| |
|

This overlay will guide you through the buttons:

कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः ।वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥
कुतस् तौ जातौ कतमः सः अर्धः कस्मात् लोकात् कतमस्याः पृथिव्याः ।वत्सौ विराजः सलिलात् उदैताम् तौ त्वा पृच्छामि कतरेण दुग्धा ॥१॥
kutas tau jātau katamaḥ saḥ ardhaḥ kasmāt lokāt katamasyāḥ pṛthivyāḥ .vatsau virājaḥ salilāt udaitām tau tvā pṛcchāmi katareṇa dugdhā ..1..

यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः ।वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥
यः अक्रन्दयत् सलिलम् महित्वा योनिम् कृत्वा त्रि-भुजम् शयानः ।वत्सः कामदुघः विराजः स गुहा चक्रे तन्वः पराचैस् ॥२॥
yaḥ akrandayat salilam mahitvā yonim kṛtvā tri-bhujam śayānaḥ .vatsaḥ kāmadughaḥ virājaḥ sa guhā cakre tanvaḥ parācais ..2..

यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् ।ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥
यानि त्रीणि बृहन्ति येषाम् चतुर्थम् वियुनक्ति वाचम् ।ब्रह्म एनत् विद्यात् तपसा विपश्चित् यस्मिन् एकम् युज्यते यस्मिन् एकम् ॥३॥
yāni trīṇi bṛhanti yeṣām caturtham viyunakti vācam .brahma enat vidyāt tapasā vipaścit yasmin ekam yujyate yasmin ekam ..3..

बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता ।बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥४॥
बृहतः परि सामानि षष्ठात् पञ्च अधि निर्मिता ।बृहत् बृहत्या निर्मितम् कुतस् अधि बृहती मिता ॥४॥
bṛhataḥ pari sāmāni ṣaṣṭhāt pañca adhi nirmitā .bṛhat bṛhatyā nirmitam kutas adhi bṛhatī mitā ..4..

बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।माया ह जज्ञे मायाया मायाया मातली परि ॥५॥
बृहती परि मात्रायाः मातुः मात्रा अधि निर्मिता ।माया ह जज्ञे मायायाः मायायाः मातली परि ॥५॥
bṛhatī pari mātrāyāḥ mātuḥ mātrā adhi nirmitā .māyā ha jajñe māyāyāḥ māyāyāḥ mātalī pari ..5..

वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः ।ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥
वैश्वानरस्य प्रतिमा उपरि द्यौः यावत् रोदसी विबबाधे अग्निः ।ततस् षष्ठात् आ अमुतस् यन्ति स्तोमाः उदितः यन्ति अभि षष्ठम् अह्नः ॥६॥
vaiśvānarasya pratimā upari dyauḥ yāvat rodasī vibabādhe agniḥ .tatas ṣaṣṭhāt ā amutas yanti stomāḥ uditaḥ yanti abhi ṣaṣṭham ahnaḥ ..6..

षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च ।विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥
षट् त्वा पृच्छामः ऋषयः कश्यप इमे त्वम् हि युक्तम् युयुक्षे योग्यम् च ।विराजम् आहुः ब्रह्मणः पितरम् ताम् नः वि धेहि यतिधा सखिभ्यः ॥७॥
ṣaṭ tvā pṛcchāmaḥ ṛṣayaḥ kaśyapa ime tvam hi yuktam yuyukṣe yogyam ca .virājam āhuḥ brahmaṇaḥ pitaram tām naḥ vi dhehi yatidhā sakhibhyaḥ ..7..

यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।यस्या व्रते प्रसवे यक्षमेजति सा विराटृषयः परमे व्योमन् ॥८॥
याम् प्रच्युताम् अनु यज्ञाः प्रच्यवन्ते उपतिष्ठन्ते उपतिष्ठमानाम् ।यस्याः व्रते प्रसवे यक्षम् एजति सा विराज् ऋषयः परमे व्योमन् ॥८॥
yām pracyutām anu yajñāḥ pracyavante upatiṣṭhante upatiṣṭhamānām .yasyāḥ vrate prasave yakṣam ejati sā virāj ṛṣayaḥ parame vyoman ..8..

अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्।विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥९॥
अ प्राणैति प्राणेन प्राणतीनाम् विराज्-स्वराजम् अभ्येति पश्चात्।विश्वम् मृशन्तीम् अभिरूपाम् विराजम् पश्यन्ति त्वे न त्वे पश्यन्ति एनाम् ॥९॥
a prāṇaiti prāṇena prāṇatīnām virāj-svarājam abhyeti paścāt.viśvam mṛśantīm abhirūpām virājam paśyanti tve na tve paśyanti enām ..9..

को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः ।क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ {२२}
कः विराजः मिथुन-त्वम् प्र वेद कः ऋतून् कः उ कल्पम् अस्याः ।क्रमान् कः अस्याः कतिधा विदुग्धान् कः अस्याः धाम कतिधा व्युष्टीः ॥१०॥
kaḥ virājaḥ mithuna-tvam pra veda kaḥ ṛtūn kaḥ u kalpam asyāḥ .kramān kaḥ asyāḥ katidhā vidugdhān kaḥ asyāḥ dhāma katidhā vyuṣṭīḥ ..10..

इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥११॥
इयम् एव सा या प्रथमा व्यौच्छद आसु इतरासु चरति प्रविष्टा ।महान्तः अस्याम् महिमानः अन्तर्वधूः जिगाय नवगत् जनित्री ॥११॥
iyam eva sā yā prathamā vyaucchada āsu itarāsu carati praviṣṭā .mahāntaḥ asyām mahimānaḥ antarvadhūḥ jigāya navagat janitrī ..11..

छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेमे ।सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥
छन्दः-पक्षे उषसा पेपिशाने समानम् योनिम् अनु सम् चर इमे ।सूर्य-पत्नी सम् चरतः प्रजानती केतुमती अजरे भूरि-रेतसा ॥१२॥
chandaḥ-pakṣe uṣasā pepiśāne samānam yonim anu sam cara ime .sūrya-patnī sam carataḥ prajānatī ketumatī ajare bhūri-retasā ..12..

ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः ।प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥१३॥
ऋतस्य पन्थाम् अनु तिस्रः आगुः त्रयः घर्माः अनु रेतः आगुः ।प्रजाम् एका जिन्वति ऊर्जम् एका राष्ट्रम् एका रक्षति देवयूनाम् ॥१३॥
ṛtasya panthām anu tisraḥ āguḥ trayaḥ gharmāḥ anu retaḥ āguḥ .prajām ekā jinvati ūrjam ekā rāṣṭram ekā rakṣati devayūnām ..13..

अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥१४॥
अग्नीषोमौ अदधुः या तुरीया आसीत् यज्ञस्य पक्षौ ऋषयः कल्पयन्तः ।गायत्रीम् त्रिष्टुभम् जगतीम् अनुष्टुभम् बृहदर्कीम् यजमानाय स्वर् आभरन्तीम् ॥१४॥
agnīṣomau adadhuḥ yā turīyā āsīt yajñasya pakṣau ṛṣayaḥ kalpayantaḥ .gāyatrīm triṣṭubham jagatīm anuṣṭubham bṛhadarkīm yajamānāya svar ābharantīm ..14..

पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च ।पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥१५॥
पञ्च व्युष्टीः अनु पञ्च दोहाः गाम् पञ्च-नाम्नीम् ऋतवः अनु पञ्च ।पञ्च दिशः पञ्चदशेन कॢप्ताः ताः एक-मूर्ध्नीः अभि लोकम् एकम् ॥१५॥
pañca vyuṣṭīḥ anu pañca dohāḥ gām pañca-nāmnīm ṛtavaḥ anu pañca .pañca diśaḥ pañcadaśena kḷptāḥ tāḥ eka-mūrdhnīḥ abhi lokam ekam ..15..

षट्जाता भूता प्रथमजा ऋतस्य षटु सामानि षटहं वहन्ति ।षट्योगं सीरमनु सामसाम षटाहुर्द्यावापृथिवीः षटुर्वीः ॥१६॥
षड् जाता भूता प्रथम-जाः ऋतस्य षड् सामानि षटहम् वहन्ति ।षष्-योगम् सीरम् अनु साम-साम षट् आहुः द्यावापृथिवीः षट् उर्वीः ॥१६॥
ṣaḍ jātā bhūtā prathama-jāḥ ṛtasya ṣaḍ sāmāni ṣaṭaham vahanti .ṣaṣ-yogam sīram anu sāma-sāma ṣaṭ āhuḥ dyāvāpṛthivīḥ ṣaṭ urvīḥ ..16..

षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः ।सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥१७॥
षट् आहुः शीतान् षष् उ मासः उष्णान् ऋतुम् नः ब्रूत यतमः अतिरिक्तः ।सप्त सुपर्णाः कवयः नि सेदुः सप्त छन्दांसि अनु सप्त दीक्षाः ॥१७॥
ṣaṭ āhuḥ śītān ṣaṣ u māsaḥ uṣṇān ṛtum naḥ brūta yatamaḥ atiriktaḥ .sapta suparṇāḥ kavayaḥ ni seduḥ sapta chandāṃsi anu sapta dīkṣāḥ ..17..

सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त ।सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥
सप्त होमाः समिधः ह सप्त मधूनि सप्त ऋतवः ह सप्त ।सप्त आज्यानि परि भूतमायन् ताः सप्त-गृध्राः इति शुश्रुम वयम् ॥१८॥
sapta homāḥ samidhaḥ ha sapta madhūni sapta ṛtavaḥ ha sapta .sapta ājyāni pari bhūtamāyan tāḥ sapta-gṛdhrāḥ iti śuśruma vayam ..18..

सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि ।कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥१९॥
सप्त छन्दांसि चतुर्-उत्तराणि अन्यः अन्यस्मिन् अध्यार्पितानि ।कथम् स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथम् आर्पितानि ॥१९॥
sapta chandāṃsi catur-uttarāṇi anyaḥ anyasmin adhyārpitāni .katham stomāḥ prati tiṣṭhanti teṣu tāni stomeṣu katham ārpitāni ..19..

कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते ।त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥२०॥ {२३}
कथम् गायत्री त्रिवृतम् व्याप कथम् त्रिष्टुभ्-पञ्चदशेन कल्पते ।त्रयस्त्रिंशेन जगती कथम् अनुष्टुभ् कथम् एकविंशः ॥२०॥
katham gāyatrī trivṛtam vyāpa katham triṣṭubh-pañcadaśena kalpate .trayastriṃśena jagatī katham anuṣṭubh katham ekaviṃśaḥ ..20..

अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये ।अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति ॥२१॥
अष्ट जाता भूता प्रथम-जाः ऋतस्य अष्ट इन्द्रः ऋत्विजः दैव्याः ये ।अष्ट-योनिः अदितिः अष्ट-पुत्रा तमीम् रात्रिम् अभि हव्यम् एति ॥२१॥
aṣṭa jātā bhūtā prathama-jāḥ ṛtasya aṣṭa indraḥ ṛtvijaḥ daivyāḥ ye .aṣṭa-yoniḥ aditiḥ aṣṭa-putrā tamīm rātrim abhi havyam eti ..21..

इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा ।समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥
इत्थम् श्रेयः मन्यमाना इदम् आगमम् युष्माकम् सख्ये अहम् अस्मि शेवा ।समान-जन्मा क्रतुः अस्ति वः शिवः स वः सर्वाः सम् चरति प्रजानन् ॥२२॥
ittham śreyaḥ manyamānā idam āgamam yuṣmākam sakhye aham asmi śevā .samāna-janmā kratuḥ asti vaḥ śivaḥ sa vaḥ sarvāḥ sam carati prajānan ..22..

अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा ।अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥२३॥
अष्ट इन्द्रस्य षष् यमस्य ऋषीणाम् सप्त सप्तधा ।अपः मनुष्यान् ओषधीः तामु पञ्च अनु सेचिरे ॥२३॥
aṣṭa indrasya ṣaṣ yamasya ṛṣīṇām sapta saptadhā .apaḥ manuṣyān oṣadhīḥ tāmu pañca anu secire ..23..

केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना ।अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यानसुरान् उत ऋषीन् ॥२४॥
केवली इन्द्राय दुदुहे हि गृष्टिः वशम् पीयूषम् प्रथमम् दुहाना ।अथ अतर्पयत् चतुरः चतुर्धा देवान् मनुष्यान् असुरान् उत ऋषीन् ॥२४॥
kevalī indrāya duduhe hi gṛṣṭiḥ vaśam pīyūṣam prathamam duhānā .atha atarpayat caturaḥ caturdhā devān manuṣyān asurān uta ṛṣīn ..24..

को नु गौः क एकऋषिः किमु धाम का आशिषः ।यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥२५॥
कः नु गौः कः एक-ऋषिः किमु धाम काः आशिषः ।यक्षम् पृथिव्याम् एकवृत् एकर्तुः कतमः नु सः ॥२५॥
kaḥ nu gauḥ kaḥ eka-ṛṣiḥ kimu dhāma kāḥ āśiṣaḥ .yakṣam pṛthivyām ekavṛt ekartuḥ katamaḥ nu saḥ ..25..

एको गौरेक एकऋषिरेकं धामैकधाशिषः ।यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥२६॥ {२४}
एकः गौः एकः एक-ऋषिः एकम् धाम एकधा आशिषः ।यक्षम् पृथिव्याम् एकवृत् एकर्तुः न अति रिच्यते ॥२६॥
ekaḥ gauḥ ekaḥ eka-ṛṣiḥ ekam dhāma ekadhā āśiṣaḥ .yakṣam pṛthivyām ekavṛt ekartuḥ na ati ricyate ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In