| |
|

This overlay will guide you through the buttons:

इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
इन्द्रः मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।यथा हनाम सेनाः अमित्राणाम् सहस्रशस् ॥१॥
indraḥ manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ .yathā hanāma senāḥ amitrāṇām sahasraśas ..1..

पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥
पूति-रज्जुः उपध्मानी पूतिम् सेनाम् कृणोतु अमूम् ।धूमम् अग्निम् परादृश्य अ मित्राः हृत्स्व आ दधताम् भयम् ॥२॥
pūti-rajjuḥ upadhmānī pūtim senām kṛṇotu amūm .dhūmam agnim parādṛśya a mitrāḥ hṛtsva ā dadhatām bhayam ..2..

अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥
अमून् अश्वत्थ निः शृणीहि खाद अमून् खदिर अजिरम् ।ताजत् भङ्गः इव भजन्ताम् हन्तु एनान् वधकः वधैः ॥३॥
amūn aśvattha niḥ śṛṇīhi khāda amūn khadira ajiram .tājat bhaṅgaḥ iva bhajantām hantu enān vadhakaḥ vadhaiḥ ..3..

परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥
परुषान् अमून् परुष-आह्वः कृणोतु हन्तु एनान् वधकः वधैः ।क्षिप्रम् शरः इव भजन्ताम् बृहत्-जालेन संदिताः ॥४॥
paruṣān amūn paruṣa-āhvaḥ kṛṇotu hantu enān vadhakaḥ vadhaiḥ .kṣipram śaraḥ iva bhajantām bṛhat-jālena saṃditāḥ ..4..

अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥
अन्तरिक्षम् जालम् आसीत् जाल-दण्डाः दिशः महीः ।तेन अभिधाय दस्यूनाम् शक्रः सेनाम् अपावपत्॥५॥
antarikṣam jālam āsīt jāla-daṇḍāḥ diśaḥ mahīḥ .tena abhidhāya dasyūnām śakraḥ senām apāvapat..5..

बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥
बृहत् हि जालम् बृहतः शक्रस्य वाजिनीवतः ।तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमः चन एषाम् ॥६॥
bṛhat hi jālam bṛhataḥ śakrasya vājinīvataḥ .tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaḥ cana eṣām ..6..

बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥
बृहत् ते जालम् बृहतः इन्द्र शूर सहस्र-अर्घस्य शत-वीर्यस्य ।तेन शतम् सहस्रम् अयुतम् न्यर्बुदम् जघान शक्रः दस्यूनाम् अभिधाय सेनया ॥७॥
bṛhat te jālam bṛhataḥ indra śūra sahasra-arghasya śata-vīryasya .tena śatam sahasram ayutam nyarbudam jaghāna śakraḥ dasyūnām abhidhāya senayā ..7..

अयं लोको जालमासीच्छक्रस्य महतो महान् ।तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥
अयम् लोकः जालम् आसीत् शक्रस्य महतः महान् ।तेन अहम् इन्द्रजालेन अमून् तमसा अभि दधामि सर्वान् ॥८॥
ayam lokaḥ jālam āsīt śakrasya mahataḥ mahān .tena aham indrajālena amūn tamasā abhi dadhāmi sarvān ..8..

सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥
सेदिः उग्रा व्यृद्धिः आर्तिः च अनपवाचना ।श्रमः तन्द्रीः च मोहः च तैः अमून् अभि दधामि सर्वान् ॥९॥
sediḥ ugrā vyṛddhiḥ ārtiḥ ca anapavācanā .śramaḥ tandrīḥ ca mohaḥ ca taiḥ amūn abhi dadhāmi sarvān ..9..

मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०}
मृत्यवे अमून् प्र यच्छामि मृत्यु-पाशैः अमी सिताः ।मृत्योः ये अघलाः दूताः तेभ्यः एनान् प्रति नयामि बद्ध्वा ॥१०॥
mṛtyave amūn pra yacchāmi mṛtyu-pāśaiḥ amī sitāḥ .mṛtyoḥ ye aghalāḥ dūtāḥ tebhyaḥ enān prati nayāmi baddhvā ..10..

नयतामून् मृत्युदूता यमदूता अपोम्भत ।परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥
नयत अमून् मृत्यु-दूताः यम-दूताः अपोम्भत ।परःसहस्राः हन्यन्ताम् मत्यम् भवस्य ॥११॥
nayata amūn mṛtyu-dūtāḥ yama-dūtāḥ apombhata .paraḥsahasrāḥ hanyantām matyam bhavasya ..11..

साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥
साध्याः एकम् जाल-दण्डम् उद्यत्य यन्ति ओजसा ।रुद्राः एकम् वसवः एकम् आदित्यैः एकः उद्यतः ॥१२॥
sādhyāḥ ekam jāla-daṇḍam udyatya yanti ojasā .rudrāḥ ekam vasavaḥ ekam ādityaiḥ ekaḥ udyataḥ ..12..

विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥
विश्वे देवाः उपरिष्टात् उब्जन्तः यन्तु ओजसा ।मध्येन घ्नन्तः यन्तु सेनाम् अङ्गिरसः महीम् ॥१३॥
viśve devāḥ upariṣṭāt ubjantaḥ yantu ojasā .madhyena ghnantaḥ yantu senām aṅgirasaḥ mahīm ..13..

वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥
वनस्पतीन् वानस्पत्यान् ओषधीः उत वीरुधः ।द्विपाद् चतुष्पाद् इष्णामि यथा सेनाम् अमूम् हनन् ॥१४॥
vanaspatīn vānaspatyān oṣadhīḥ uta vīrudhaḥ .dvipād catuṣpād iṣṇāmi yathā senām amūm hanan ..14..

गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥
गन्धर्व-अप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।दृष्टान् अदृष्टान् इष्णामि यथा सेनाम् अमूम् हनन् ॥१५॥
gandharva-apsarasaḥ sarpān devān puṇyajanān pitṝn .dṛṣṭān adṛṣṭān iṣṇāmi yathā senām amūm hanan ..15..

इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
इमे उप्ताः मृत्यु-पाशाः यान् आक्रम्य न मुच्यसे ।अमुष्याः हन्तु सेनायाः इदम् कूटम् सहस्रशस् ॥१६॥
ime uptāḥ mṛtyu-pāśāḥ yān ākramya na mucyase .amuṣyāḥ hantu senāyāḥ idam kūṭam sahasraśas ..16..

घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥
घर्मः समिद्धः अग्निना अयम् होमः सहस्रहः ।भवः च पृश्निबाहुः च शर्व सेनाम् अमूम् हतम् ॥१७॥
gharmaḥ samiddhaḥ agninā ayam homaḥ sahasrahaḥ .bhavaḥ ca pṛśnibāhuḥ ca śarva senām amūm hatam ..17..

मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥
मृत्योः आषमा पद्यन्ताम् क्षुधम् सेदिम् वधम् भयम् ।इन्द्रः च अक्षु-जालाभ्याम् शर्व सेनाम् अमूम् हतम् ॥१८॥
mṛtyoḥ āṣamā padyantām kṣudham sedim vadham bhayam .indraḥ ca akṣu-jālābhyām śarva senām amūm hatam ..18..

पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥
पराजिताः प्र त्रसत अमित्राः नुत्ताः धावत ब्रह्मणा ।बृहस्पति-प्रनुत्तानाम् मा अमीषाम् मोचि कश्चन ॥१९॥
parājitāḥ pra trasata amitrāḥ nuttāḥ dhāvata brahmaṇā .bṛhaspati-pranuttānām mā amīṣām moci kaścana ..19..

अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥
अव पद्यन्ताम् एषाम् आयुधानि मा शकन् प्रतिधामिषुम् ।अथ एषाम् बहु बिभ्यताम् इषवः घ्नन्तु मर्मणि ॥२०॥
ava padyantām eṣām āyudhāni mā śakan pratidhāmiṣum .atha eṣām bahu bibhyatām iṣavaḥ ghnantu marmaṇi ..20..

सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
सम् क्रोशताम् एनान् द्यावापृथिवी सम् अन्तरिक्षम् सह देवताभिः ।मा ज्ञातारम् मा प्रतिष्ठाम् विदन्त मिथस् विघ्नानाः उप यन्तु मृत्युम् ॥२१॥
sam krośatām enān dyāvāpṛthivī sam antarikṣam saha devatābhiḥ .mā jñātāram mā pratiṣṭhām vidanta mithas vighnānāḥ upa yantu mṛtyum ..21..

दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः ।द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥
दिशः चतस्रः अश्वतर्यः देव-रथस्य पुरोडाशाः शफाः अन्तरिक्षम् उद्धिः ।द्यावापृथिवी पक्षसी ऋतवः अभीशवः अन्तर्देशाः किम्कराः वाच् परिरथ्यम् ॥२२॥
diśaḥ catasraḥ aśvataryaḥ deva-rathasya puroḍāśāḥ śaphāḥ antarikṣam uddhiḥ .dyāvāpṛthivī pakṣasī ṛtavaḥ abhīśavaḥ antardeśāḥ kimkarāḥ vāc parirathyam ..22..

संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥
संवत्सरः रथः परिवत्सरः रथोपस्थः विराज् ईषा अग्निः रथ-मुखम् ।इन्द्रः सव्यष्ठाः चन्द्रमाः सारथिः ॥२३॥
saṃvatsaraḥ rathaḥ parivatsaraḥ rathopasthaḥ virāj īṣā agniḥ ratha-mukham .indraḥ savyaṣṭhāḥ candramāḥ sārathiḥ ..23..

इतो जयेतो वि जय सं जय जय स्वाहा ।इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१}
इतस् जय इतस् वि जय सम् जय जय स्वाहा ।इमे जयन्तु परा अमी जयन्ताम् स्वाहा एभ्यः दुराहा अमीभ्यः ।नील-लोहितेन अमून् अभ्यवतनोमि ॥२४॥
itas jaya itas vi jaya sam jaya jaya svāhā .ime jayantu parā amī jayantām svāhā ebhyaḥ durāhā amībhyaḥ .nīla-lohitena amūn abhyavatanomi ..24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In