| |
|

This overlay will guide you through the buttons:

सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण ॥१॥
सपत्न-हनम् ऋषभम् घृतेन कामम् शिक्षामि हविषा आज्येन ।नीचैः सपत्नान् मम पादय त्वम् अभिष्टुतः महता वीर्येण ॥१॥
sapatna-hanam ṛṣabham ghṛtena kāmam śikṣāmi haviṣā ājyena .nīcaiḥ sapatnān mama pādaya tvam abhiṣṭutaḥ mahatā vīryeṇa ..1..

यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति ।तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥२॥
यत् मे मनसः न प्रियम् चक्षुषः यत् मे बभस्ति न अभिनन्दति ।तत् दुष्वप्न्यम् प्रति मुञ्चामि सपत्ने कामम् स्तुत्वा उद् अहम् भिदेयम् ॥२॥
yat me manasaḥ na priyam cakṣuṣaḥ yat me babhasti na abhinandati .tat duṣvapnyam prati muñcāmi sapatne kāmam stutvā ud aham bhideyam ..2..

दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् ।उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्॥३॥
दुष्वप्न्यम् काम दुरितम् च कम् अप्रजस्ताम् अवर्तिम् ।उग्रः ईशानः प्रति मुञ्च तस्मिन् यः अस्मभ्यम् अंहूरणा चिकित्सात्॥३॥
duṣvapnyam kāma duritam ca kam aprajastām avartim .ugraḥ īśānaḥ prati muñca tasmin yaḥ asmabhyam aṃhūraṇā cikitsāt..3..

नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः ।तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥४॥
नुदस्व काम प्र नुदस्व काम अवर्तिम् यन्तु मम ये सपत्नाः ।तेषाम् नुत्तानाम् अधमा तमांसि अग्ने वास्तूनि निर्दह त्वम् ॥४॥
nudasva kāma pra nudasva kāma avartim yantu mama ye sapatnāḥ .teṣām nuttānām adhamā tamāṃsi agne vāstūni nirdaha tvam ..4..

सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् ।तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥
सा ते काम दुहिता धेनुः उच्यते याम् आहुः वाचम् कवयः विराजम् ।तया सपत्नान् परि वृङ्ग्धि ये मम परि एनान् प्राणः पशवः जीवनम् वृणक्तु ॥५॥
sā te kāma duhitā dhenuḥ ucyate yām āhuḥ vācam kavayaḥ virājam .tayā sapatnān pari vṛṅgdhi ye mama pari enān prāṇaḥ paśavaḥ jīvanam vṛṇaktu ..5..

कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन ।अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥६॥
कामस्य इन्द्रस्य वरुणस्य राज्ञः विष्णोः बलेन सवितुः सवेन ।अग्नेः होत्रेण प्र नुदे सपत्नाम् शम्बी इव नावम् उदकेषु धीरः ॥६॥
kāmasya indrasya varuṇasya rājñaḥ viṣṇoḥ balena savituḥ savena .agneḥ hotreṇa pra nude sapatnām śambī iva nāvam udakeṣu dhīraḥ ..6..

अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥७॥
अध्यक्षः वाजी मम कामः उग्रः कृणोतु मह्यम् असपत्नम् एव ।विश्वे देवाः मम नाथम् भवन्तु सर्वे देवाः हवमा यन्तु मे इमम् ॥७॥
adhyakṣaḥ vājī mama kāmaḥ ugraḥ kṛṇotu mahyam asapatnam eva .viśve devāḥ mama nātham bhavantu sarve devāḥ havamā yantu me imam ..7..

इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् ।कृण्वन्तो मह्यमसपत्नमेव ॥८॥
इदम् आज्यम् घृतवत् जुषाणाः काम-ज्येष्ठाः इह मादयध्वम् ।कृण्वन्तः मह्यम् असपत्नम् एव ॥८॥
idam ājyam ghṛtavat juṣāṇāḥ kāma-jyeṣṭhāḥ iha mādayadhvam .kṛṇvantaḥ mahyam asapatnam eva ..8..

इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥९॥
इन्द्र-अग्नी काम स रथम् हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।तेषाम् पन्नानाम् अधमा तमांसि अग्ने वास्तूनि अनुनिर्दह त्वम् ॥९॥
indra-agnī kāma sa ratham hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ .teṣām pannānām adhamā tamāṃsi agne vāstūni anunirdaha tvam ..9..

जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥१०॥ {३}
जहि त्वम् काम मम ये सपत्नाः अन्धा तमांसि अव पादय एनान् ।निरिन्द्रियाः अरसाः सन्तु सर्वे मा ते जीविषुः कतमत् चन अहर् ॥१०॥
jahi tvam kāma mama ye sapatnāḥ andhā tamāṃsi ava pādaya enān .nirindriyāḥ arasāḥ santu sarve mā te jīviṣuḥ katamat cana ahar ..10..

अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् ।मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥११॥
अवधीत् कामः मम ये सपत्नाः उरुम् लोकम् अकरत् मह्यम् एधतुम् ।मह्यम् नमन्ताम् प्रदिशः चतस्रः मह्यम् षड् उर्वीः घृतमाः वहन्तु ॥११॥
avadhīt kāmaḥ mama ye sapatnāḥ urum lokam akarat mahyam edhatum .mahyam namantām pradiśaḥ catasraḥ mahyam ṣaḍ urvīḥ ghṛtamāḥ vahantu ..11..

तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥१२॥
ते अधराञ्चः प्र प्लवन्ताम् छिन्ना नौः इव बन्धनात्।न सायक-प्रणुत्तानाम् पुनर् अस्ति निवर्तनम् ॥१२॥
te adharāñcaḥ pra plavantām chinnā nauḥ iva bandhanāt.na sāyaka-praṇuttānām punar asti nivartanam ..12..

अग्निर्यव इन्द्रो यवः सोमो यवः ।यवयावानो देवा यवयन्त्वेनम् ॥१३॥
अग्निः यवः इन्द्रः यवः सोमः यवः ।यव-यावानः देवाः यवयन्तु एनम् ॥१३॥
agniḥ yavaḥ indraḥ yavaḥ somaḥ yavaḥ .yava-yāvānaḥ devāḥ yavayantu enam ..13..

असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् ।उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥१४॥
अ सर्व-वीरः चरतु प्रणुत्तः द्वेष्यः मित्रानाम् परिवर्ग्यः स्वानाम् ।उत पृथिव्याम् अव स्यन्ति विद्युतः उग्रः वः देवः प्र मृणत् सपत्नान् ॥१४॥
a sarva-vīraḥ caratu praṇuttaḥ dveṣyaḥ mitrānām parivargyaḥ svānām .uta pṛthivyām ava syanti vidyutaḥ ugraḥ vaḥ devaḥ pra mṛṇat sapatnān ..14..

च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् ।उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥
च्युता च इयम् बृहती अच्युता च विद्युत् बिभर्ति स्तनयित्नून् च सर्वान् ।उद्यन् आदित्यः द्रविणेन तेजसा नीचैः सपत्नान् नुदताम् मे सहस्वान् ॥१५॥
cyutā ca iyam bṛhatī acyutā ca vidyut bibharti stanayitnūn ca sarvān .udyan ādityaḥ draviṇena tejasā nīcaiḥ sapatnān nudatām me sahasvān ..15..

यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥
यत् ते काम शर्म त्रि-वरूथम् उद्भु ब्रह्म वर्म विततम् अन् अतिव्याध्यम् कृतम् ।तेन सपत्नान् परि वृङ्ग्धि ये मम परि एनान् प्राणः पशवः जीवनम् वृणक्तु ॥१६॥
yat te kāma śarma tri-varūtham udbhu brahma varma vitatam an ativyādhyam kṛtam .tena sapatnān pari vṛṅgdhi ye mama pari enān prāṇaḥ paśavaḥ jīvanam vṛṇaktu ..16..

येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय ।तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१७॥
येन देवाः असुरान् प्राणुदन्त येन इन्द्रः दस्यून् अधमम् तमः निनाय ।तेन त्वम् काम मम ये सपत्नाः तान् अस्मात् लोकात् प्र नुदस्व दूरम् ॥१७॥
yena devāḥ asurān prāṇudanta yena indraḥ dasyūn adhamam tamaḥ nināya .tena tvam kāma mama ye sapatnāḥ tān asmāt lokāt pra nudasva dūram ..17..

यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे ।तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१८॥
यथा देवाः असुरान् प्राणुदन्त यथा इन्द्रः दस्यून् अधमम् तमः बबाधे ।तथा त्वम् काम मम ये सपत्नाः तान् अस्मात् लोकात् प्र नुदस्व दूरम् ॥१८॥
yathā devāḥ asurān prāṇudanta yathā indraḥ dasyūn adhamam tamaḥ babādhe .tathā tvam kāma mama ye sapatnāḥ tān asmāt lokāt pra nudasva dūram ..18..

कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥१९॥
कामः जज्ञे प्रथमः न एनम् देवाः आपुः पितरः न मर्त्याः ।ततस् त्वम् असि ज्यायान् विश्वहा महान् तस्मै ते काम नमः इद् कृनोमि ॥१९॥
kāmaḥ jajñe prathamaḥ na enam devāḥ āpuḥ pitaraḥ na martyāḥ .tatas tvam asi jyāyān viśvahā mahān tasmai te kāma namaḥ id kṛnomi ..19..

यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२०॥ {४}
यावती द्यावापृथिवी वरिम्णा यावत् आपः सिष्यदुः यावत् अग्निः ।ततस् त्वम् असि ज्यायान् विश्वहा महान् तस्मै ते काम नमः इद् कृणोमि ॥२०॥
yāvatī dyāvāpṛthivī varimṇā yāvat āpaḥ siṣyaduḥ yāvat agniḥ .tatas tvam asi jyāyān viśvahā mahān tasmai te kāma namaḥ id kṛṇomi ..20..

यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२१॥
यावतीः दिशः प्रदिशः विषूचीः यावतीः आशाः अभिचक्षणाः दिवः ।ततस् त्वम् असि ज्यायान् विश्वहा महान् तस्मै ते काम नमः इद् कृणोमि ॥२१॥
yāvatīḥ diśaḥ pradiśaḥ viṣūcīḥ yāvatīḥ āśāḥ abhicakṣaṇāḥ divaḥ .tatas tvam asi jyāyān viśvahā mahān tasmai te kāma namaḥ id kṛṇomi ..21..

यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२२॥
यावतीः भृङ्गाः जत्वः कुरूरवः यावतीः वघाः वृक्षसर्प्यः बभूवुः ।ततस् त्वम् असि ज्यायान् विश्वहा महान् तस्मै ते काम नमः इद् कृणोमि ॥२२॥
yāvatīḥ bhṛṅgāḥ jatvaḥ kurūravaḥ yāvatīḥ vaghāḥ vṛkṣasarpyaḥ babhūvuḥ .tatas tvam asi jyāyān viśvahā mahān tasmai te kāma namaḥ id kṛṇomi ..22..

ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥२३॥
ज्यायान् निमिषतः असि तिष्ठतः ज्यायान् समुद्रात् असि काम मन्यो ।ततस् त्वम् असि ज्यायान् विश्वहा महान् तस्मै ते काम नमः इद् कृनोमि ॥२३॥
jyāyān nimiṣataḥ asi tiṣṭhataḥ jyāyān samudrāt asi kāma manyo .tatas tvam asi jyāyān viśvahā mahān tasmai te kāma namaḥ id kṛnomi ..23..

न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२४॥
न वै वातः चन कामम् आप्नोति न अग्निः सूर्यः न उत चन्द्रमाः ।ततस् त्वम् असि ज्यायान् विश्वहा महान् तस्मै ते काम नमः इद् कृणोमि ॥२४॥
na vai vātaḥ cana kāmam āpnoti na agniḥ sūryaḥ na uta candramāḥ .tatas tvam asi jyāyān viśvahā mahān tasmai te kāma namaḥ id kṛṇomi ..24..

यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे ।ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥२५॥ {५}
याः ते शिवाः तन्वः काम भद्राः याभिः सत्यम् भवति यत् वृणिषे ।ताभिः त्वम् अस्माम् अभिसंविशस्व अन्यत्र पापीः अप वेशय धियः ॥२५॥
yāḥ te śivāḥ tanvaḥ kāma bhadrāḥ yābhiḥ satyam bhavati yat vṛṇiṣe .tābhiḥ tvam asmām abhisaṃviśasva anyatra pāpīḥ apa veśaya dhiyaḥ ..25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In