| |
|

This overlay will guide you through the buttons:

अथ अष्टादशोऽध्यायः ।
अथ अष्टादशः अध्यायः ।
atha aṣṭādaśaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ 1 ॥
सन्न्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥ १ ॥
sannyāsasya mahā-bāho tattvam icchāmi veditum . tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana .. 1 ..
Arjuna said: O mighty-armed one, I wish to understand the purpose of renunciation [tyaga] and of the renounced order of life [sannyasa], O killer of the Kesi demon, master of the senses.
श्रीभगवानुवाच । / sribhagavanuvacha ।
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2 ॥
काम्यानाम् कर्मणाम् न्यासम् सत्-न्यासम् कवयः विदुः । सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः ॥ २ ॥
kāmyānām karmaṇām nyāsam sat-nyāsam kavayaḥ viduḥ . sarva-karma-phala-tyāgam prāhuḥ tyāgam vicakṣaṇāḥ .. 2 ..
The Supreme Personality of Godhead said: The giving up of activities that are based on material desire is what great learned men call the renounced order of life [sannyasa]. And giving up the results of all activities is what the wise call renunciation [tyaga].
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 3 ॥
त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥
tyājyam doṣavat iti eke karma prāhuḥ manīṣiṇaḥ . yajña-dāna-tapaḥ-karma na tyājyam iti ca apare .. 3 ..
Some learned men declare that all kinds of fruitive activities should be given up as faulty, yet other sages maintain that acts of sacrifice, charity and penance should never be abandoned.
निश्चयं शऋणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 4 ॥
निश्चयम् शऋणु मे तत्र त्यागे भरत-सत्तम । त्यागः हि पुरुष-व्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥
niścayam śaṛṇu me tatra tyāge bharata-sattama . tyāgaḥ hi puruṣa-vyāghra trividhaḥ samprakīrtitaḥ .. 4 ..
O best of the Bharatas, now hear My judgment about renunciation. O tiger among men, renunciation is declared in the scriptures to be of three kinds.
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 5 ॥
यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् । यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् ॥ ५ ॥
yajña-dāna-tapaḥ-karma na tyājyam kāryam eva tat . yajñaḥ dānam tapaḥ ca eva pāvanāni manīṣiṇām .. 5 ..
Acts of sacrifice, charity and penance are not to be given up; they must be performed. Indeed, sacrifice, charity and penance purify even the great souls.
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6 ॥
एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च । कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् ॥ ६ ॥
etāni api tu karmāṇi saṅgam tyaktvā phalāni ca . kartavyāni iti me pārtha niścitam matam uttamam .. 6 ..
All these activities should be performed without attachment or any expectation of result. They should be performed as a matter of duty, O son of Prtha. That is My final opinion.
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 7 ॥
नियतस्य तु सन्न्यासः कर्मणः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ ७ ॥
niyatasya tu sannyāsaḥ karmaṇaḥ na upapadyate . mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ .. 7 ..
Prescribed duties should never be renounced. If one gives up his prescribed duties because of illusion, such renunciation is said to be in the mode of ignorance.
दुःखमित्येव यत्कर्म कायक्लएशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 8 ॥
दुःखम् इति एव यत् कर्म त्यजेत् । स कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् ॥ ८ ॥
duḥkham iti eva yat karma tyajet . sa kṛtvā rājasam tyāgam na eva tyāga-phalam labhet .. 8 ..
Anyone who gives up prescribed duties as troublesome or out of fear of bodily discomfort is said to have renounced in the mode of passion. Such action never leads to the elevation of renunciation.
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ 9 ॥
कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन । सङ्गम् त्यक्त्वा फलम् च एव स त्यागः सात्त्विकः मतः ॥ ९ ॥
kāryam iti eva yat karma niyatam kriyate arjuna . saṅgam tyaktvā phalam ca eva sa tyāgaḥ sāttvikaḥ mataḥ .. 9 ..
O Arjuna, when one performs his prescribed duty only because it ought to be done, and renounces all material association and all attachment to the fruit, his renunciation is said to be in the mode of goodness.
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 10 ॥
न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते । त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः ॥ १० ॥
na dveṣṭi akuśalam karma kuśale na anuṣajjate . tyāgī sattva-samāviṣṭaḥ medhāvī chinna-saṃśayaḥ .. 10 ..
The intelligent renouncer situated in the mode of goodness, neither hateful of inauspicious work nor attached to auspicious work, has no doubts about work.
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 11 ॥
न हि देहभृता शक्यम् त्यक्तुम् कर्माणि अशेषतस् । यः तु कर्म-फल-त्यागी स त्यागी इति अभिधीयते ॥ ११ ॥
na hi dehabhṛtā śakyam tyaktum karmāṇi aśeṣatas . yaḥ tu karma-phala-tyāgī sa tyāgī iti abhidhīyate .. 11 ..
It is indeed impossible for an embodied being to give up all activities. But he who renounces the fruits of action is called one who has truly renounced.
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ 12 ॥
अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् । भवति अत्यागिनाम् प्रेत्य न तु सन्न्यासिनाम् क्वचिद् ॥ १२ ॥
aniṣṭam iṣṭam miśram ca trividham karmaṇaḥ phalam . bhavati atyāginām pretya na tu sannyāsinām kvacid .. 12 ..
For one who is not renounced, the threefold fruits of action – desirable, undesirable and mixed – accrue after death. But those who are in the renounced order of life have no such result to suffer or enjoy.
पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 13 ॥
पञ्च एतानि महा-बाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ १३ ॥
pañca etāni mahā-bāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarva-karmaṇām .. 13 ..
O mighty-armed Arjuna, according to the Vedanta there are five causes for the accomplishment of all action. Now learn of these from Me.
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ 14 ॥
अधिष्ठानम् तथा कर्ता करणम् च पृथग्विधम् । विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् ॥ १४ ॥
adhiṣṭhānam tathā kartā karaṇam ca pṛthagvidham . vividhāḥ ca pṛthak ceṣṭāḥ daivam ca eva atra pañcamam .. 14 ..
The place of action [the body], the performer, the various senses, the many different kinds of endeavor, and ultimately the Supersoul – these are the five factors of action.
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 15 ॥
शरीर-वाच्-मनोभिः यत् कर्म प्रारभते नरः । न्याय्यम् वा विपरीतम् वा पञ्च एते तस्य हेतवः ॥ १५ ॥
śarīra-vāc-manobhiḥ yat karma prārabhate naraḥ . nyāyyam vā viparītam vā pañca ete tasya hetavaḥ .. 15 ..
Whatever right or wrong action a man performs by body, mind or speech is caused by these five factors.
तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 16 ॥
तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः । पश्यति अकृतबुद्धि-त्वात् न स पश्यति दुर्मतिः ॥ १६ ॥
tatra evam sati kartāram ātmānam kevalam tu yaḥ . paśyati akṛtabuddhi-tvāt na sa paśyati durmatiḥ .. 16 ..
Therefore one who thinks himself the only doer, not considering the five factors, is certainly not very intelligent and cannot see things as they are.
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लओकान्न हन्ति न निबध्यते ॥ 17 ॥
यस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते । हत्वा अपि सः इमान् लओकान् न हन्ति न निबध्यते ॥ १७ ॥
yasya na ahaṅkṛtaḥ bhāvaḥ buddhiḥ yasya na lipyate . hatvā api saḥ imān laokān na hanti na nibadhyate .. 17 ..
One who is not motivated by false ego, whose intelligence is not entangled, though he kills men in this world, does not kill. Nor is he bound by his actions.
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ 18 ॥
ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना । करणम् कर्म कर्ता इति त्रिविधः कर्म-सङ्ग्रहः ॥ १८ ॥
jñānam jñeyam parijñātā trividhā karma-codanā . karaṇam karma kartā iti trividhaḥ karma-saṅgrahaḥ .. 18 ..
Knowledge, the object of knowledge, and the knower are the three factors that motivate action; the senses, the work and the doer are the three constituents of action.
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ 19 ॥
ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः । प्रोच्यते गुण-सङ्ख्याने यथावत् शृणु तानि अपि ॥ १९ ॥
jñānam karma ca kartā ca tridhā eva guṇa-bhedataḥ . procyate guṇa-saṅkhyāne yathāvat śṛṇu tāni api .. 19 ..
According to the three different modes of material nature, there are three kinds of knowledge, action and performer of action. Now hear of them from Me.
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ 20 ॥
सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते । अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् ॥ २० ॥
sarva-bhūteṣu yena ekam bhāvam avyayam īkṣate . avibhaktam vibhakteṣu tat jñānam viddhi sāttvikam .. 20 ..
That knowledge by which one undivided spiritual nature is seen in all living entities, though they are divided into innumerable forms, you should understand to be in the mode of goodness.
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ 21 ॥
पृथक्त्वेन तु यत् ज्ञानम् नाना भावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥ २१ ॥
pṛthaktvena tu yat jñānam nānā bhāvān pṛthagvidhān . vetti sarveṣu bhūteṣu tat jñānam viddhi rājasam .. 21 ..
That knowledge by which one sees that in every different body there is a different type of living entity you should understand to be in the mode of passion.
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ 22 ॥
यत् तु कृत्स्न-वत् एकस्मिन् कार्ये सक्तम् अहैतुकम् । अतत्त्व-अर्थवत् अल्पम् च तत् तामसम् उदाहृतम् ॥ २२ ॥
yat tu kṛtsna-vat ekasmin kārye saktam ahaitukam . atattva-arthavat alpam ca tat tāmasam udāhṛtam .. 22 ..
And that knowledge by which one is attached to one kind of work as the all in all, without knowledge of the truth, and which is very meager, is said to be in the mode of darkness.
नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 23 ॥
नियतम् सङ्ग-रहितम् अ राग-द्वेषतः कृतम् । अ फल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ २३ ॥
niyatam saṅga-rahitam a rāga-dveṣataḥ kṛtam . a phala-prepsunā karma yat tat sāttvikam ucyate .. 23 ..
That action which is regulated and which is performed without attachment, without love or hatred, and without desire for fruitive results is said to be in the mode of goodness.
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 24 ॥
यत् तु काम-ईप्सुना कर्म स अहङ्कारेण वा पुनर् । क्रियते बहुल-आयासम् तत् राजसम् उदाहृतम् ॥ २४ ॥
yat tu kāma-īpsunā karma sa ahaṅkāreṇa vā punar . kriyate bahula-āyāsam tat rājasam udāhṛtam .. 24 ..
But action performed with great effort by one seeking to gratify his desires, and enacted from a sense of false ego, is called action in the mode of passion.
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 25 ॥
अनुबन्धम् क्षयम् हिंसाम् अन् अपेक्ष्य च पौरुषम् । मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ २५ ॥
anubandham kṣayam hiṃsām an apekṣya ca pauruṣam . mohāt ārabhyate karma yat tat tāmasam ucyate .. 25 ..
That action performed in illusion, in disregard of scriptural injunctions, and without concern for future bondage or for violence or distress caused to others is said to be in the mode of ignorance.
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ 26 ॥
मुक्त-सङ्गः अन् अहंवादी धृति-उत्साह-समन्वितः । सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ॥ २६ ॥
mukta-saṅgaḥ an ahaṃvādī dhṛti-utsāha-samanvitaḥ . siddhi-asiddhyoḥ nirvikāraḥ kartā sāttvikaḥ ucyate .. 26 ..
One who performs his duty without association with the modes of material nature, without false ego, with great determination and enthusiasm, and without wavering in success or failure is said to be a worker in the mode of goodness.
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशउचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 27 ॥
रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसा-आत्मकः अशौचिः । हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥
rāgī karma-phala-prepsuḥ lubdhaḥ hiṃsā-ātmakaḥ aśauciḥ . harṣa-śoka-anvitaḥ kartā rājasaḥ parikīrtitaḥ .. 27 ..
The worker who is attached to work and the fruits of work, desiring to enjoy those fruits, and who is greedy, always envious, impure, and moved by joy and sorrow, is said to be in the mode of passion.
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 28 ॥
अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः । विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ॥ २८ ॥
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭhaḥ naiṣkṛtikaḥ alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasaḥ ucyate .. 28 ..
The worker who is always engaged in work against the injunctions of the scripture, who is materialistic, obstinate, cheating and expert in insulting others, and who is lazy, always morose and procrastinating is said to be a worker in the mode of ignorance.
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शऋणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ 29 ॥
बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शऋणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
buddheḥ bhedam dhṛteḥ ca eva guṇataḥ trividham śaṛṇu . procyamānam aśeṣeṇa pṛthaktvena dhanañjaya .. 29 ..
O winner of wealth, now please listen as I tell you in detail of the different kinds of understanding and determination, according to the three modes of material nature.
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ 30 ॥
प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये । बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥
pravṛttim ca nivṛttim ca kārya-akārye bhaya-abhaye . bandham mokṣam ca yā vetti buddhiḥ sā pārtha sāttvikī .. 30 ..
O son of Prtha, that understanding by which one knows what ought to be done and what ought not to be done, what is to be feared and what is not to be feared, what is binding and what is liberating, is in the mode of goodness.
यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 31 ॥
यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
yayā dharmam adharmam ca kāryam ca akāryam eva ca . ayathāvat prajānāti buddhiḥ sā pārtha rājasī .. 31 ..
O son of Prtha, that understanding which cannot distinguish between religion and irreligion, between action that should be done and action that should not be done, is in the mode of passion.
अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 32 ॥
अधर्मम् धर्मम् इति या मन्यते तमसा आवृता । सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥ ३२ ॥
adharmam dharmam iti yā manyate tamasā āvṛtā . sarva-arthān viparītān ca buddhiḥ sā pārtha tāmasī .. 32 ..
That understanding which considers irreligion to be religion and religion to be irreligion, under the spell of illusion and darkness, and strives always in the wrong direction, O Partha, is in the mode of ignorance.
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ 33 ॥
धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः । योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
dhṛtyā yayā dhārayate manaḥ-prāṇa-indriya-kriyāḥ . yogena avyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī .. 33 ..
O son of Prtha, that determination which is unbreakable, which is sustained with steadfastness by yoga practice, and which thus controls the activities of the mind, life and senses is determination in the mode of goodness.
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 34 ॥
यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन । प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
yayā tu dharma-kāma-arthān dhṛtyā dhārayate arjuna . prasaṅgena phala-ākāṅkṣī dhṛtiḥ sā pārtha rājasī .. 34 ..
But that determination by which one holds fast to fruitive results in religion, economic development and sense gratification is of the nature of passion, O Arjuna.
यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 35 ॥
यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च । न विमुञ्चति दुर्मेधाः धृतिः सा पार्थ तामसी ॥ ३५ ॥
yayā svapnam bhayam śokam viṣādam madam eva ca . na vimuñcati durmedhāḥ dhṛtiḥ sā pārtha tāmasī .. 35 ..
And that determination which cannot go beyond dreaming, fearfulness, lamentation, moroseness and illusion – such unintelligent determination, O son of Prtha, is in the mode of darkness
सुखं त्विदानीं त्रिविधं शऋणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 36 ॥
सुखम् तु इदानीम् त्रिविधम् शऋणु मे भरत-ऋषभ । अभ्यासात् रमते यत्र दुःख-अन्तम् च निगच्छति ॥ ३६ ॥
sukham tu idānīm trividham śaṛṇu me bharata-ṛṣabha . abhyāsāt ramate yatra duḥkha-antam ca nigacchati .. 36 ..
O best of the Bharatas, now please hear from Me about the three kinds of happiness by which the conditioned soul enjoys, and by which he sometimes comes to the end of all distress.
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 37 ॥
यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् । तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥ ३७ ॥
yat tat agre viṣam iva pariṇāme amṛta-upamam . tat sukham sāttvikam proktam ātma-buddhi-prasāda-jam .. 37 ..
That which in the beginning may be just like poison but at the end is just like nectar and which awakens one to self-realization is said to be happiness in the mode of goodness.
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 38 ॥
विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् । परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् ॥ ३८ ॥
viṣaya-indriya-saṃyogāt yat tat agre amṛta-upamam . pariṇāme viṣam iva tat sukham rājasam smṛtam .. 38 ..
That happiness which is derived from contact of the senses with their objects and which appears like nectar at first but poison at the end is said to be of the nature of passion.
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ 39 ॥
यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः । निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् ॥ ३९ ॥
yat agre ca anubandhe ca sukham mohanam ātmanaḥ . nidrā-ālasya-pramāda-uttham tat tāmasam udāhṛtam .. 39 ..
And that happiness which is blind to self-realization, which is delusion from beginning to end and which arises from sleep, laziness and illusion is said to be of the nature of ignorance.
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ 40 ॥
न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनर् । सत्त्वम् प्रकृति-जैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥ ४० ॥
na tat asti pṛthivyām vā divi deveṣu vā punar . sattvam prakṛti-jaiḥ muktam yat ebhiḥ syāt tribhiḥ guṇaiḥ .. 40 ..
There is no being existing, either here or among the demigods in the higher planetary systems, which is freed from these three modes born of material nature.
ब्राह्मणक्षत्रियविशां शऊद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 41 ॥
ब्राह्मण-क्षत्रिय-विशाम् शऊद्राणाम् च परन्तप । कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥ ४१ ॥
brāhmaṇa-kṣatriya-viśām śaūdrāṇām ca parantapa . karmāṇi pravibhaktāni svabhāva-prabhavaiḥ guṇaiḥ .. 41 ..
Brahmanas, ksatriyas, vaisyas and sudras are distinguished by the qualities born of their own natures in accordance with the material modes, O chastiser of the enemy.
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 42 ॥
शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च । ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभाव-जम् ॥ ४२ ॥
śamaḥ damaḥ tapaḥ śaucam kṣāntiḥ ārjavam eva ca . jñānam vijñānam āstikyam brahma-karma svabhāva-jam .. 42 ..
Peacefulness, self-control, austerity, purity, tolerance, honesty, knowledge, wisdom and religiousness – these are the natural qualities by which the brahmanas work.
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 43 ॥
शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् । दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभाव-जम् ॥ ४३ ॥
śauryam tejaḥ dhṛtiḥ dākṣyam yuddhe ca api apalāyanam . dānam īśvara-bhāvaḥ ca kṣātram karma svabhāva-jam .. 43 ..
Heroism, power, determination, resourcefulness, courage in battle, generosity and leadership are the natural qualities of work for the ksatriyas.
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शऊद्रस्यापि स्वभावजम् ॥ 44 ॥
कृषि-गोरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभाव-जम् । परिचर्या-आत्मकम् कर्म शऊद्रस्य अपि स्वभाव-जम् ॥ ४४ ॥
kṛṣi-gorakṣya-vāṇijyam vaiśya-karma svabhāva-jam . paricaryā-ātmakam karma śaūdrasya api svabhāva-jam .. 44 ..
Farming, cow protection and business are the natural work for the vaisyas, and for the sudras there are labor and service to others.
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नर स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ 45 ॥
स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नर स्व-कर्म-निरतः सिद्धिम् यथा विन्दति तत् शृणु ॥ ४५ ॥
sve sve karmaṇi abhirataḥ saṃsiddhim labhate nara sva-karma-nirataḥ siddhim yathā vindati tat śṛṇu .. 45 ..
By following his qualities of work, every man can become perfect. Now please hear from Me how this can be done.
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 46 ॥
यतस् प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः ॥ ४६ ॥
yatas pravṛttiḥ bhūtānām yena sarvam idam tatam . sva-karmaṇā tam abhyarcya siddhim vindati mānavaḥ .. 46 ..
By worship of the Lord, who is the source of all beings and who is all-pervading, a man can attain perfection through performing his own work.
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 47 ॥
श्रेयान् स्वधर्मः विगुणः पर-धर्मात् सु अनुष्ठितात् । स्वभाव-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ ४७ ॥
śreyān svadharmaḥ viguṇaḥ para-dharmāt su anuṣṭhitāt . svabhāva-niyatam karma kurvan na āpnoti kilbiṣam .. 47 ..
It is better to engage in one’s own occupation, even though one may perform it imperfectly, than to accept another’s occupation and perform it perfectly. Duties prescribed according to one’s nature are never affected by sinful reactions.
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्नइरिवावृताः ॥ 48 ॥
सहजम् कर्म कौन्तेय स दोषम् अपि न त्यजेत् । सर्व-आरम्भाः हि दोषेण धूमेन अग्नैः इव आवृताः ॥ ४८ ॥
sahajam karma kaunteya sa doṣam api na tyajet . sarva-ārambhāḥ hi doṣeṇa dhūmena agnaiḥ iva āvṛtāḥ .. 48 ..
Every endeavor is covered by some fault, just as fire is covered by smoke. Therefore one should not give up the work born of his nature, O son of Kunti, even if such work is full of fault.
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ 49 ॥
असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिम् परमाम् सन्न्यासेन अधिगच्छति ॥ ४९ ॥
asakta-buddhiḥ sarvatra jita-ātmā vigata-spṛhaḥ . naiṣkarmya-siddhim paramām sannyāsena adhigacchati .. 49 ..
One who is self-controlled and unattached and who disregards all material enjoyments can obtain, by practice of renunciation, the highest perfect stage of freedom from reaction.
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50 ॥
सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे । समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
siddhim prāptaḥ yathā brahma tathā āpnoti nibodha me . samāsena eva kaunteya niṣṭhā jñānasya yā parā .. 50 ..
O son of Kunti, learn from Me how one who has achieved this perfection can attain to the supreme perfectional stage, Brahman, the stage of highest knowledge, by acting in the way I shall now summarize.
बुद्ध्या विशउद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 51 ॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 52 ॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 53 ॥
बुद्ध्या विशौद्धया युक्तः धृत्य आत्मानम् नियम्य च । शब्द-आदीन् विषयान् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ ५१ ॥ । ध्यान-योग-परः नित्यम् वैराग्यम् समुपाश्रितः ॥ ५२ ॥ अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् । विमुच्य निर्ममः शान्तः ब्रह्म-भूयाय कल्पते ॥ ५३ ॥
buddhyā viśauddhayā yuktaḥ dhṛtya ātmānam niyamya ca . śabda-ādīn viṣayān tyaktvā rāga-dveṣau vyudasya ca .. 51 .. . dhyāna-yoga-paraḥ nityam vairāgyam samupāśritaḥ .. 52 .. ahaṅkāram balam darpam kāmam krodham parigraham . vimucya nirmamaḥ śāntaḥ brahma-bhūyāya kalpate .. 53 ..
Being purified by his intelligence and controlling the mind with determination, giving up the objects of sense gratification, being freed from attachment and hatred, one who lives in a secluded place, who eats little, who controls his body, mind and power of speech, who is always in trance and who is detached, free from false ego, false strength, false pride, lust, anger, and acceptance of material things, free from false proprietorship, and peaceful – such a person is certainly elevated to the position of self-realization.
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ 54 ॥
ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्-भक्तिम् लभते पराम् ॥ ५४ ॥
brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu mad-bhaktim labhate parām .. 54 ..
One who is thus transcendentally situated at once realizes the Supreme Brahman and becomes fully joyful. He never laments or desires to have anything. He is equally disposed toward every living entity. In that state he attains pure devotional service unto Me.
भक्त्यआ मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 55 ॥
भक्त्यआ माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः । ततस् माम् तत्त्वतः ज्ञात्वा विशते तद्-अनन्तरम् ॥ ५५ ॥
bhaktyaā mām abhijānāti yāvān yaḥ ca asmi tattvataḥ . tatas mām tattvataḥ jñātvā viśate tad-anantaram .. 55 ..
One can understand Me as I am, as the Supreme Personality of Godhead, only by devotional service. And when one is in full consciousness of Me by such devotion, he can enter into the kingdom of God.
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 56 ॥
सर्व-कर्माणि अपि सदा कुर्वाणः मद्-व्यपाश्रयः । मद्-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥ ५६ ॥
sarva-karmāṇi api sadā kurvāṇaḥ mad-vyapāśrayaḥ . mad-prasādāt avāpnoti śāśvatam padam avyayam .. 56 ..
Though engaged in all kinds of activities, My pure devotee, under My protection, reaches the eternal and imperishable abode by My grace.
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चइत्तः सततं भव ॥ 57 ॥
चेतसा सर्व-कर्माणि मयि सन्न्यस्य मद्-परः । बुद्धि-योगम् उपाश्रित्य मद्-चैत्तः सततम् भव ॥ ५७ ॥
cetasā sarva-karmāṇi mayi sannyasya mad-paraḥ . buddhi-yogam upāśritya mad-caittaḥ satatam bhava .. 57 ..
In all activities just depend upon Me and work always under My protection. In such devotional service, be fully conscious of Me.
मच्चइत्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ 58 ॥
मद्-चैत्तः सर्व-दुर्गाणि मद्-प्रसादात् तरिष्यसि । अथ चेद् त्वम् अहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥
mad-caittaḥ sarva-durgāṇi mad-prasādāt tariṣyasi . atha ced tvam ahaṅkārāt na śroṣyasi vinaṅkṣyasi .. 58 ..
If you become conscious of Me, you will pass over all the obstacles of conditioned life by My grace. If, however, you do not work in such consciousness but act through false ego, not hearing Me, you will be lost.
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 59 ॥
यत् अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे । मिथ्या एष व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति ॥ ५९ ॥
yat ahaṅkāram āśritya na yotsye iti manyase . mithyā eṣa vyavasāyaḥ te prakṛtiḥ tvām niyokṣyati .. 59 ..
If you do not act according to My direction and do not fight, then you will be falsely directed. By your nature, you will have to be engaged in warfare.
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ 60 ॥
स्वभाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुम् ना इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥ ६० ॥
svabhāva-jena kaunteya nibaddhaḥ svena karmaṇā . kartum nā icchasi yat mohāt kariṣyasi avaśaḥ api tat .. 60 ..
Under illusion you are now declining to act according to My direction. But, compelled by the work born of your own nature, you will act all the same, O son of Kunti.
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 61 ॥
ईश्वरः सर्व-भूतानाम् हृद्-देशे अर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया ॥ ६१ ॥
īśvaraḥ sarva-bhūtānām hṛd-deśe arjuna tiṣṭhati . bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā .. 61 ..
The Supreme Lord is situated in everyone’s heart, O Arjuna, and is directing the wanderings of all living entities, who are seated as on a machine, made of the material energy.
तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ 62 ॥
तम् एव शरणम् गच्छ सर्व-भावेन भारत । तद्-प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
tam eva śaraṇam gaccha sarva-bhāvena bhārata . tad-prasādāt parām śāntim sthānam prāpsyasi śāśvatam .. 62 ..
O scion of Bharata, surrender unto Him utterly. By His grace you will attain transcendental peace and the supreme and eternal abode.
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 63 ॥
इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरम् मया । विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥ ६३ ॥
iti te jñānam ākhyātam guhyāt guhyataram mayā . vimṛśya etat aśeṣeṇa yathā icchasi tathā kuru .. 63 ..
Thus I have explained to you knowledge still more confidential. Deliberate on this fully, and then do what you wish to do.
सर्वगुह्यतमं भूयः शऋणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 64 ॥
सर्व-गुह्यतमम् भूयस् शऋणु मे परमम् वचः । इष्टः असि मे दृढम् इति ततस् वक्ष्यामि ते हितम् ॥ ६४ ॥
sarva-guhyatamam bhūyas śaṛṇu me paramam vacaḥ . iṣṭaḥ asi me dṛḍham iti tatas vakṣyāmi te hitam .. 64 ..
Because you are My very dear friend, I am speaking to you My supreme instruction, the most confidential knowledge of all. Hear this from Me, for it is for your benefit.
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 65 ॥
मद्-मनाः भव मद्-भक्तः मद्-याजी माम् नमस्कुरु । माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे ॥ ६५ ॥
mad-manāḥ bhava mad-bhaktaḥ mad-yājī mām namaskuru . mām eva eṣyasi satyam te pratijāne priyaḥ asi me .. 65 ..
Always think of Me, become My devotee, worship Me and offer your homage unto Me. Thus you will come to Me without fail. I promise you this because you are My very dear friend.
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शउचः ॥ 66 ॥
सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज । अहम् त्वाम् सर्व-पापेभ्यः मोक्षयिष्यामि मा शौचः ॥ ६६ ॥
sarva-dharmān parityajya mām ekam śaraṇam vraja . aham tvām sarva-pāpebhyaḥ mokṣayiṣyāmi mā śaucaḥ .. 66 ..
Abandon all varieties of religion and just surrender unto Me. I shall deliver you from all sinful reactions. Do not fear.
इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशउश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 67 ॥
इदम् ते न अतपस्काय न अभक्ताय कदाचन । न च अ शौश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥ ६७ ॥
idam te na atapaskāya na abhaktāya kadācana . na ca a śauśrūṣave vācyam na ca mām yaḥ abhyasūyati .. 67 ..
This confidential knowledge may never be explained to those who are not austere, or devoted, or engaged in devotional service, nor to one who is envious of Me.
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 68 ॥
यः इदम् परमम् गुह्यम् मद्-भक्तेषु अभिधास्यति । भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥
yaḥ idam paramam guhyam mad-bhakteṣu abhidhāsyati . bhaktim mayi parām kṛtvā mām eva eṣyati asaṃśayaḥ .. 68 ..
For one who explains this supreme secret to the devotees, pure devotional service is guaranteed, and at the end he will come back to Me.
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ 69 ॥
न च तस्मात् मनुष्येषु कश्चिद् मे प्रिय-कृत्तमः । भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥ ६९ ॥
na ca tasmāt manuṣyeṣu kaścid me priya-kṛttamaḥ . bhavitā na ca me tasmāt anyaḥ priyataraḥ bhuvi .. 69 ..
There is no servant in this world more dear to Me than he, nor will there ever be one more dear.
अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 70 ॥
अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः । ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः ॥ ७० ॥
adhyeṣyate ca yaḥ imam dharmyam saṃvādam āvayoḥ . jñāna-yajñena tena aham iṣṭaḥ syām iti me matiḥ .. 70 ..
And I declare that he who studies this sacred conversation of ours worships Me by his intelligence.
श्रद्धावाननसूयश्च शऋणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लओकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ 71 ॥
श्रद्धावान् अनसूयः च शऋणुयात् अपि यः नरः । सः अपि मुक्तः शुभान् लओकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ ७१ ॥
śraddhāvān anasūyaḥ ca śaṛṇuyāt api yaḥ naraḥ . saḥ api muktaḥ śubhān laokān prāpnuyāt puṇya-karmaṇām .. 71 ..
And one who listens with faith and without envy becomes free from sinful reactions and attains to the auspicious planets where the pious dwell.
कच्चइदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चइदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ 72 ॥
कच्च एद् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा । कच्च एद् अज्ञान-सम्मोहः प्रणष्टः ते धनञ्जय ॥ ७२ ॥
kacca ed etat śrutam pārtha tvayā ekāgreṇa cetasā . kacca ed ajñāna-sammohaḥ praṇaṣṭaḥ te dhanañjaya .. 72 ..
O son of Prtha, O conqueror of wealth, have you heard this with an attentive mind? And are your ignorance and illusions now dispelled?
अर्जुन उवाच । / arjuna uvacha ।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ 73 ॥
नष्टः मोहः स्मृतिः लब्धा त्वद्-प्रसादात् मया अच्युत । स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव ॥ ७३ ॥
naṣṭaḥ mohaḥ smṛtiḥ labdhā tvad-prasādāt mayā acyuta . sthitaḥ asmi gata-sandehaḥ kariṣye vacanam tava .. 73 ..
Arjuna said: My dear Krsna, O infallible one, my illusion is now gone. I have regained my memory by Your mercy. I am now firm and free from doubt and am prepared to act according to Your instructions.
सञ्जय उवाच । / sanjaya uvacha
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 74 ॥
इति अहम् वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् ॥ ७४ ॥
iti aham vāsudevasya pārthasya ca mahātmanaḥ . saṃvādam imam aśrauṣam adbhutam roma-harṣaṇam .. 74 ..
Sañjaya said: Thus have I heard the conversation of two great souls, Krsna and Arjuna. And so wonderful is that message that my hair is standing on end.
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ 75 ॥
व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् । योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ ७५ ॥
vyāsa-prasādāt śrutavān etat guhyam aham param . yogam yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam .. 75 ..
By the mercy of Vyasa, I have heard these most confidential talks directly from the master of all mysticism, Krsna, who was speaking personally to Arjuna.
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 76 ॥
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुर् मुहुर् ॥ ७६ ॥
rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam . keśava-arjunayoḥ puṇyam hṛṣyāmi ca muhur muhur .. 76 ..
O King, as I repeatedly recall this wondrous and holy dialogue between Krsna and Arjuna, I take pleasure, being thrilled at every moment.
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ 77 ॥
तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतम् हरेः । विस्मयः मे महान् राजन् हृष्यामि च पुनर् पुनर् ॥ ७७ ॥
tat ca saṃsmṛtya saṃsmṛtya rūpam ati adbhutam hareḥ . vismayaḥ me mahān rājan hṛṣyāmi ca punar punar .. 77 ..
O King, as I remember the wonderful form of Lord Krsna, I am struck with wonder more and more, and I rejoice again and again.
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 78 ॥
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुः-धरः । तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥ ७८ ॥
yatra yogeśvaraḥ kṛṣṇaḥ yatra pārthaḥ dhanuḥ-dharaḥ . tatra śrīḥ vijayaḥ bhūtiḥ dhruvā nītiḥ matiḥ mama .. 78 ..
Wherever there is Krsna, the master of all mystics, and wherever there is Arjuna, the supreme archer, there will also certainly be opulence, victory, extraordinary power, and morality. That is my opinion.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नामाष्टादशोऽध्यायः ॥ 18 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे मोक्षसन्न्यासयोगः नाम अष्टादशः अध्यायः ॥ १८ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde mokṣasannyāsayogaḥ nāma aṣṭādaśaḥ adhyāyaḥ .. 18 ..
AUM, "THAT" is "IT". Thus, the Eighteenth section of the Auspicious Bhagavad Gita,named Moksha Sanyasa Yoga[The Yoga of Ultimate Liberation ] , From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In