| |
|

This overlay will guide you through the buttons:

प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥
प्रजापतिः च परमेष्ठी च शृङ्गे इन्द्रः शिरः अग्निः ललाटम् यमः कृकाटम् ॥१॥
prajāpatiḥ ca parameṣṭhī ca śṛṅge indraḥ śiraḥ agniḥ lalāṭam yamaḥ kṛkāṭam ..1..

सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥
सोमः राजा मस्तिष्कः द्यौः उत्तर-हनुः पृथिवी अधर-हनुः ॥२॥
somaḥ rājā mastiṣkaḥ dyauḥ uttara-hanuḥ pṛthivī adhara-hanuḥ ..2..

विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥
विद्युत् जिह्वा मरुतः दन्ताः रेवतीः ग्रीवाः कृत्तिका स्कन्धाः घर्मः वहः ॥३॥
vidyut jihvā marutaḥ dantāḥ revatīḥ grīvāḥ kṛttikā skandhāḥ gharmaḥ vahaḥ ..3..

विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥
विश्वम् वायुः स्वर्गः लोकः कृष्णद्रम् विधरणी निवेष्यः ॥४॥
viśvam vāyuḥ svargaḥ lokaḥ kṛṣṇadram vidharaṇī niveṣyaḥ ..4..

श्येनः क्रोतोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥
श्येनः क्रोतः अन्तरिक्षम् पाजस्यम् बृहस्पतिः ककुद् बृहतीः कीकसाः ॥५॥
śyenaḥ krotaḥ antarikṣam pājasyam bṛhaspatiḥ kakud bṛhatīḥ kīkasāḥ ..5..

देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥
देवानाम् पत्नीः पृष्टयः उपसदः पर्शवः ॥६॥
devānām patnīḥ pṛṣṭayaḥ upasadaḥ parśavaḥ ..6..

मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥
मित्रः च वरुणः च अंसौ त्वष्टा च अर्यमा च दोषणी महादेवः बाहू ॥७॥
mitraḥ ca varuṇaḥ ca aṃsau tvaṣṭā ca aryamā ca doṣaṇī mahādevaḥ bāhū ..7..

इन्द्राणी भसद्वायुः पुछं पवमानो बालाः ॥८॥
इन्द्राणी भसद् वायुः पुछम् पवमानः बालाः ॥८॥
indrāṇī bhasad vāyuḥ pucham pavamānaḥ bālāḥ ..8..

ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥
ब्रह्म च क्षत्रम् च श्रोणी बलम् ऊरू ॥९॥
brahma ca kṣatram ca śroṇī balam ūrū ..9..

धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥
धाता च सविता च अष्ठीवन्तौ जङ्घाः गन्धर्वाः अप्सरसः कुष्ठिकाः अदितिः शफाः ॥१०॥
dhātā ca savitā ca aṣṭhīvantau jaṅghāḥ gandharvāḥ apsarasaḥ kuṣṭhikāḥ aditiḥ śaphāḥ ..10..

चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥
चेतः हृदयम् यकृत् मेधा व्रतम् पुरीतत्॥११॥
cetaḥ hṛdayam yakṛt medhā vratam purītat..11..

क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥
क्षुध्-कुक्षिः इराः वनिष्ठुः पर्वताः प्लाशयः ॥१२॥
kṣudh-kukṣiḥ irāḥ vaniṣṭhuḥ parvatāḥ plāśayaḥ ..12..

क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥
क्रोधः वृक्कौ मन्युः आण्डौ प्रजा शेपः ॥१३॥
krodhaḥ vṛkkau manyuḥ āṇḍau prajā śepaḥ ..13..

नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥
नदी सूत्री वर्षस्य पतयः स्तना स्तनयित्नु-रूधः ॥१४॥
nadī sūtrī varṣasya patayaḥ stanā stanayitnu-rūdhaḥ ..14..

विश्वव्यचास्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥
विश्वव्यचाः चर्म ओषधयः लोमानि नक्षत्राणि रूपम् ॥१५॥
viśvavyacāḥ carma oṣadhayaḥ lomāni nakṣatrāṇi rūpam ..15..

देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥
देव-जनाः गुदाः मनुष्याः आन्त्राणि अत्राः उदरम् ॥१६॥
deva-janāḥ gudāḥ manuṣyāḥ āntrāṇi atrāḥ udaram ..16..

रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥
रक्षांसि लोहितम् इतरजनौ ऊबध्यम् ॥१७॥
rakṣāṃsi lohitam itarajanau ūbadhyam ..17..

अभ्रं पीबो मज्जा निधनम् ॥१८॥
अभ्रम् पीबः मज्जा निधनम् ॥१८॥
abhram pībaḥ majjā nidhanam ..18..

अग्निरासीन उत्थितोऽश्विना ॥१९॥
अग्निः आसीनः उत्थितः अश्विना ॥१९॥
agniḥ āsīnaḥ utthitaḥ aśvinā ..19..

इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥
इन्द्रः प्राङ् तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥
indraḥ prāṅ tiṣṭhan dakṣiṇā tiṣṭhan yamaḥ ..20..

प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥
प्रत्यङ् तिष्ठन् धाता उदङ् तिष्ठन् सविता ॥२१॥
pratyaṅ tiṣṭhan dhātā udaṅ tiṣṭhan savitā ..21..

तृणानि प्राप्तः सोमो राजा ॥२२॥
तृणानि प्राप्तः सोमः राजा ॥२२॥
tṛṇāni prāptaḥ somaḥ rājā ..22..

मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥
मित्रः ईक्षमाणः आवृत्तः आनन्दः ॥२३॥
mitraḥ īkṣamāṇaḥ āvṛttaḥ ānandaḥ ..23..

युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥
युज्यमानः वैश्वदेवः युक्तः प्रजापतिः विमुक्तः सर्वम् ॥२४॥
yujyamānaḥ vaiśvadevaḥ yuktaḥ prajāpatiḥ vimuktaḥ sarvam ..24..

एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥
एतत् वै विश्व-रूपम् सर्व-रूपम् गो-रूपम् ॥२५॥
etat vai viśva-rūpam sarva-rūpam go-rūpam ..25..

उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१}
उप एनम् विश्व-रूपाः सर्व-रूपाः पशवः तिष्ठन्ति यः एवम् वेद ॥२६॥
upa enam viśva-rūpāḥ sarva-rūpāḥ paśavaḥ tiṣṭhanti yaḥ evam veda ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In