| |
|

This overlay will guide you through the buttons:

यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः ॥१॥
यत् गायत्रे अधि गायत्रम् आहितम् त्रैष्टुभम् वा त्रैष्टुभात् निरतक्षत । यत् वा जगत् जगत्या आहितम् पदम् ये इद् तत् विदुः ते अमृत-त्वम् आनुशुः ॥१॥
yat gāyatre adhi gāyatram āhitam traiṣṭubham vā traiṣṭubhāt niratakṣata . yat vā jagat jagatyā āhitam padam ye id tat viduḥ te amṛta-tvam ānuśuḥ ..1..

गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२॥
गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् ।वाकेन वाकम् द्विपदा चतुष्पदा अक्षरेण मिमते सप्त वाणीः ॥२॥
gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam .vākena vākam dvipadā catuṣpadā akṣareṇa mimate sapta vāṇīḥ ..2..

जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्।गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥३॥
जगता सिन्धुम् दिव्यस्कभायत्-रथंतरे सूर्यम् पर्यपश्यत्।गायत्रस्य समिधः तिस्रः आहुः ततस् मह्ना प्र रिरिचे महि-त्वा ॥३॥
jagatā sindhum divyaskabhāyat-rathaṃtare sūryam paryapaśyat.gāyatrasya samidhaḥ tisraḥ āhuḥ tatas mahnā pra ririce mahi-tvā ..3..

उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥४॥
उप ह्वये सु दुघाम् धेनुम् एताम् सु हस्तः गो-दुह् उत दोहत् एनाम् ।श्रेष्ठम् सवम् सविता साविषत् नः अभीद्धः घर्मः तत् उ सु प्र वोचत्॥४॥
upa hvaye su dughām dhenum etām su hastaḥ go-duh uta dohat enām .śreṣṭham savam savitā sāviṣat naḥ abhīddhaḥ gharmaḥ tat u su pra vocat..4..

हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात्।दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥५॥
हिङ्कृण्वती वसु-पत्नी वसूनाम् वत्सम् इच्छन्ती मनसा अभ्यागात्।दुहाम् अश्विभ्याम् पयः अघ्न्या इयम् सा वर्धताम् महते सौभगाय ॥५॥
hiṅkṛṇvatī vasu-patnī vasūnām vatsam icchantī manasā abhyāgāt.duhām aśvibhyām payaḥ aghnyā iyam sā vardhatām mahate saubhagāya ..5..

गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन् मातवा उ ।सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥
गौः अमीमेत अभि वत्सम् मिषन्तम् मूर्धानम् हिङ् अकृणोत् मातवै उ ।सृक्वाणम् घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥६॥
gauḥ amīmeta abhi vatsam miṣantam mūrdhānam hiṅ akṛṇot mātavai u .sṛkvāṇam gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ ..6..

अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता ।सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत ॥७॥
अयम् स शिङ्क्ते येन गौः अभिवृता मिमाति मयुम् ध्वसन-अवधि श्रिता ।सा चित्तिभिः नि हि चकार मर्त्यान् विद्युत् भवन्ती प्रति वव्रिम् औहत ॥७॥
ayam sa śiṅkte yena gauḥ abhivṛtā mimāti mayum dhvasana-avadhi śritā .sā cittibhiḥ ni hi cakāra martyān vidyut bhavantī prati vavrim auhata ..7..

अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥८॥
अनत् शये तुर-गातु जीवम् एजत् ध्रुवम् मध्ये आ पस्त्यानाम् ।जीवः मृतस्य चरति स्वधाभिः अमर्त्यः मर्त्येन स योनिः ॥८॥
anat śaye tura-gātu jīvam ejat dhruvam madhye ā pastyānām .jīvaḥ mṛtasya carati svadhābhiḥ amartyaḥ martyena sa yoniḥ ..8..

विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान ॥९॥
विधुम् दद्राणम् सलिलस्य पृष्ठे युवानम् सन्तम् पलितः जगार ।देवस्य पश्य काव्यम् महि-त्वा अद्य ममार स ह्यस् समान ॥९॥
vidhum dadrāṇam salilasya pṛṣṭhe yuvānam santam palitaḥ jagāra .devasya paśya kāvyam mahi-tvā adya mamāra sa hyas samāna ..9..

य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात्।स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्ऋतिरा विवेश ॥१०॥
यः ईम् चकार न सः अस्य वेद यः ईम् ददर्श हिरुक् इद् नु तस्मात्।स मातुः योना परिवीतः अन्तर् बहुप्रजाः निरृतिः आ विवेश ॥१०॥
yaḥ īm cakāra na saḥ asya veda yaḥ īm dadarśa hiruk id nu tasmāt.sa mātuḥ yonā parivītaḥ antar bahuprajāḥ nirṛtiḥ ā viveśa ..10..

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥११॥
अपश्यम् गोपाम् अ निपद्यमानम् आ च परा च पथिभिः चरन्तम् ।स सध्रीचीः स विषूचीः वसानः आ वरीवर्ति भुवनेषु अन्तर् ॥११॥
apaśyam gopām a nipadyamānam ā ca parā ca pathibhiḥ carantam .sa sadhrīcīḥ sa viṣūcīḥ vasānaḥ ā varīvarti bhuvaneṣu antar ..11..

द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् ।उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥१२॥
द्यौः नः पिता जनिता नाभिः अत्र बन्धुः नः माता पृथिवी मही इयम् ।उत्तानयोः चम्वोः योनिः अन्तरत्र पिता दुहितुः गर्भम् आधात्॥१२॥
dyauḥ naḥ pitā janitā nābhiḥ atra bandhuḥ naḥ mātā pṛthivī mahī iyam .uttānayoḥ camvoḥ yoniḥ antaratra pitā duhituḥ garbham ādhāt..12..

पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः ।पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥१३॥
पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि वृष्णः अश्वस्य रेतः ।पृच्छामि विश्वस्य भुवनस्य नाभिम् पृच्छामि वाचः परमम् व्योम ॥१३॥
pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi vṛṣṇaḥ aśvasya retaḥ .pṛcchāmi viśvasya bhuvanasya nābhim pṛcchāmi vācaḥ paramam vyoma ..13..

इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः ।अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥१४॥
इयम् वेदिः परः अन्तः पृथिव्याः अयम् सोमः वृष्णः अश्वस्य रेतः ।अयम् यज्ञः विश्वस्य भुवनस्य नाभिः ब्रह्मा अयम् वाचः परमम् व्योम ॥१४॥
iyam vediḥ paraḥ antaḥ pṛthivyāḥ ayam somaḥ vṛṣṇaḥ aśvasya retaḥ .ayam yajñaḥ viśvasya bhuvanasya nābhiḥ brahmā ayam vācaḥ paramam vyoma ..14..

न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥१५॥
न वि जानामि यत् इव इदम् अस्मि निण्यः संनद्धः मनसा चरामि ।यदा मा अगन् प्रथम-जाः ऋतस्य आदिद्वाचः अश्नुवे भागम् अस्याः ॥१५॥
na vi jānāmi yat iva idam asmi niṇyaḥ saṃnaddhaḥ manasā carāmi .yadā mā agan prathama-jāḥ ṛtasya ādidvācaḥ aśnuve bhāgam asyāḥ ..15..

अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥१६॥
अपाङ् प्राङ् आ इति स्वधया गृभीतः अमर्त्यः मर्त्येन सयोनिः ।ता शश्वन्ता विषूचीना वियन्ता नि अन्यम् चिक्युः न नि चिक्युः अन्यम् ॥१६॥
apāṅ prāṅ ā iti svadhayā gṛbhītaḥ amartyaḥ martyena sayoniḥ .tā śaśvantā viṣūcīnā viyantā ni anyam cikyuḥ na ni cikyuḥ anyam ..16..

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥१७॥
सप्त-अर्ध-गर्भाः भुवनस्य रेतः विष्णोः तिष्ठन्ति प्रदिशा विधर्मणि ।ते धीतिभिः मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतस् ॥१७॥
sapta-ardha-garbhāḥ bhuvanasya retaḥ viṣṇoḥ tiṣṭhanti pradiśā vidharmaṇi .te dhītibhiḥ manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvatas ..17..

ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥१८॥
ऋचः अक्षरे परमे व्योमन् यस्मिन् देवाः अधि विश्वे निषेदुः ।यः तत् न वेद किम् ऋचा करिष्यति ये इद् तत् विदुः ते अमी समासते ॥१८॥
ṛcaḥ akṣare parame vyoman yasmin devāḥ adhi viśve niṣeduḥ .yaḥ tat na veda kim ṛcā kariṣyati ye id tat viduḥ te amī samāsate ..18..

ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत्।त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥१९॥
ऋचः पदम् मात्रया कल्पयन्तः अर्धर्चेन चकॢपुः विश्वम् एजत्।त्रि-पाद् ब्रह्म पुरु-रूपम् वि तष्ठे तेन जीवन्ति प्रदिशः चतस्रः ॥१९॥
ṛcaḥ padam mātrayā kalpayantaḥ ardharcena cakḷpuḥ viśvam ejat.tri-pād brahma puru-rūpam vi taṣṭhe tena jīvanti pradiśaḥ catasraḥ ..19..

सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥२०॥
सूयवसात् भगवती हि भूयाः अध वयम् भगवन्तः स्याम ।अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥२०॥
sūyavasāt bhagavatī hi bhūyāḥ adha vayam bhagavantaḥ syāma .addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī ..20..

गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी ।अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥२१॥
गौः इद् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी ।अष्टापदी नवपदी सहस्र-अक्षरा भुवनस्य पङ्क्तिः तस्याः समुद्राः अधि वि क्षरन्ति ॥२१॥
gauḥ id mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī .aṣṭāpadī navapadī sahasra-akṣarā bhuvanasya paṅktiḥ tasyāḥ samudrāḥ adhi vi kṣaranti ..21..

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥२२॥
कृष्णम् नियानम् हरयः सुपर्णाः अपः वसानाः दिवम् उत्पतन्ति ।तम् आववृत्रन् सदन-आदृतस्य आदित् घृतेन पृथिवीम् व्यूदुः ॥२२॥
kṛṣṇam niyānam harayaḥ suparṇāḥ apaḥ vasānāḥ divam utpatanti .tam āvavṛtran sadana-ādṛtasya ādit ghṛtena pṛthivīm vyūduḥ ..22..

अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति ॥२३॥
अ पादा इति प्रथमा पद्वतीनाम् कः तत् वाम् मित्रावरुणा चिकेत ।गर्भः भारम् भरति आ चित् अस्याः ऋतम् पिपर्ति अनृतम् नि पाति ॥२३॥
a pādā iti prathamā padvatīnām kaḥ tat vām mitrāvaruṇā ciketa .garbhaḥ bhāram bharati ā cit asyāḥ ṛtam piparti anṛtam ni pāti ..23..

विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः ।विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥२४॥
विराज् वाच् विराज् पृथिवी विराज् अन्तरिक्षम् विराज् प्रजापतिः ।विराज् मृत्युः साध्यानाम् अधिराजः बभूव तस्य भूतम् भव्यम् वशे स मे भूतम् भव्यम् वशे कृणोतु ॥२४॥
virāj vāc virāj pṛthivī virāj antarikṣam virāj prajāpatiḥ .virāj mṛtyuḥ sādhyānām adhirājaḥ babhūva tasya bhūtam bhavyam vaśe sa me bhūtam bhavyam vaśe kṛṇotu ..24..

शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥२५॥
शक-मयम् धूमम् आरात् अपश्यम् विषूवता परस् एना अवरेण ।उक्षाणम् पृश्निम् अपचन्त वीराः तानि धर्माणि प्रथमानि आसन् ॥२५॥
śaka-mayam dhūmam ārāt apaśyam viṣūvatā paras enā avareṇa .ukṣāṇam pṛśnim apacanta vīrāḥ tāni dharmāṇi prathamāni āsan ..25..

त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥२६॥
त्रयः केशिनः ऋतुथा वि चक्षते संवत्सरे वपते एकः एषाम् ।विश्वमन्यो अभिचष्टे शचीभिः ध्राजिः एकस्य ददृशे न रूपम् ॥२६॥
trayaḥ keśinaḥ ṛtuthā vi cakṣate saṃvatsare vapate ekaḥ eṣām .viśvamanyo abhicaṣṭe śacībhiḥ dhrājiḥ ekasya dadṛśe na rūpam ..26..

चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥२७॥
चत्वारि वाच्-परिमिता पदानि तानि विदुः ब्राह्मणाः ये मनीषिणः ।गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति ॥२७॥
catvāri vāc-parimitā padāni tāni viduḥ brāhmaṇāḥ ye manīṣiṇaḥ .guhā trīṇi nihitā na iṅgayanti turīyam vācaḥ manuṣyāḥ vadanti ..27..

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥२८॥
इन्द्रम् मित्रम् वरुणम् अग्निम् आहुः अथ उ दिव्यः स सुपर्णः गरुत्मान् ।एकम् सत् विप्राः बहुधा वदन्ति अग्निम् यमम् मातरिश्वानम् आहुः ॥२८॥
indram mitram varuṇam agnim āhuḥ atha u divyaḥ sa suparṇaḥ garutmān .ekam sat viprāḥ bahudhā vadanti agnim yamam mātariśvānam āhuḥ ..28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In