| |
|

This overlay will guide you through the buttons:

शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥
शीर्षक्तिम् शीर्ष-आमयम् कर्ण-शूलम् विलोहितम् ।सर्वम् शीर्षण्यम् ते रोगम् बहिस् निर्मन्त्रयामहे ॥१॥
śīrṣaktim śīrṣa-āmayam karṇa-śūlam vilohitam .sarvam śīrṣaṇyam te rogam bahis nirmantrayāmahe ..1..

कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥
कर्णाभ्याम् ते कङ्कूषेभ्यः कर्ण-शूलम् विसल्पकम् ।सर्वम् शीर्षण्यम् ते रोगम् बहिस् निर्मन्त्रयामहे ॥२॥
karṇābhyām te kaṅkūṣebhyaḥ karṇa-śūlam visalpakam .sarvam śīrṣaṇyam te rogam bahis nirmantrayāmahe ..2..

यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥
यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतः आस्यतः ।सर्वम् शीर्षण्यम् ते रोगम् बहिस् निर्मन्त्रयामहे ॥३॥
yasya hetoḥ pracyavate yakṣmaḥ karṇataḥ āsyataḥ .sarvam śīrṣaṇyam te rogam bahis nirmantrayāmahe ..3..

यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥
यः कृणोति प्रमोतम् अन्धम् कृणोति पूरुषम् ।सर्वम् शीर्षण्यम् ते रोगम् बहिस् निर्मन्त्रयामहे ॥४॥
yaḥ kṛṇoti pramotam andham kṛṇoti pūruṣam .sarvam śīrṣaṇyam te rogam bahis nirmantrayāmahe ..4..

अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् ।सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥
अङ्ग-भेदम् अङ्ग-ज्वरम् विश्वाङ्ग्यम् विसल्पकम् ।सर्वम् शीर्षण्यम् ते रोगम् बहिस् निर्मन्त्रयामहे ॥५॥
aṅga-bhedam aṅga-jvaram viśvāṅgyam visalpakam .sarvam śīrṣaṇyam te rogam bahis nirmantrayāmahe ..5..

यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् ।तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥६॥
यस्य भीमः प्रतीकाशः उद्वेपयति पूरुषम् ।तक्मानम् विश्व-शारदम् बहिस् निर्मन्त्रयामहे ॥६॥
yasya bhīmaḥ pratīkāśaḥ udvepayati pūruṣam .takmānam viśva-śāradam bahis nirmantrayāmahe ..6..

य ऊरू अनुसर्पत्यथो एति गवीनिके ।यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥७॥
यः ऊरू अनुसर्पति अथ उ एति गवीनिके ।यक्ष्मम् ते अन्तरङ्गेभ्यः बहिस् निर्मन्त्रयामहे ॥७॥
yaḥ ūrū anusarpati atha u eti gavīnike .yakṣmam te antaraṅgebhyaḥ bahis nirmantrayāmahe ..7..

यदि कामादपकामाद्धृदयाज्जायते परि ।हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥८॥
यदि कामात् अपकामात् हृदयात् जायते परि ।हृदः बलासम् अङ्गेभ्यः बहिस् निर्मन्त्रयामहे ॥८॥
yadi kāmāt apakāmāt hṛdayāt jāyate pari .hṛdaḥ balāsam aṅgebhyaḥ bahis nirmantrayāmahe ..8..

हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्।यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥९॥
हरिमाणम् ते अङ्गेभ्यः अप्वाम् अन्तरा उदरात्।यक्ष्मोधाम् अन्तरात्मनः बहिस् निर्मन्त्रयामहे ॥९॥
harimāṇam te aṅgebhyaḥ apvām antarā udarāt.yakṣmodhām antarātmanaḥ bahis nirmantrayāmahe ..9..

आसो बलासो भवतु मूत्रं भवत्वामयत्।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१०॥ {२२}
आसः बलासः भवतु मूत्रम् भवतु आमयत्।यक्ष्माणाम् सर्वेषाम् विषम् निरवोचम् अहम् त्वत्॥१०॥
āsaḥ balāsaḥ bhavatu mūtram bhavatu āmayat.yakṣmāṇām sarveṣām viṣam niravocam aham tvat..10..

बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥११॥
बहिस् बिलम् निर्द्रवतु काहाबाहम् तव उदरात्।यक्ष्माणाम् सर्वेषाम् विषम् निरवोचम् अहम् त्वत्॥११॥
bahis bilam nirdravatu kāhābāham tava udarāt.yakṣmāṇām sarveṣām viṣam niravocam aham tvat..11..

उदरात्ते क्लोम्नो नाभ्या हृदयादधि ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१२॥
उदरात् ते क्लोम्नः नाभ्याः हृदयात् अधि ।यक्ष्माणाम् सर्वेषाम् विषम् निरवोचम् अहम् त्वत्॥१२॥
udarāt te klomnaḥ nābhyāḥ hṛdayāt adhi .yakṣmāṇām sarveṣām viṣam niravocam aham tvat..12..

याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१३॥
याः सीमानम् विरुजन्ति मूर्धानम् प्रत्यर्षनीः ।अ हिंसन्तीः अनामयाः निर्द्रवन्तु बहिस् बिलम् ॥१३॥
yāḥ sīmānam virujanti mūrdhānam pratyarṣanīḥ .a hiṃsantīḥ anāmayāḥ nirdravantu bahis bilam ..13..

या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१४॥
याः हृदयम् उपर्षन्ति अनुतन्वन्ति कीकसाः ।अ हिंसन्तीः अनामयाः निर्द्रवन्तु बहिस् बिलम् ॥१४॥
yāḥ hṛdayam uparṣanti anutanvanti kīkasāḥ .a hiṃsantīḥ anāmayāḥ nirdravantu bahis bilam ..14..

याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१५॥
याः पार्श्वे उपर्षन्ति अनुनिक्षन्ति पृष्टीः ।अ हिंसन्तीः अनामयाः निर्द्रवन्तु बहिस् बिलम् ॥१५॥
yāḥ pārśve uparṣanti anunikṣanti pṛṣṭīḥ .a hiṃsantīḥ anāmayāḥ nirdravantu bahis bilam ..15..

यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१६॥
याः तिरश्चीः उपर्षन्ति अर्षणीः वक्षणासु ते ।अ हिंसन्तीः अनामयाः निर्द्रवन्तु बहिस् बिलम् ॥१६॥
yāḥ tiraścīḥ uparṣanti arṣaṇīḥ vakṣaṇāsu te .a hiṃsantīḥ anāmayāḥ nirdravantu bahis bilam ..16..

या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१७॥
याः गुदा अनुसर्पन्ति आन्त्राणि मोहयन्ति च ।अ हिंसन्तीः अनामयाः निर्द्रवन्तु बहिस् बिलम् ॥१७॥
yāḥ gudā anusarpanti āntrāṇi mohayanti ca .a hiṃsantīḥ anāmayāḥ nirdravantu bahis bilam ..17..

या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च ।अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१८॥
याः मज्ज्ञः निर्धयन्ति परूंषि विरुजन्ति च ।अ हिंसन्तीः अनामयाः निर्द्रवन्तु बहिस् बिलम् ॥१८॥
yāḥ majjñaḥ nirdhayanti parūṃṣi virujanti ca .a hiṃsantīḥ anāmayāḥ nirdravantu bahis bilam ..18..

ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१९॥
ये अङ्गानि मदयन्ति यक्ष्मासः रोपणाः तव ।यक्ष्माणाम् सर्वेषाम् विषम् निरवोचम् अहम् त्वत्॥१९॥
ye aṅgāni madayanti yakṣmāsaḥ ropaṇāḥ tava .yakṣmāṇām sarveṣām viṣam niravocam aham tvat..19..

विसल्पस्य विद्रधस्य वातीकारस्य वालजेः ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥२०॥
विसल्पस्य विद्रधस्य वातीकारस्य वा अलजेः ।यक्ष्माणाम् सर्वेषाम् विषम् निरवोचम् अहम् त्वत्॥२०॥
visalpasya vidradhasya vātīkārasya vā alajeḥ .yakṣmāṇām sarveṣām viṣam niravocam aham tvat..20..

पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः ।अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥२१॥
पादाभ्याम् ते जानुभ्याम् श्रोणिभ्याम् परि भंससः ।अनूका दर्षणीः उष्णिहाभ्यः शीर्ष्णः रोगम् अनीनशम् ॥२१॥
pādābhyām te jānubhyām śroṇibhyām pari bhaṃsasaḥ .anūkā darṣaṇīḥ uṣṇihābhyaḥ śīrṣṇaḥ rogam anīnaśam ..21..

सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः ।उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥२२॥ {२३}
सम् ते शीर्ष्णः कपालानि हृदयस्य च यः विधुः ।उद्यन् आदित्य रश्मिभिः शीर्ष्णः रोगम् अनीनशः अङ्ग-भेदम् अशीशमः ॥२२॥
sam te śīrṣṇaḥ kapālāni hṛdayasya ca yaḥ vidhuḥ .udyan āditya raśmibhiḥ śīrṣṇaḥ rogam anīnaśaḥ aṅga-bhedam aśīśamaḥ ..22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In