| |
|

This overlay will guide you through the buttons:

दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे ।तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥
दिवः पृथिव्याः अन्तरिक्षात् समुद्रात् अग्नेः वातात् मधु-कशा हि जज्ञे ।ताम् चायित्वा अमृतम् वसानाम् हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥
divaḥ pṛthivyāḥ antarikṣāt samudrāt agneḥ vātāt madhu-kaśā hi jajñe .tām cāyitvā amṛtam vasānām hṛdbhiḥ prajāḥ prati nandanti sarvāḥ ..1..

महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः ।यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥२॥
महत् पयः विश्व-रूपम् अस्याः समुद्रस्य त्वा उत रेतः आहुः ।यतस् ऐति मधु-कशा रराणा तद्-प्राणः तत् अमृतम् निविष्टम् ॥२॥
mahat payaḥ viśva-rūpam asyāḥ samudrasya tvā uta retaḥ āhuḥ .yatas aiti madhu-kaśā rarāṇā tad-prāṇaḥ tat amṛtam niviṣṭam ..2..

पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥३॥
पश्यन्ति अस्याः चरितम् पृथिव्याम् पृथक् नरः बहुधा मीमांसमानाः ।अग्नेः वातात् मधु-कशा हि जज्ञे मरुताम् उग्रा नप्तिः ॥३॥
paśyanti asyāḥ caritam pṛthivyām pṛthak naraḥ bahudhā mīmāṃsamānāḥ .agneḥ vātāt madhu-kaśā hi jajñe marutām ugrā naptiḥ ..3..

मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः ।हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥४॥
माता आदित्यानाम् दुहिता वसूनाम् प्राणः प्रजानाम् अमृतस्य नाभिः ।हिरण्य-वर्णा मधु-कशा घृताची महान् भर्गः चरति मर्त्येषु ॥४॥
mātā ādityānām duhitā vasūnām prāṇaḥ prajānām amṛtasya nābhiḥ .hiraṇya-varṇā madhu-kaśā ghṛtācī mahān bhargaḥ carati martyeṣu ..4..

मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः ।तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥
मधोः कशाम् अजनयन्त देवाः तस्याः गर्भः अभवत् विश्व-रूपः ।तम् जातम् तरुणम् पिपर्ति माता स जातः विश्वा भुवना वि चष्टे ॥५॥
madhoḥ kaśām ajanayanta devāḥ tasyāḥ garbhaḥ abhavat viśva-rūpaḥ .tam jātam taruṇam piparti mātā sa jātaḥ viśvā bhuvanā vi caṣṭe ..5..

कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः ।ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥
कः तम् प्र वेद कः उ तम् चिकेत यः अस्याः हृदः कलशः सोम-धानः अ क्षितः ।ब्रह्मा सुमेधाः सः अस्मिन् मदेत ॥६॥
kaḥ tam pra veda kaḥ u tam ciketa yaḥ asyāḥ hṛdaḥ kalaśaḥ soma-dhānaḥ a kṣitaḥ .brahmā sumedhāḥ saḥ asmin madeta ..6..

स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ ।ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥
स तौ प्र वेद सः उ तौ चिकेत यौ अस्याः स्तनौ सहस्र-धारा-अवक्षितौ ।ऊर्जम् दुहाते अन् अपस्फुरन्तौ ॥७॥
sa tau pra veda saḥ u tau ciketa yau asyāḥ stanau sahasra-dhārā-avakṣitau .ūrjam duhāte an apasphurantau ..7..

हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् ।त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥
हिङ्करिक्रती बृहती वयः-धाः उच्चैर्घोषा अभ्येति या व्रतम् ।त्रीन् घर्मान् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥८॥
hiṅkarikratī bṛhatī vayaḥ-dhāḥ uccairghoṣā abhyeti yā vratam .trīn gharmān abhi vāvaśānā mimāti māyum payate payobhiḥ ..8..

यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः ।ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥९॥
याम् आपीनाम् उपसीदन्ति आपः शाक्वराः वृषभाः ये स्व-राजः ।ते वर्षन्ति ते वर्षयन्ति तद्-विदे कामम् ऊर्जम् आपः ॥९॥
yām āpīnām upasīdanti āpaḥ śākvarāḥ vṛṣabhāḥ ye sva-rājaḥ .te varṣanti te varṣayanti tad-vide kāmam ūrjam āpaḥ ..9..

स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि ।अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥१०॥ {१}
स्तनयित्नुः ते वाच् प्रजापते वृषा शुष्मम् क्षिपसि भूम्याम् अधि ।अग्नेः वातात् मधु-कशा हि जज्ञे मरुताम् उग्रा नप्तिः ॥१०॥
stanayitnuḥ te vāc prajāpate vṛṣā śuṣmam kṣipasi bhūmyām adhi .agneḥ vātāt madhu-kaśā hi jajñe marutām ugrā naptiḥ ..10..

यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः ।एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥
यथा सोमः प्रातःसवने अश्विनोः भवति प्रियः ।एव मे अश्विना वर्चः आत्मनि ध्रियताम् ॥११॥
yathā somaḥ prātaḥsavane aśvinoḥ bhavati priyaḥ .eva me aśvinā varcaḥ ātmani dhriyatām ..11..

यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः ।एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥
यथा सोमः द्वितीये सवने इन्द्र-अग्न्योः भवति प्रियः ।एव मे इन्द्र-अग्नी वर्चः आत्मनि ध्रियताम् ॥१२॥
yathā somaḥ dvitīye savane indra-agnyoḥ bhavati priyaḥ .eva me indra-agnī varcaḥ ātmani dhriyatām ..12..

यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः ।एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥
यथा सोमः तृतीये सवने ऋभूणाम् भवति प्रियः ।एव मे ऋभवः वर्चः आत्मनि ध्रियताम् ॥१३॥
yathā somaḥ tṛtīye savane ṛbhūṇām bhavati priyaḥ .eva me ṛbhavaḥ varcaḥ ātmani dhriyatām ..13..

मधु जनिषीय मधु वंसिषीय ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥
मधु जनिषीय मधु वंसिषीय ।पयस्वान् अग्ने आगमम् तम् मा सम् सृज वर्चसा ॥१४॥
madhu janiṣīya madhu vaṃsiṣīya .payasvān agne āgamam tam mā sam sṛja varcasā ..14..

सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१५॥
सम् मा अग्ने वर्चसा सृज सम् प्रजया सम् आयुषा ।विद्युः मे अस्य देवाः इन्द्रः विद्यात् सह ऋषिभिः ॥१५॥
sam mā agne varcasā sṛja sam prajayā sam āyuṣā .vidyuḥ me asya devāḥ indraḥ vidyāt saha ṛṣibhiḥ ..15..

यथा मधु मधुकृतः संभरन्ति मधावधि ।एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥
यथा मधु मधुकृतः संभरन्ति मध-अवधि ।एव मे अश्विना वर्चः आत्मनि ध्रियताम् ॥१६॥
yathā madhu madhukṛtaḥ saṃbharanti madha-avadhi .eva me aśvinā varcaḥ ātmani dhriyatām ..16..

यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि ।एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥१७॥
यथा मक्षाः इदम् मधु न्यञ्जन्ति मध-अवधि ।एव मे अश्विना वर्चः तेजः बलम् ओजः च ध्रियताम् ॥१७॥
yathā makṣāḥ idam madhu nyañjanti madha-avadhi .eva me aśvinā varcaḥ tejaḥ balam ojaḥ ca dhriyatām ..17..

यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥१८॥
यत् गिरिषु पर्वतेषु गोषु अश्वेषु यत् मधु ।सुरायाम् सिच्यमानायाम् यत् तत्र मधु तत् मयि ॥१८॥
yat giriṣu parvateṣu goṣu aśveṣu yat madhu .surāyām sicyamānāyām yat tatra madhu tat mayi ..18..

अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।यथा वर्चस्वतीं वाचमावदानि जनामनु ॥१९॥
अश्विना सारघेण मा मधुना अङ्क्तम् शुभस्पती ।यथा वर्चस्वतीम् वाचम् आवदानि जनाम् अनु ॥१९॥
aśvinā sāragheṇa mā madhunā aṅktam śubhaspatī .yathā varcasvatīm vācam āvadāni janām anu ..19..

स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि ।तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥२०॥
स्तनयित्नुः ते वाच् प्रजापते वृषा शुष्मम् क्षिपसि भूम्याम् दिवि ।ताम् पशवः उप जीवन्ति सर्वे तेन उ सा इषम् ऊर्जम् पिपर्ति ॥२०॥
stanayitnuḥ te vāc prajāpate vṛṣā śuṣmam kṣipasi bhūmyām divi .tām paśavaḥ upa jīvanti sarve tena u sā iṣam ūrjam piparti ..20..

पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥२१॥
पृथिवी दण्डः अन्तरिक्षम् गर्भः द्यौः कशा विद्युत्-प्रकशः हिरण्ययः बिन्दुः ॥२१॥
pṛthivī daṇḍaḥ antarikṣam garbhaḥ dyauḥ kaśā vidyut-prakaśaḥ hiraṇyayaḥ binduḥ ..21..

यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति ।ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥२२॥
यः वै कशायाः सप्त मधूनि वेद मधुमान् भवति ।ब्राह्मणः च राजा च धेनुः च अनड्वान् च व्रीहिः च यवः च मधु सप्तमम् ॥२२॥
yaḥ vai kaśāyāḥ sapta madhūni veda madhumān bhavati .brāhmaṇaḥ ca rājā ca dhenuḥ ca anaḍvān ca vrīhiḥ ca yavaḥ ca madhu saptamam ..22..

मधुमान् भवति मधुमदस्याहार्यं भवति ।मधुमतो लोकान् जयति य एवं वेद ॥२३॥
मधुमान् भवति मधुमत् अस्य आहार्यम् भवति ।मधुमतः लोकान् जयति यः एवम् वेद ॥२३॥
madhumān bhavati madhumat asya āhāryam bhavati .madhumataḥ lokān jayati yaḥ evam veda ..23..

यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति ।तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति ।अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥२४॥ {२}
यत् वीध्रे स्तनयति प्रजापतिः एव तत् प्रजाभ्यः प्रादुर्भवति ।तस्मात् प्राचीन-उपवीतः तिष्ठे प्रजापते अनु मा बुध्यस्व इति ।अनु एनम् प्रजाः अनु प्रजापतिः बुध्यते यः एवम् वेद ॥२४॥
yat vīdhre stanayati prajāpatiḥ eva tat prajābhyaḥ prādurbhavati .tasmāt prācīna-upavītaḥ tiṣṭhe prajāpate anu mā budhyasva iti .anu enam prajāḥ anu prajāpatiḥ budhyate yaḥ evam veda ..24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In