| |
|

This overlay will guide you through the buttons:

यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥
यः विद्यात् ब्रह्म प्रत्यक्षम् परूंषि यस्य संभाराः ऋचः यस्य अनूक्यम् ॥१॥
yaḥ vidyāt brahma pratyakṣam parūṃṣi yasya saṃbhārāḥ ṛcaḥ yasya anūkyam ..1..

सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥
सामानि यस्य लोमानि यजुः हृदयम् उच्यते परिस्तरणम् इद् हविः ॥२॥
sāmāni yasya lomāni yajuḥ hṛdayam ucyate paristaraṇam id haviḥ ..2..

यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥
यत् वै अतिथि-पतिः अतिथीन् प्रतिपश्यति देवयजनम् प्रेक्षते ॥३॥
yat vai atithi-patiḥ atithīn pratipaśyati devayajanam prekṣate ..3..

यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥
यत् अभिवदति दीक्षाम् उपैति यत् उदकम् याचति अपः प्र नयति ॥४॥
yat abhivadati dīkṣām upaiti yat udakam yācati apaḥ pra nayati ..4..

या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥
याः एव यज्ञे आपः प्रणीयन्ते ताः एव ताः ॥५॥
yāḥ eva yajñe āpaḥ praṇīyante tāḥ eva tāḥ ..5..

यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥
यत् तर्पणम् आहरन्ति यः एव अग्नीषोमीयः पशुः बध्यते सः एव सः ॥६॥
yat tarpaṇam āharanti yaḥ eva agnīṣomīyaḥ paśuḥ badhyate saḥ eva saḥ ..6..

यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥
यत् आवसथान् कल्पयन्ति सदः-हविर्धानानि एव तत् कल्पयन्ति ॥७॥
yat āvasathān kalpayanti sadaḥ-havirdhānāni eva tat kalpayanti ..7..

यदुपस्तृणन्ति बर्हिरेव तत्॥८॥
यत् उपस्तृणन्ति बर्हिः एव तत्॥८॥
yat upastṛṇanti barhiḥ eva tat..8..

यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥
यत् उपरिशयनम् आहरन्ति स्वर्गम् एव तेन लोकम् अव रुन्द्धे ॥९॥
yat upariśayanam āharanti svargam eva tena lokam ava runddhe ..9..

यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥
यत् कशिपु-उपबर्हणम् आहरन्ति परिधयः एव ते ॥१०॥
yat kaśipu-upabarhaṇam āharanti paridhayaḥ eva te ..10..

यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥
यदा अञ्जन-अभ्यञ्जनम् आहरन्ति आज्यम् एव तत्॥११॥
yadā añjana-abhyañjanam āharanti ājyam eva tat..11..

यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोडाशावेव तौ ॥१२॥
यत् पुरा परिवेषात् स्वादम् आहरन्ति पुरोडाशौ एव तौ ॥१२॥
yat purā pariveṣāt svādam āharanti puroḍāśau eva tau ..12..

यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥
यत् अशनकृतम् ह्वयन्ति हविष्कृतम् एव तत् ह्वयन्ति ॥१३॥
yat aśanakṛtam hvayanti haviṣkṛtam eva tat hvayanti ..13..

ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥
ये व्रीहयः यवाः निरुप्यन्ते अंशवः एव ते ॥१४॥
ye vrīhayaḥ yavāḥ nirupyante aṃśavaḥ eva te ..14..

यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥
यानि उलूखल-मुसलानि ग्रावाणः एव ते ॥१५॥
yāni ulūkhala-musalāni grāvāṇaḥ eva te ..15..

शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥
शूर्पम् पवित्रम् तुषाः ऋजीषा अभिषवणीः आपः ॥१६॥
śūrpam pavitram tuṣāḥ ṛjīṣā abhiṣavaṇīḥ āpaḥ ..16..

स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥
स्रुच् दर्विः नेक्षणम् आयवनम् द्रोणकलशाः कुम्भ्यः वायव्यानि पात्राणि इयम् एव कृष्णाजिनम् ॥१७॥
sruc darviḥ nekṣaṇam āyavanam droṇakalaśāḥ kumbhyaḥ vāyavyāni pātrāṇi iyam eva kṛṣṇājinam ..17..

यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥1 ॥
यजमान-ब्राह्मणम् वै एतत् अतिथि-पतिः कुरुते यत् आहार्याणि प्रेक्षते इदम् भूयः इदम् इति ॥१ ॥
yajamāna-brāhmaṇam vai etat atithi-patiḥ kurute yat āhāryāṇi prekṣate idam bhūyaḥ idam iti ..1 ..

यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥2 ॥
यत् आह भूयः उद्धर इति प्राणम् एव तेन वर्षीयांसम् कुरुते ॥२ ॥
yat āha bhūyaḥ uddhara iti prāṇam eva tena varṣīyāṃsam kurute ..2 ..

उप हरति हवींष्या सादयति ॥3 ॥
उप हरति हवींष्या सादयति ॥३ ॥
upa harati havīṃṣyā sādayati ..3 ..

तेषामासन्नानामतिथिरात्मन् जुहोति ॥4 ॥
तेषाम् आसन्नानाम् अतिथिः आत्मन् जुहोति ॥४ ॥
teṣām āsannānām atithiḥ ātman juhoti ..4 ..

स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥5 ॥
स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥५ ॥
srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa ..5 ..

एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥6 ॥
एते वै प्रियाः च अप्रियाः च ऋत्विजः स्वर्गम् लोकम् गमयन्ति यत् अतिथयः ॥६ ॥
ete vai priyāḥ ca apriyāḥ ca ṛtvijaḥ svargam lokam gamayanti yat atithayaḥ ..6 ..

स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥7 ॥
स यः एवम् विद्वान् न द्विषन् अश्नीयात् न द्विषतः अन्नम् अश्नीयात् न मीमांसितस्य न मीमांसमानस्य ॥७ ॥
sa yaḥ evam vidvān na dviṣan aśnīyāt na dviṣataḥ annam aśnīyāt na mīmāṃsitasya na mīmāṃsamānasya ..7 ..

सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥8 ॥
सर्वः वै एष जग्ध-पाप्मा यस्य अन्नम् अश्नन्ति ॥८ ॥
sarvaḥ vai eṣa jagdha-pāpmā yasya annam aśnanti ..8 ..

सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥9 ॥
सर्वः वै एषः अ जग्ध-पाप्मा यस्य अन्नम् न अश्नन्ति ॥९ ॥
sarvaḥ vai eṣaḥ a jagdha-pāpmā yasya annam na aśnanti ..9 ..

सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥10 ॥
सर्वदा वै एष युक्त-ग्रावा आर्द्र-पवित्रः वितत-अध्वरः आहृत-यज्ञ-क्रतुः यः उपहरति ॥१० ॥
sarvadā vai eṣa yukta-grāvā ārdra-pavitraḥ vitata-adhvaraḥ āhṛta-yajña-kratuḥ yaḥ upaharati ..10 ..

प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥11 ॥
प्राजापत्यः वै एतस्य यज्ञः विततः यः उपहरति ॥११ ॥
prājāpatyaḥ vai etasya yajñaḥ vitataḥ yaḥ upaharati ..11 ..

प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥12 ॥
प्रजापतेः वै एष विक्रमान् अनुविक्रमते यः उपहरति ॥१२ ॥
prajāpateḥ vai eṣa vikramān anuvikramate yaḥ upaharati ..12 ..

योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥13 ॥
यः अतिथीनाम् सः आहवनीयः यः वेश्मनि स गार्हपत्यः यस्मिन् पचन्ति स दक्षिणाग्निः ॥१३ ॥
yaḥ atithīnām saḥ āhavanīyaḥ yaḥ veśmani sa gārhapatyaḥ yasmin pacanti sa dakṣiṇāgniḥ ..13 ..

इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥१॥
इष्टम् च वै एष पूर्तम् च गृहाणाम् अश्नाति यः पूर्वः अतिथेः अश्नाति ॥१॥
iṣṭam ca vai eṣa pūrtam ca gṛhāṇām aśnāti yaḥ pūrvaḥ atitheḥ aśnāti ..1..

पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥२॥
पयः च वै एष रसम् च गृहाणाम् अश्नाति यः पूर्वः अतिथेः अश्नाति ॥२॥
payaḥ ca vai eṣa rasam ca gṛhāṇām aśnāti yaḥ pūrvaḥ atitheḥ aśnāti ..2..

ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥
ऊर्जाम् च वै एष स्फातिम् च गृहाणाम् अश्नाति यः पूर्वः अतिथेः अश्नाति ॥३३॥
ūrjām ca vai eṣa sphātim ca gṛhāṇām aśnāti yaḥ pūrvaḥ atitheḥ aśnāti ..33..

प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥४॥
प्रजाम् वै एष पशून् च गृहाणाम् अश्नाति यः पूर्वः अतिथेः अश्नाति ॥४॥
prajām vai eṣa paśūn ca gṛhāṇām aśnāti yaḥ pūrvaḥ atitheḥ aśnāti ..4..

कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥५॥
कीर्तिम् वै एष यशः च गृहाणाम् अश्नाति यः पूर्वः अतिथेः अश्नाति ॥५॥
kīrtim vai eṣa yaśaḥ ca gṛhāṇām aśnāti yaḥ pūrvaḥ atitheḥ aśnāti ..5..

श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥६॥
श्रियम् वै एष संविदम् च गृहाणाम् अश्नाति यः पूर्वः अतिथेः अश्नाति ॥६॥
śriyam vai eṣa saṃvidam ca gṛhāṇām aśnāti yaḥ pūrvaḥ atitheḥ aśnāti ..6..

एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥७॥
एष वै अतिथिः यत् श्रोत्रियः तस्मात् पूर्वः न अश्नीयात्॥७॥
eṣa vai atithiḥ yat śrotriyaḥ tasmāt pūrvaḥ na aśnīyāt..7..

अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥८॥
अशितौ अतिथौ अश्नीयात् यज्ञस्य सात्म-त्वाय यज्ञस्य अ विछेदाय तत् व्रतम् ॥८॥
aśitau atithau aśnīyāt yajñasya sātma-tvāya yajñasya a vichedāya tat vratam ..8..

एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥९॥ {१७}
एतत् वै उ स्वादीयः यत् अधिगवम् क्षीरम् वा मांसम् वा तत् एव न अश्नीयात्॥९॥
etat vai u svādīyaḥ yat adhigavam kṣīram vā māṃsam vā tat eva na aśnīyāt..9..

स य एवं विद्वान् क्षीरमुपसिच्योपहरति ॥ १ ॥
स यः एवम् विद्वान् क्षीरम् उपसिच्य उपहरति ॥ १ ॥
sa yaḥ evam vidvān kṣīram upasicya upaharati .. 1 ..

यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥२॥
यावत् अग्निष्टोमेन इष्ट्वा सु समृद्धेन अवरुन्द्धे तावत् एनेन अव रुन्द्धे ॥२॥
yāvat agniṣṭomena iṣṭvā su samṛddhena avarunddhe tāvat enena ava runddhe ..2..

स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ॥३ ॥
स यः एवम् विद्वान् सर्पिः उपसिच्य उपहरति ॥३ ॥
sa yaḥ evam vidvān sarpiḥ upasicya upaharati ..3 ..

यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४॥
यावत् अतिरात्रेण इष्ट्वा सु समृद्धेन अवरुन्द्धे तावत् एनेन अव रुन्द्धे ॥४॥
yāvat atirātreṇa iṣṭvā su samṛddhena avarunddhe tāvat enena ava runddhe ..4..

स य एवं विद्वान् मधूपसिच्योपहरति ॥ ५ ॥
स यः एवम् विद्वान् मधु उपसिच्य उपहरति ॥ ५ ॥
sa yaḥ evam vidvān madhu upasicya upaharati .. 5 ..

यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ६ ॥
यावत् सत्त्रसद्येन इष्ट्वा सु समृद्धेन अवरुन्द्धे तावत् एनेन अव रुन्द्धे ॥ ६ ॥
yāvat sattrasadyena iṣṭvā su samṛddhena avarunddhe tāvat enena ava runddhe .. 6 ..

स य एवं विद्वान् मांसमुपसिच्योपहरति ॥ ७ ॥
स यः एवम् विद्वान् मांसम् उपसिच्य उपहरति ॥ ७ ॥
sa yaḥ evam vidvān māṃsam upasicya upaharati .. 7 ..

यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥ ८ ॥
यावत् द्वादश-अहेन इष्ट्वा सु समृद्धेन अवरुन्द्धे तावत् एनेन अव रुन्द्धे ॥ ८ ॥
yāvat dvādaśa-ahena iṣṭvā su samṛddhena avarunddhe tāvat enena ava runddhe .. 8 ..

स य एवं विद्वान् उदकमुपसिच्योपहरति ॥ ९ ॥
स यः एवम् विद्वान् उदकम् उपसिच्य उपहरति ॥ ९ ॥
sa yaḥ evam vidvān udakam upasicya upaharati .. 9 ..

प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥ १० ॥
प्रजानाम् प्रजननाय गच्छति प्रतिष्ठाम् प्रियः प्रजानाम् भवति यः एवम् विद्वान् उपसिच्य उपहरति ॥ १० ॥
prajānām prajananāya gacchati pratiṣṭhām priyaḥ prajānām bhavati yaḥ evam vidvān upasicya upaharati .. 10 ..

तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ॥ १ ॥
तस्मै उषाः हिङ्कृणोति सविता प्र स्तौति ॥ १ ॥
tasmai uṣāḥ hiṅkṛṇoti savitā pra stauti .. 1 ..

बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
बृहस्पतिः ऊर्जया उद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवाः निधनम् ॥२॥
bṛhaspatiḥ ūrjayā udgāyati tvaṣṭā puṣṭyā prati harati viśve devāḥ nidhanam ..2..

निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ३ ॥
निधनम् भूत्याः प्रजायाः पशूनाम् भवति यः एवम् वेद ॥ ३ ॥
nidhanam bhūtyāḥ prajāyāḥ paśūnām bhavati yaḥ evam veda .. 3 ..

तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ॥ ४ ॥
तस्मै उद्यन् सूर्यः हिङ्कृणोति संगवः प्र स्तौति ॥ ४ ॥
tasmai udyan sūryaḥ hiṅkṛṇoti saṃgavaḥ pra stauti .. 4 ..

मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ॥ ६ ॥
मध्यन्दिनः उद्गायति अपराह्णः प्रति हरति अस्तंयन् निधनम् ॥ ६ ॥
madhyandinaḥ udgāyati aparāhṇaḥ prati harati astaṃyan nidhanam .. 6 ..

निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥ ७ ॥
निधनम् भूत्याः प्रजायाः पशूनाम् भवति यः एवम् वेद ॥ ७ ॥
nidhanam bhūtyāḥ prajāyāḥ paśūnām bhavati yaḥ evam veda .. 7 ..

तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ॥ ८ ॥
तस्मै अभ्रः भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ॥ ८ ॥
tasmai abhraḥ bhavan hiṅkṛṇoti stanayan pra stauti .. 8 ..

विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ॥ ९ ॥
विद्योतमानः प्रति हरति वर्षन् उद्गायति उद्गृह्णन् निधनम् ॥ ९ ॥
vidyotamānaḥ prati harati varṣan udgāyati udgṛhṇan nidhanam .. 9 ..

निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥१०॥
निधनम् भूत्याः प्रजायाः पशूनाम् भवति यः एवम् वेद ॥१०॥
nidhanam bhūtyāḥ prajāyāḥ paśūnām bhavati yaḥ evam veda ..10..

यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥१॥
यत् क्षत्तारम् ह्वयति आ श्रावयति एव तत्॥१॥
yat kṣattāram hvayati ā śrāvayati eva tat..1..

यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥२॥
यत् प्रतिशृणोति प्रत्याश्रावयति एव तत्॥२॥
yat pratiśṛṇoti pratyāśrāvayati eva tat..2..

यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥३॥
यत् परिवेष्टारः पात्र-हस्ताः पूर्वे च अपरे च प्रपद्यन्ते चमसाध्वर्यवः एव ते ॥३॥
yat pariveṣṭāraḥ pātra-hastāḥ pūrve ca apare ca prapadyante camasādhvaryavaḥ eva te ..3..

तेषां न कश्चनाहोता ॥४॥
तेषाम् न कश्चन अ होता ॥४॥
teṣām na kaścana a hotā ..4..

यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५॥
यत् वै अतिथि-पतिः अतिथीन् परिविष्य गृहान् उपोदैति अवभृथम् एव तत् उपावैति ॥५॥
yat vai atithi-patiḥ atithīn pariviṣya gṛhān upodaiti avabhṛtham eva tat upāvaiti ..5..

यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥६॥
यत् सभागयति दक्षिणाः सभागयति यत् अनुतिष्ठते उदवस्यति एव तत्॥६॥
yat sabhāgayati dakṣiṇāḥ sabhāgayati yat anutiṣṭhate udavasyati eva tat..6..

स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥७॥
सः उपहूतः पृथिव्याम् भक्षयति उपहूतः तस्मिन् यत् पृथिव्याम् विश्व-रूपम् ॥७॥
saḥ upahūtaḥ pṛthivyām bhakṣayati upahūtaḥ tasmin yat pṛthivyām viśva-rūpam ..7..

स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥८॥
सः उपहूतः अन्तरिक्षे भक्षयति उपहूतः तस्मिन् यत् दिवि विश्व-रूपम् ॥८॥
saḥ upahūtaḥ antarikṣe bhakṣayati upahūtaḥ tasmin yat divi viśva-rūpam ..8..

स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥९॥
सः उपहूतः दिवि भक्षयति उपहूतः तस्मिन् यत् दिवि विश्व-रूपम् ॥९॥
saḥ upahūtaḥ divi bhakṣayati upahūtaḥ tasmin yat divi viśva-rūpam ..9..

स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥१०॥
सः उपहूतः देवेषु भक्षयति उपहूतः तस्मिन् यत् दिवि विश्व-रूपम् ॥१०॥
saḥ upahūtaḥ deveṣu bhakṣayati upahūtaḥ tasmin yat divi viśva-rūpam ..10..

स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥११॥
सः उपहूतः लोकेषु भक्षयति उपहूतः तस्मिन् यत् दिवि विश्व-रूपम् ॥११॥
saḥ upahūtaḥ lokeṣu bhakṣayati upahūtaḥ tasmin yat divi viśva-rūpam ..11..

स उपहूत उपहूतः ॥१२॥
सः उपहूतः उपहूतः ॥१२॥
saḥ upahūtaḥ upahūtaḥ ..12..

आप्नोतीमं लोकमाप्नोत्यमुम् ॥१३॥
आप्नोति इमम् लोकम् आप्नोति अमुम् ॥१३॥
āpnoti imam lokam āpnoti amum ..13..

ज्योतिष्मतो लोकान् जयति य एवं वेद ॥१४॥
ज्योतिष्मतः लोकान् जयति यः एवम् वेद ॥१४॥
jyotiṣmataḥ lokān jayati yaḥ evam veda ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In