| |
|

This overlay will guide you through the buttons:

साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥
साहस्रः तु एषः ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।भद्रम् दात्रे यजमानाय शीक्षन् बार्हस्पत्यः उस्रियः तन्तु-मातान् ॥१॥
sāhasraḥ tu eṣaḥ ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat.bhadram dātre yajamānāya śīkṣan bārhaspatyaḥ usriyaḥ tantu-mātān ..1..

अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥
अपाम् यः अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवी इव देवी ।पिता वत्सानाम् पतिः अघ्न्यानाम् साहस्रे पोषे अपि नः कृणोतु ॥२॥
apām yaḥ agre pratimā babhūva prabhūḥ sarvasmai pṛthivī iva devī .pitā vatsānām patiḥ aghnyānām sāhasre poṣe api naḥ kṛṇotu ..2..

पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥
पुमान् अन्तर्वान् स्थविरः पयस्वान् वसोः कबन्धम् ऋषभः बिभर्ति ।तम् इन्द्राय पथिभिः देव-यानैः हुतम् अग्निः वहतु जातवेदाः ॥३॥
pumān antarvān sthaviraḥ payasvān vasoḥ kabandham ṛṣabhaḥ bibharti .tam indrāya pathibhiḥ deva-yānaiḥ hutam agniḥ vahatu jātavedāḥ ..3..

पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥
पिता वत्सानाम् पतिः अघ्न्यानाम् अथो पिता महताम् गर्गराणाम् ।वत्सः जरायु प्रतिधुक् पीयूषः आमिक्षा घृतम् तत् वै अस्य रेतः ॥४॥
pitā vatsānām patiḥ aghnyānām atho pitā mahatām gargarāṇām .vatsaḥ jarāyu pratidhuk pīyūṣaḥ āmikṣā ghṛtam tat vai asya retaḥ ..4..

देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥
देवानाम् भागः उपनाहः एषः अपाम् रसः ओषधीनाम् घृतस्य ।सोमस्य भक्षम् अवृणीत शक्रः बृहन् अद्रिः अभवत् यत् शरीरम् ॥५॥
devānām bhāgaḥ upanāhaḥ eṣaḥ apām rasaḥ oṣadhīnām ghṛtasya .somasya bhakṣam avṛṇīta śakraḥ bṛhan adriḥ abhavat yat śarīram ..5..

सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् ।शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः ॥६॥
सोमेन पूर्णम् कलशम् बिभर्षि त्वस्ता रुपाणाम् जनिता पशूनाम् ।शिवाः ते सन्तु प्रजन्वः इह याः इमाः नि अस्मभ्यम् स्वधिते यच्छ याः अमूः ॥६॥
somena pūrṇam kalaśam bibharṣi tvastā rupāṇām janitā paśūnām .śivāḥ te santu prajanvaḥ iha yāḥ imāḥ ni asmabhyam svadhite yaccha yāḥ amūḥ ..6..

आजं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥
आजम् बिभर्ति घृतम् अस्य रेतः साहस्रः पोषः तम् उ यज्ञम् आहुः ।इन्द्रस्य रूपम् ऋषभः वसानः सः अस्मान् देवाः शिवः ऐतु दत्तः ॥७॥
ājam bibharti ghṛtam asya retaḥ sāhasraḥ poṣaḥ tam u yajñam āhuḥ .indrasya rūpam ṛṣabhaḥ vasānaḥ saḥ asmān devāḥ śivaḥ aitu dattaḥ ..7..

इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्।बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥
इन्द्रस्य ओजः वरुणस्य बाहू अश्विनोः अंसौ मरुताम् इयम् ककुद्।बृहस्पतिम् संभृतम् एतम् आहुः ये धीरासः कवयः ये मनीषिणः ॥८॥
indrasya ojaḥ varuṇasya bāhū aśvinoḥ aṃsau marutām iyam kakud.bṛhaspatim saṃbhṛtam etam āhuḥ ye dhīrāsaḥ kavayaḥ ye manīṣiṇaḥ ..8..

दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥
दैवीः विशः पयस्वान् आ तनोषि त्वाम् इन्द्रम् त्वाम् सरस्वन्तम् आहुः ।सहस्रम् सः एक-मुखाः ददाति यः ब्राह्मणः ऋषभम् आजुहोति ॥९॥
daivīḥ viśaḥ payasvān ā tanoṣi tvām indram tvām sarasvantam āhuḥ .sahasram saḥ eka-mukhāḥ dadāti yaḥ brāhmaṇaḥ ṛṣabham ājuhoti ..9..

बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९}
बृहस्पतिः सविता ते वयः दधौ त्वष्टुः वायोः परि आत्मा ते आभृतः ।अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे ते द्यावापृथिवी उभे स्ताम् ॥१०॥
bṛhaspatiḥ savitā te vayaḥ dadhau tvaṣṭuḥ vāyoḥ pari ātmā te ābhṛtaḥ .antarikṣe manasā tvā juhomi barhiṣṭe te dyāvāpṛthivī ubhe stām ..10..

य इन्द्र इव देवेषु गोष्वेति विवावदत्।तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥
यः इन्द्रः इव देवेषु गोषु आ इति विवावदत्।तस्य ऋषभस्य अङ्गानि ब्रह्मा सम् स्तौतु भद्रया ॥११॥
yaḥ indraḥ iva deveṣu goṣu ā iti vivāvadat.tasya ṛṣabhasya aṅgāni brahmā sam stautu bhadrayā ..11..

पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥
पार्श्वे आस्ताम् अनुमत्याः भगस्य आस्ताम् अनूवृजौ ।अष्ठीवन्तौ अब्रवीत् मित्रः मम एतौ केवलौ इति ॥१२॥
pārśve āstām anumatyāḥ bhagasya āstām anūvṛjau .aṣṭhīvantau abravīt mitraḥ mama etau kevalau iti ..12..

भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।पुछं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥
भसद् आसीत् आदित्यानाम् श्रोणी आस्ताम् बृहस्पतेः ।पुछम् वातस्य देवस्य तेन धूनोति ओषधीः ॥१३॥
bhasad āsīt ādityānām śroṇī āstām bṛhaspateḥ .pucham vātasya devasya tena dhūnoti oṣadhīḥ ..13..

गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥
गुदाः आसन् सिनीवाल्याः सूर्यायाः त्वचम् अब्रुवन् ।उत्थातुः अब्रुवन् पदे ऋषभम् यत् अकल्पयन् ॥१४॥
gudāḥ āsan sinīvālyāḥ sūryāyāḥ tvacam abruvan .utthātuḥ abruvan pade ṛṣabham yat akalpayan ..14..

क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥
क्रोडः आसीत् जामि-शंसस्य सोमस्य क्लशः धृतः ।देवाः संगत्य यत् सर्वे ऋषभम् व्यकल्पयन् ॥१५॥
kroḍaḥ āsīt jāmi-śaṃsasya somasya klaśaḥ dhṛtaḥ .devāḥ saṃgatya yat sarve ṛṣabham vyakalpayan ..15..

ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् ।ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥
ते कुष्ठिकाः सरमायै कुर्मेभ्यः अदधुः शफान् ।ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यः अधारयन् ॥१६॥
te kuṣṭhikāḥ saramāyai kurmebhyaḥ adadhuḥ śaphān .ūbadhyamasya kītebhyaḥ śvavartebhyaḥ adhārayan ..16..

शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥
शृङ्गाभ्याम् रक्षः ऋषत्यवर्तिम् हन्ति चक्षुषा ।शृणोति भद्रम् कर्णाभ्याम् गवाम् यः पतिः अघ्न्यः ॥१७॥
śṛṅgābhyām rakṣaḥ ṛṣatyavartim hanti cakṣuṣā .śṛṇoti bhadram karṇābhyām gavām yaḥ patiḥ aghnyaḥ ..17..

शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥
शत-याजम् स यजते न एनम् दुन्वन्ति अग्नयः ।जिन्वन्ति विश्वे तम् देवाः यः ब्राह्मणः ऋषभम् आजुहोति ॥१८॥
śata-yājam sa yajate na enam dunvanti agnayaḥ .jinvanti viśve tam devāḥ yaḥ brāhmaṇaḥ ṛṣabham ājuhoti ..18..

ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥
ब्राह्मणेभ्यः ऋषभम् दत्त्वा वरीयः कृणुते मनः ।पुष्टिम् सः अघ्न्यानाम् स्वे गोष्ठे अव पश्यते ॥१९॥
brāhmaṇebhyaḥ ṛṣabham dattvā varīyaḥ kṛṇute manaḥ .puṣṭim saḥ aghnyānām sve goṣṭhe ava paśyate ..19..

गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥
गावः सन्तु प्रजाः सन्तु अथ उ अस्तु तनू-बलम् ।तत् सर्वम् अनु मन्यन्ताम् देवाः ऋषभ-दायिने ॥२०॥
gāvaḥ santu prajāḥ santu atha u astu tanū-balam .tat sarvam anu manyantām devāḥ ṛṣabha-dāyine ..20..

अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥
अयम् पिपानः इन्द्रः इद्रयिम् दधातु चेतनीम् ।अयम् धेनुम् सुदुघाम् नित्य-वत्साम् वशम् दुहाम् विपश्चितम् परस् दिवः ॥२१॥
ayam pipānaḥ indraḥ idrayim dadhātu cetanīm .ayam dhenum sudughām nitya-vatsām vaśam duhām vipaścitam paras divaḥ ..21..

पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥
पिशङ्ग-रूपः नभसः वयोधाः ऐन्द्रः शुष्मः विश्व-रूपः नः आगन् ।आयुः अस्मभ्यम् दधत् प्रजाम् च रायः च पोषैः अभि नः सचताम् ॥२२॥
piśaṅga-rūpaḥ nabhasaḥ vayodhāḥ aindraḥ śuṣmaḥ viśva-rūpaḥ naḥ āgan .āyuḥ asmabhyam dadhat prajām ca rāyaḥ ca poṣaiḥ abhi naḥ sacatām ..22..

उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥
उप इह उपपर्चन अस्मिन् गोष्ठे उप पृञ्च नः ।उप ऋषभस्य यत् रेतः उप इन्द्र तव वीर्यम् ॥२३॥
upa iha upaparcana asmin goṣṭhe upa pṛñca naḥ .upa ṛṣabhasya yat retaḥ upa indra tava vīryam ..23..

एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०}
एतम् वः युवानम् प्रति दध्मः अत्र तेन क्रीडन्तीः चरत वशाम् अनु ।मा नः हासिष्ट जनुषा सुभागाः रायः च पोषैः अभि नः सचध्वम् ॥२४॥
etam vaḥ yuvānam prati dadhmaḥ atra tena krīḍantīḥ carata vaśām anu .mā naḥ hāsiṣṭa januṣā subhāgāḥ rāyaḥ ca poṣaiḥ abhi naḥ sacadhvam ..24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In