् त्रायमानः अभिशस्ति-पाः ।अमीवाः सर्वाः रक्षांसि अप हन्तु अधि दूरम् अस्मत्॥१४॥
vaiyāghraḥ maṇiḥ vīrudhām trāyamānaḥ abhiśasti-pāḥ .amīvāḥ sarvāḥ rakṣāṃsi apa hantu adhi dūram asmat..14..

सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
सिंहस्य इव स्तनथोः सम् विजन्ते अग्नेः इव विजन्ते आभृताभ्यः ।गवाम् यक्ष्मः पुरुषाणाम् वीरुद्भिः अतिनुत्तः नाव्याः एतु स्रोत्याः ॥१५॥
siṃhasya iva stanathoḥ sam vijante agneḥ iva vijante ābhṛtābhyaḥ .gavām yakṣmaḥ puruṣāṇām vīrudbhiḥ atinuttaḥ nāvyāḥ etu srotyāḥ ..15..

मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥
मुमुचानाः ओषधयः अग्नेः वैश्वानरात् अधि ।भूमिम् संतन्वतीः इरित यासाम् राजा वनस्पतिः ॥१६॥
mumucānāḥ oṣadhayaḥ agneḥ vaiśvānarāt adhi .bhūmim saṃtanvatīḥ irita yāsām rājā vanaspatiḥ ..16..

या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
याः रोहन्ति आङ्गिरसीः पर्वतेषु समेषु च ।ताः नः पयस्वतीः शिवाः ओषधीः सन्तु शम् हृदे ॥१७॥
yāḥ rohanti āṅgirasīḥ parvateṣu sameṣu ca .tāḥ naḥ payasvatīḥ śivāḥ oṣadhīḥ santu śam hṛde ..17..

याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥
याः च अहम् वेद वीरुधः याः च पश्यामि चक्षुषा ।अज्ञाताः जानीमः च याः यासु विद्म च संभृतम् ॥१८॥
yāḥ ca aham veda vīrudhaḥ yāḥ ca paśyāmi cakṣuṣā .ajñātāḥ jānīmaḥ ca yāḥ yāsu vidma ca saṃbhṛtam ..18..

सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥
सर्वाः समग्राः ओषधीः बोधन्तु वचसः मम ।यथा इमम् पारयामसि पुरुषम् दुरितात् अधि ॥१९॥
sarvāḥ samagrāḥ oṣadhīḥ bodhantu vacasaḥ mama .yathā imam pārayāmasi puruṣam duritāt adhi ..19..

अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८}
अश्वत्थः दर्भः वीरुधाम् सोमः राजा अमृतम् हविः ।व्रीहिः यवः च भेषजौ दिवसि पुत्रौ अमर्त्यौ ॥२०॥
aśvatthaḥ darbhaḥ vīrudhām somaḥ rājā amṛtam haviḥ .vrīhiḥ yavaḥ ca bheṣajau divasi putrau amartyau ..20..

उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
उज्जिहीध्वे स्तनयति अभिक्रन्दति ओषधीः ।यदा वः पृश्नि-मातरः पर्जन्यः रेतसा अवति ॥२१॥
ujjihīdhve stanayati abhikrandati oṣadhīḥ .yadā vaḥ pṛśni-mātaraḥ parjanyaḥ retasā avati ..21..

तस्यामृतस्येमं बलं पुरुषं पययामसि ।अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥
तस्य अमृतस्य इमम् बलम् पुरुषम् पययामसि ।अथ उ कृणोमि भेषजम् यथा असत् शतहायनः ॥२२॥
tasya amṛtasya imam balam puruṣam payayāmasi .atha u kṛṇomi bheṣajam yathā asat śatahāyanaḥ ..22..

वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥
वराहः वेद वीरुधम् नकुलः वेद भेषजीम् ।सर्पाः गन्धर्वाः याः विदुः ताः अस्मै अवसे हुवे ॥२३॥
varāhaḥ veda vīrudham nakulaḥ veda bheṣajīm .sarpāḥ gandharvāḥ yāḥ viduḥ tāḥ asmai avase huve ..23..

याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः ।वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥
याः सुपर्णाः आङ्गिरसीः दिव्याः याः रघतः विदुः ।वयांसि हंसाः याः विदुः याः च सर्वे पतत्रिणः ।मृगाः याः विदुः ओषधीः ताः अस्मै अवसे हुवे ॥२४॥
yāḥ suparṇāḥ āṅgirasīḥ divyāḥ yāḥ raghataḥ viduḥ .vayāṃsi haṃsāḥ yāḥ viduḥ yāḥ ca sarve patatriṇaḥ .mṛgāḥ yāḥ viduḥ oṣadhīḥ tāḥ asmai avase huve ..24..

यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥२५॥
यावतीनाम् ओषधीनाम् गावः प्राश्नन्ति अघ्न्याः यवतीनाम् अज-अवयः ।तावतीः तुभ्यम् ओषधीः शर्म यच्छन्तु आभृताः ॥२५॥
yāvatīnām oṣadhīnām gāvaḥ prāśnanti aghnyāḥ yavatīnām aja-avayaḥ .tāvatīḥ tubhyam oṣadhīḥ śarma yacchantu ābhṛtāḥ ..25..

यावतीषु मनुष्या भेषजं भिषजो विदुः ।तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥
यावतीषु मनुष्याः भेषजम् भिषजः विदुः ।तावतीः विश्व-भेषजीः जीराः भरामि त्वाम् अभि ॥२६॥
yāvatīṣu manuṣyāḥ bheṣajam bhiṣajaḥ viduḥ .tāvatīḥ viśva-bheṣajīḥ jīrāḥ bharāmi tvām abhi ..26..

पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥
पुष्पवतीः प्रसूमतीः फलिनीः अफलाः उत ।सम् मातरः इव दुह्राम् अस्मै अरिष्टतातये ॥२७॥
puṣpavatīḥ prasūmatīḥ phalinīḥ aphalāḥ uta .sam mātaraḥ iva duhrām asmai ariṣṭatātaye ..27..

उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९}
उत्त्वा अहार्षम् पञ्च-शलात् अथ उ दश-शलात् उत ।अथो यमस्य पड्वीशात् विश्वस्मात् देव-किल्बिषात्॥२८॥
uttvā ahārṣam pañca-śalāt atha u daśa-śalāt uta .atho yamasya paḍvīśāt viśvasmāt deva-kilbiṣāt..28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In