| |
|

This overlay will guide you through the buttons:

आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन् ।तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥
आ नय एतम् आ रभस्व सुकृताम् लोकम् अपि गच्छतु प्रजानन् ।तीर्त्वा तमांसि बहुधा महान्ति अजः नाकम् आ क्रमताम् तृतीयम् ॥१॥
ā naya etam ā rabhasva sukṛtām lokam api gacchatu prajānan .tīrtvā tamāṃsi bahudhā mahānti ajaḥ nākam ā kramatām tṛtīyam ..1..

इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥
इन्द्राय भागम् परि त्वा नयामि अस्मिन् यज्ञे यजमानाय सूरिम् ।ये नः द्विषन्ति अनु तान् रभस्व अनागसः यजमानस्य वीराः ॥२॥
indrāya bhāgam pari tvā nayāmi asmin yajñe yajamānāya sūrim .ye naḥ dviṣanti anu tān rabhasva anāgasaḥ yajamānasya vīrāḥ ..2..

प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥
प्र पदः अव नेनिग्धि दुश्चरितम् यत् चचार शुद्धैः शफैः आ क्रमताम् प्रजानन् ।तीर्त्वा तमांसि बहुधा विपश्यन् अजः नाकम् आ क्रमताम् तृतीयम् ॥३॥
pra padaḥ ava nenigdhi duścaritam yat cacāra śuddhaiḥ śaphaiḥ ā kramatām prajānan .tīrtvā tamāṃsi bahudhā vipaśyan ajaḥ nākam ā kramatām tṛtīyam ..3..

अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥
अनुछ्य श्यामेन त्वचम् एताम् विशस्तर् यथा पर्वसिना मा अभि मंस्थाः ।मा अभि द्रुहः परुशः कल्पय एनम् तृतीये नाके अधि वि श्रय एनम् ॥४॥
anuchya śyāmena tvacam etām viśastar yathā parvasinā mā abhi maṃsthāḥ .mā abhi druhaḥ paruśaḥ kalpaya enam tṛtīye nāke adhi vi śraya enam ..4..

ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥५॥
ऋचा कुम्भीम् अध्यग्नौ श्रयामि आ सिञ्च उदकम् अव धेहि एनम् ।पर्याधत्त अग्निना शमितारः शृतः गच्छतु सुकृताम् यत्र लोकः ॥५॥
ṛcā kumbhīm adhyagnau śrayāmi ā siñca udakam ava dhehi enam .paryādhatta agninā śamitāraḥ śṛtaḥ gacchatu sukṛtām yatra lokaḥ ..5..

उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥
उत्क्राम अतस् परि चेद् अ तप्तः तप्तात् चरोः अधि नाकम् तृतीयम् ।अग्नेः अग्निः अधि सम् बभूविथ ज्योतिष्मन्तम् अभि लोकम् जय एतम् ॥६॥
utkrāma atas pari ced a taptaḥ taptāt caroḥ adhi nākam tṛtīyam .agneḥ agniḥ adhi sam babhūvitha jyotiṣmantam abhi lokam jaya etam ..6..

अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥
अजः अग्निः अजम् उ ज्योतिः आहुः अजम् जीवता ब्रह्मणे देयम् आहुः ।अजः तमांसि अप हन्ति दूरम् अस्मिन् लोके श्रद्दधानेन दत्तः ॥७॥
ajaḥ agniḥ ajam u jyotiḥ āhuḥ ajam jīvatā brahmaṇe deyam āhuḥ .ajaḥ tamāṃsi apa hanti dūram asmin loke śraddadhānena dattaḥ ..7..

पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥
पञ्च-ओदनः पञ्चधा वि क्रमताम् आक्रंस्यमानः त्रीणि ज्योतींषि ।ईजानानाम् सुकृताम् प्रेहि मध्यम् तृतीये नाके अधि वि श्रयस्व ॥८॥
pañca-odanaḥ pañcadhā vi kramatām ākraṃsyamānaḥ trīṇi jyotīṃṣi .ījānānām sukṛtām prehi madhyam tṛtīye nāke adhi vi śrayasva ..8..

अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
अज आ रोह सुकृताम् यत्र लोकः शरभः न चत्तः अति दुर्गानि एषः ।पञ्च-ओदनः ब्रह्मणे दीयमानः स दातारम् तृप्त्या तर्पयाति ॥९॥
aja ā roha sukṛtām yatra lokaḥ śarabhaḥ na cattaḥ ati durgāni eṣaḥ .pañca-odanaḥ brahmaṇe dīyamānaḥ sa dātāram tṛptyā tarpayāti ..9..

अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११}
अजः त्रि-नाके त्रिदिवे त्रि-पृष्ठे नाकस्य पृष्ठे ददिवांसम् दधाति ।पञ्च-ओदनः ब्रह्मणे दीयमानः विश्व-रूपा धेनुः कामदुघा असि एका ॥१०॥
ajaḥ tri-nāke tridive tri-pṛṣṭhe nākasya pṛṣṭhe dadivāṃsam dadhāti .pañca-odanaḥ brahmaṇe dīyamānaḥ viśva-rūpā dhenuḥ kāmadughā asi ekā ..10..

एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥
एतत् वः ज्योतिः पितरः तृतीयम् पञ्च-ओदनम् ब्रह्मणे अजम् ददाति ।अजः तमांसि अप हन्ति दूरम् अस्मिन् लोके श्रद्दधानेन दत्तः ॥११॥
etat vaḥ jyotiḥ pitaraḥ tṛtīyam pañca-odanam brahmaṇe ajam dadāti .ajaḥ tamāṃsi apa hanti dūram asmin loke śraddadhānena dattaḥ ..11..

ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥
ईजानानाम् सुकृताम् लोकम् ईप्सन् पञ्च-ओदनम् ब्रह्मणे अजम् ददाति ।स व्याप्तिम् अभि लोकम् जय एतम् शिवः अस्मभ्यम् प्रतिगृहीतः अस्तु ॥१२॥
ījānānām sukṛtām lokam īpsan pañca-odanam brahmaṇe ajam dadāti .sa vyāptim abhi lokam jaya etam śivaḥ asmabhyam pratigṛhītaḥ astu ..12..

अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्।इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥
अजः हि अग्नेः अजनिष्ट शोकात् विप्रः विप्रस्य सहसः विपश्चित्।इष्टम् पूर्तम् अभिपूर्तम् वषट्कृतम् तत् देवाः ऋतुशस् कल्पयन्तु ॥१३॥
ajaḥ hi agneḥ ajaniṣṭa śokāt vipraḥ viprasya sahasaḥ vipaścit.iṣṭam pūrtam abhipūrtam vaṣaṭkṛtam tat devāḥ ṛtuśas kalpayantu ..13..

अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥
अमा उतम् वासः दद्यात् हिरण्यम् अपि दक्षिणाम् ।तथा लोकान् समाप्नोति ये दिव्याः ये च पार्थिवाः ॥१४॥
amā utam vāsaḥ dadyāt hiraṇyam api dakṣiṇām .tathā lokān samāpnoti ye divyāḥ ye ca pārthivāḥ ..14..

एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥
एताः त्वा अजा उप यन्तु धाराः सोम्याः देवीः घृत-पृष्ठाः मधुश्चुतः ।स्तभान् पृथिवीम् उत द्याम् नाकस्य पृष्ठे अधि सप्त-रश्मौ ॥१५॥
etāḥ tvā ajā upa yantu dhārāḥ somyāḥ devīḥ ghṛta-pṛṣṭhāḥ madhuścutaḥ .stabhān pṛthivīm uta dyām nākasya pṛṣṭhe adhi sapta-raśmau ..15..

अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥
अजः असि अज स्वर्गः असि त्वया लोकम् अङ्गिरसः प्राजानन् ।तम् लोकम् पुण्यम् प्र ज्ञेषम् ॥१६॥
ajaḥ asi aja svargaḥ asi tvayā lokam aṅgirasaḥ prājānan .tam lokam puṇyam pra jñeṣam ..16..

येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥
येन सहस्रम् वहसि येन अग्ने सर्ववेदसम् ।तेन इमम् यज्ञम् नः वह स्वर् देवेषु गन्तवे ॥१७॥
yena sahasram vahasi yena agne sarvavedasam .tena imam yajñam naḥ vaha svar deveṣu gantave ..17..

अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः ।तेन लोकान्त्सूर्यवतो जयेम ॥१८॥
अजः पक्वः स्वर्गे लोके दधाति पञ्च-ओदनः निरृतिम् बाधमानः ।तेन लोकान् सूर्यवतः जयेम ॥१८॥
ajaḥ pakvaḥ svarge loke dadhāti pañca-odanaḥ nirṛtim bādhamānaḥ .tena lokān sūryavataḥ jayema ..18..

यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥
यम् ब्राह्मणे निदधे यम् च विक्षु याः विप्रुषः ओदनानाम् अजस्य ।सर्वम् तत् अग्ने सुकृतस्य लोके जानीतात् नः संगमने पथीनाम् ॥१९॥
yam brāhmaṇe nidadhe yam ca vikṣu yāḥ vipruṣaḥ odanānām ajasya .sarvam tat agne sukṛtasya loke jānītāt naḥ saṃgamane pathīnām ..19..

अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२}
अजः वै इदम् अग्ने व्यक्रमत तस्य उरः इयम् अभवत् द्यौः पृष्टिहम् ।अन्तरिक्षम् मध्यम् दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥
ajaḥ vai idam agne vyakramata tasya uraḥ iyam abhavat dyauḥ pṛṣṭiham .antarikṣam madhyam diśaḥ pārśve samudrau kukṣī ..20..

सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः ।एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥
सत्यम् च ऋतम् च चक्षुषी विश्वम् सत्यम् श्रद्धा प्राणः विराज् शिरः ।एष वै अपरिमितः यज्ञः यत् अजः पञ्च-ओदनः ॥२१॥
satyam ca ṛtam ca cakṣuṣī viśvam satyam śraddhā prāṇaḥ virāj śiraḥ .eṣa vai aparimitaḥ yajñaḥ yat ajaḥ pañca-odanaḥ ..21..

अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥
अपरिमितम् एव यज्ञम् आप्नोति अपरिमितम् लोकम् अव रुन्द्धे ।यः अजम् पञ्च-ओदनम् दक्षिणाज्योतिषम् ददाति ॥२२॥
aparimitam eva yajñam āpnoti aparimitam lokam ava runddhe .yaḥ ajam pañca-odanam dakṣiṇājyotiṣam dadāti ..22..

नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्।सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥
न अस्य अस्थीनि भिन्द्यात् न मज्ज्ञः निर्धयेत्।सर्वम् एनम् समादाय इदम् इदम् प्र वेशयेत्॥२३॥
na asya asthīni bhindyāt na majjñaḥ nirdhayet.sarvam enam samādāya idam idam pra veśayet..23..

इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥
इदम् इदम् एव अस्य रूपम् भवति तेन एनम् सम् गमयति ।इषम् महः ऊर्जम् अस्मै दुहे यः अजम् पञ्च-ओदनम् दक्षिणा-ज्योतिषम् ददाति ॥२४॥
idam idam eva asya rūpam bhavati tena enam sam gamayati .iṣam mahaḥ ūrjam asmai duhe yaḥ ajam pañca-odanam dakṣiṇā-jyotiṣam dadāti ..24..

पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥
पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्च अस्मै धेनवः कामदुघाः भवन्ति ।यः अजम् पञ्च-ओदनम् दक्षिणाज्योतिषम् ददाति ॥२५॥
pañca rukmā pañca navāni vastrā pañca asmai dhenavaḥ kāmadughāḥ bhavanti .yaḥ ajam pañca-odanam dakṣiṇājyotiṣam dadāti ..25..

पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥
पञ्च रुक्माः ज्योतिः अस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।स्वर्गम् लोकम् अश्नुते यः अजम् पञ्च-ओदनम् दक्षिणाज्योतिषम् ददाति ॥२६॥
pañca rukmāḥ jyotiḥ asmai bhavanti varma vāsāṃsi tanve bhavanti .svargam lokam aśnute yaḥ ajam pañca-odanam dakṣiṇājyotiṣam dadāti ..26..

या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥
या पूर्वम् पतिम् वित्त्वा अथ अन्यम् विन्दते अपरम् ।पञ्च-ओदनम् च तौ अजम् ददातः न वि योषतः ॥२७॥
yā pūrvam patim vittvā atha anyam vindate aparam .pañca-odanam ca tau ajam dadātaḥ na vi yoṣataḥ ..27..

समानलोको भवति पुनर्भुवापरः पतिः ।योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥
समान-लोकः भवति पुनर्भुवा अपरः पतिः ।यः अजम् पञ्च-ओदनम् दक्षिणाज्योतिषम् ददाति ॥२८॥
samāna-lokaḥ bhavati punarbhuvā aparaḥ patiḥ .yaḥ ajam pañca-odanam dakṣiṇājyotiṣam dadāti ..28..

अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥
अनुपूर्व-वत्साम् धेनुम् अनड्वाहम् उपबर्हणम् ।वासः हिरण्यम् दत्त्वा ते यन्ति दिवम् उत्तमाम् ॥२९॥
anupūrva-vatsām dhenum anaḍvāham upabarhaṇam .vāsaḥ hiraṇyam dattvā te yanti divam uttamām ..29..

आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३}
आत्मानम् पितरम् पुत्रम् पौत्रम् पितामहम् ।जायाम् जनित्रीम् मातरम् ये प्रियाः तान् उप ह्वये ॥३०॥
ātmānam pitaram putram pautram pitāmaham .jāyām janitrīm mātaram ye priyāḥ tān upa hvaye ..30..

यो वै नैदाघं नाम र्तुं वेद ।एष वै नैदाघो नाम र्तुर्यदजः पञ्चौदनः ॥ ३१ ॥
यः वै नैदाघम् नाम ऋतुम् वेद ।एष वै नैदाघः नाम ऋतुः यत् अजः पञ्च-ओदनः ॥ ३१ ॥
yaḥ vai naidāgham nāma ṛtum veda .eṣa vai naidāghaḥ nāma ṛtuḥ yat ajaḥ pañca-odanaḥ .. 31 ..

निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।यो वै कुर्वन्तं नाम र्तुं वेद ।कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै कुर्वन् नाम र्तुर्यदजः पञ्चौदनः ॥३२॥
निः एव अप्रियस्य भ्रातृव्यस्य श्रियम् दहति भवति आत्मना ।यः वै कुर्वन्तम् नाम ऋतुम् वेद ।कुर्वतीम् कुर्वतीम् एव अप्रियस्य भ्रातृव्यस्य श्रियम् आ दत्ते ।एष वै कुर्वन् नाम र्तुः यत् अजः पञ्च-ओदनः ॥३२॥
niḥ eva apriyasya bhrātṛvyasya śriyam dahati bhavati ātmanā .yaḥ vai kurvantam nāma ṛtum veda .kurvatīm kurvatīm eva apriyasya bhrātṛvyasya śriyam ā datte .eṣa vai kurvan nāma rtuḥ yat ajaḥ pañca-odanaḥ ..32..

यो वै संयन्तं नाम र्तुं वेद ।संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै संयन् नाम र्तुर्यदजः पञ्चौदनः ॥ ३३ ॥
यः वै संयन्तम् नाम ऋतुम् वेद ।संयतीम् संयतीम् एव अप्रियस्य भ्रातृव्यस्य श्रियम् आ दत्ते ।एष वै संयत् नाम र्तुः यत् अजः पञ्च-ओदनः ॥ ३३ ॥
yaḥ vai saṃyantam nāma ṛtum veda .saṃyatīm saṃyatīm eva apriyasya bhrātṛvyasya śriyam ā datte .eṣa vai saṃyat nāma rtuḥ yat ajaḥ pañca-odanaḥ .. 33 ..

यो वै पिन्वन्तं नाम र्तुं वेद ।पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वै पिन्वन् नाम र्तुर्यदजः पञ्चौदनः ॥ ३४॥
यः वै पिन्वन्तम् नाम ऋतुम् वेद ।पिन्वतीम् पिन्वतीम् एव अप्रियस्य भ्रातृव्यस्य श्रियम् आ दत्ते ।एष वै पिन्वन् नाम र्तुः यत् अजः पञ्च-ओदनः ॥ ३४॥
yaḥ vai pinvantam nāma ṛtum veda .pinvatīm pinvatīm eva apriyasya bhrātṛvyasya śriyam ā datte .eṣa vai pinvan nāma rtuḥ yat ajaḥ pañca-odanaḥ .. 34..

यो वा उद्यन्तं नाम र्तुं वेद ।उद्यतींुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा उद्यन्न् नाम र्तुर्यदजः पञ्चौदनः ॥ ३५ ॥
यः वै उद्यन्तम् नाम ऋतुम् वेद ।उद्यतीम् उद्यतीम् एव अप्रियस्य भ्रातृव्यस्य श्रियम् आ दत्ते ।एष वै उद्यन् नाम ऋतुः यत् अजः पञ्च-ओदनः ॥ ३५ ॥
yaḥ vai udyantam nāma ṛtum veda .udyatīm udyatīm eva apriyasya bhrātṛvyasya śriyam ā datte .eṣa vai udyan nāma ṛtuḥ yat ajaḥ pañca-odanaḥ .. 35 ..

यो वा अभिभुवं नाम र्तुं वेद ।अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।एष वा अभिभूर्नाम र्तुर्यदजः पञ्चौदनः ॥ ३६ ॥
यः वै अभिभुवम् नाम ऋतुम् वेद ।अभिभवन्तीम् अभिभवन्तीम् एव अप्रियस्य भ्रातृव्यस्य श्रियम् आ दत्ते ।एष वै अभिभूः नाम र्तुः यत् अजः पञ्च-ओदनः ॥ ३६ ॥
yaḥ vai abhibhuvam nāma ṛtum veda .abhibhavantīm abhibhavantīm eva apriyasya bhrātṛvyasya śriyam ā datte .eṣa vai abhibhūḥ nāma rtuḥ yat ajaḥ pañca-odanaḥ .. 36 ..

अजं च पचत पञ्च चौदनान् ।सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥
अजम् च पचत पञ्च च ओदनान् ।सर्वाः दिशः संमनसः सध्रीचीः स अन्तर्देशाः प्रति गृह्नन्तु ते एतम् ॥३७॥
ajam ca pacata pañca ca odanān .sarvāḥ diśaḥ saṃmanasaḥ sadhrīcīḥ sa antardeśāḥ prati gṛhnantu te etam ..37..

तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४}
ताः ते रक्षन्तु तव तुभ्यम् एतम् ताभ्यः आज्यम् हविः इदम् जुहोमि ॥३८॥
tāḥ te rakṣantu tava tubhyam etam tābhyaḥ ājyam haviḥ idam juhomi ..38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In